Summary (SA)
Chapter 98- Story of Agni and Jātavedas
{{Ref- SS 163-164}}
ब्रह्मोवाच-
अग्नितीर्थम् इति ख्यातं सर्वक्रतुफलप्रदम् ।
सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु ॥ १ ॥
जातवेदा इति ख्यातो अग्नेर् भ्राता स हव्यवाट् ।
हव्यं वहन्तं देवानां गौतम्यास् तीर एव तु ॥ २ ॥
ऋषीणां सत्त्रसदने अग्नेर् भ्रातरम् उत्तमम् ।
भ्रातुः प्रियं तथा दक्षं मधुर् दितिसुतो बली ॥ ३ ॥
जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्व् अपि ।
हव्यं देवा नैव चापुर् मृते वै जातवेदसि ॥ ४ ॥
मृते भ्रातरि स त्व् अग्निः प्रिये वै जातवेदसि ।
कोपेन महताविष्टो गाङ्गम् अम्भः समाविशत् ॥ ५ ॥
गङ्गाम्भसि समाविष्टे ह्य् अग्नौ देवाश् च मानुषाः ।
जीवम् उत्सर्जयाम् आसुर् अग्निजीवा यतो मताः ॥ ६ ॥
यत्राग्निर् जलम् आविष्टस् तं देशं सर्व एव ते ।
आजग्मुर् विबुधाः सर्व ऋषयः पितरस् तथा ॥ ७ ॥
विनाग्निना न जीवामः स्तुवन्तो ऽग्निं विशेषतः ।
अग्निं जलगतं दृष्ट्वा प्रियं चोचुर् दिवौकसः ॥ ८ ॥
देवा ऊचुः-
देवाञ् जीवय हव्येन कव्येन च पितॄंस् तथा ।
मानुषान् अन्नपाकेन बीजानां क्लेदनेन च ॥ ९ ॥
ब्रह्मोवाच-
अग्निर् अप्य् आह तान् देवाञ् शक्तो यो मे गतो ऽनुजः ।
क्रियमाणे भवत्कार्ये या गतिर् जातवेदसः ॥ १० ॥
सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने ।
कार्यं तु सर्वतस् तस्य भवतां जातवेदसः ॥ ११ ॥
इमां स्थितिम् अनुप्राप्तो न जाने मे कथं भवेत् ।
इह चामुत्र च व्याप्तौ शक्तिर् अप्य् अत्र नो भवेत् ॥ १२ ॥
अथापि क्रियमाणे वै कार्ये सैव गतिर् मम ।
देवास् तम् ऊचुर् भावेन सर्वेण ऋषयस् तथा ॥ १३ ॥
आयुः कर्मणि च प्रीतिर् व्याप्तौ शक्तिश् च दीयते ।
प्रयाजान् अनुयाजांश् च दास्यामो हव्यवाहन ॥ १४ ॥
देवानां त्वं मुखं श्रेष्ठम् आहुत्यः प्रथमास् तव ।
त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम ॥ १५ ॥
ब्रह्मोवाच-
ततस् तुष्टो ऽभवद् वह्निर् देववाक्याद् यथाक्रमम् ।
इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ १६ ॥
सर्वत्र वह्निर् अभयः समर्थो ऽभूत् सुराज्ञया ।
जातवेदा बृहद्भानुः सप्तार्चिर् नीललोहितः ॥ १७ ॥
जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते ।
जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम् ॥ १८ ॥
उभयत्र पदे वासः सर्वगो ऽग्निस् ततो ऽभवत् ।
यथागतं सुरा जग्मुर् वह्नितीर्थं तद् उच्यते ॥ १९ ॥
तत्र सप्त शतान्य् आसंस् तीर्थानि गुणवन्ति च ।
तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ २० ॥
अश्वमेधफलं साग्रं प्राप्नोत्य् अविकलं शुभम् ।
देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ २१ ॥
अग्निप्रतिष्ठितं लिङ्गं तत्रास्ते ऽनेकवर्णवत् ।
तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत् ॥ २२ ॥