097

Summary (SA)

Chapter 97- How Kubera lost his kingdom and became lord of the north

{{Ref- SS 162-163}}

ब्रह्मोवाच-

पौलस्त्यं तीर्थम् आख्यातं सर्वसिद्धिप्रदं नृणाम् ।
प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १ ॥

उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः ।
पुरा लङ्कापतिश् चासीज् ज्येष्ठो विश्रवसः सुतः ॥ २ ॥

तस्यैते भ्रातरश् चासन् बलवन्तो ऽमितप्रभाः ।
सापत्ना रावणश् चैव कुम्भकर्णो विभीषणः ॥ ३ ॥

ते ऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास् तु ते ।
मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ ४ ॥

ममान्तिकं भक्तियुक्तो नित्यम् एति तु याति च ।
रावणस्य तु या माता कुपिता साब्रवीत् सुतान् ॥ ५ ॥

रावणमातोवाच-

मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् ।
देवाश् च दानवाश् चासन् सापत्ना भ्रातरो मिथः ॥ ६ ॥

अन्योन्यवधम् ईप्सन्ते जयैश्वर्यवशानुगाः ।
तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः ।
सापत्न्यं यो ऽनुमन्यते तस्य जीवो निरर्थकः ॥ ७ ॥

ब्रह्मोवाच-

तन् मातृवचनं श्रुत्वा भ्रातरस् ते त्रयो मुने ।
जग्मुस् ते तपसे ऽरण्यं कृतवन्तस् तपो महत् ॥ ८ ॥

मत्तो वरान् अवापुश् च त्रय एते च राक्षसाः ।
मातुलेन मरीचेन तथा मातामहेन तु ॥ ९ ॥

तन्मातृवचनाच् चापि ततो लङ्काम् अयाचत ।
रक्षोभावान् मातृदोषाद् भ्रात्रोर् वैरम् अभून् महत् ॥ १० ॥

ततस् तद् अभवद् युद्धं देवदानवयोर् इव ।
युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ ११ ॥

पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् ।
रावणो घोषयाम् आस त्रैलोक्ये सचराचरे ॥ १२ ॥

यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम ।
भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् ।
पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः ॥ १३ ॥

धनद उवाच-

भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे ।
आश्रयः शरणं यत् स्याद् दैवं वा तीर्थम् एव च ॥ १४ ॥

ब्रह्मोवाच-

तत् पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यम् अब्रवीत् ॥ १५ ॥

पुलस्त्य उवाच-

गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् ।
तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः ॥ १६ ॥

सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ १७ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा जगामासौ सभार्यो धनदस् तथा ।
पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ १८ ॥

गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः ।
तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ १९ ॥

धनद उवाच-

स्वामी त्वम् एवास्य चराचरस्य ।
विश्वस्य शम्भो न परो ऽस्ति कश्चित् ।
त्वाम् अप्य् अवज्ञाय यदीह मोहात् ।
प्रगल्भते कोपि स शोच्य एव ॥ २० ॥

त्वम् अष्टमूर्त्या सकलं बिभर्षि ।
त्वदाज्ञया वर्तत एव सर्वम् ।
तथापि वेदेति बुधो भवन्तं ।
न जात्व् अविद्वान् महिमा पुरातनम् ॥ २१ ॥

मलप्रसूतं यद् अवोचद् अम्बा ।
हास्यात् सुतो ऽयं तव देव शूरः ।
त्वत्प्रेक्षिताद् यः स च विघ्नराजो ।
जज्ञे त्व् अहो चेष्टितम् ईशदृष्टेः ॥ २२ ॥

अश्रुप्लुताङ्गी गिरिजा समीक्ष्य ।
वियुक्तदाम्पत्यम् इतीशम् ऊचे ।
मनोभवो ऽभून् मदनो रतिश् च ।
सौभाग्यपूर्वत्वम् अवाप सोमात् ॥ २३ ॥

ब्रह्मोवाच-

इत्यादि स्तुवतस् तस्य पुरतो ऽभूत् त्रिलोचनः ।
वरेण च्छन्दयाम् आस हर्षान् नोवाच किञ्चन ॥ २४ ॥

तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे ।
पुनः पुनर् वरस्वेति शिवे वादिनि हर्षिते ॥ २५ ॥

एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ।
प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ २६ ॥

पुलस्त्यस्य तु यच् चित्तं पितुर् वैश्रवणस्य तु ।
विदित्वेव तदा वाणी शुभम् अर्थम् उदीरयत् ॥ २७ ॥

भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् ।
प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच् छुभा ॥ २८ ॥

प्रभूतशत्रुः परिभूतदुःखः ।
सम्पूज्य सोमेश्वरम् आप लिङ्गम् ।
दिगीश्वरत्वं द्रविणप्रभुत्वम् ।
अपारदातृत्वकलत्रपुत्रान् ॥ २९ ॥

तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् ।
एवं भवतु नामेति धनदो वाक्यम् अब्रवीत् ॥ ३० ॥

तथैवास्त्व् इति देवेशो दैवीं वाचम् अमन्यत ।
पुलस्त्यं च वरैः पुण्यैस् तथा विश्रवसं मुनिम् ॥ ३१ ॥

धनपालं च देवेशो ह्य् अभिनन्द्य ययौ शिवः ।
ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः ॥ ३२ ॥

तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् ।
तेषु स्नानादि यत् किञ्चित् तत् सर्वं बहुपुण्यदम् ॥ ३३ ॥