096

Summary (SA)

Chapter 96- Indra and Brahmin-murder

{{Ref- SS 161}}

ब्रह्मोवाच-

इन्द्रतीर्थम् इति ख्यातं ब्रह्महत्याविनाशनम् ।
स्मरणाद् अपि पापौघक्लेशसङ्घविनाशनम् ॥ १ ॥

पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद ।
शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः ॥ २ ॥

इन्द्रस् ततो वृत्रहन्ता इतश् चेतश् च धावति ।
यत्र यत्र त्व् असौ याति हत्या सापीन्द्रगामिनी ॥ ३ ॥

स महत् सर आविश्य पद्मनालम् उपागमत् ।
तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः ॥ ४ ॥

सरस्तीरे ऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् ।
एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्य् अभवन् मुने ॥ ५ ॥

मन्त्रयाम् आसुर् अव्यग्राः कथम् इन्द्रो भवेद् इति ।
तत्राहम् अवदं देवान् हत्यास्थानं प्रकल्प्य च ॥ ६ ॥

इन्द्रस्य पावनार्थाय गौतम्याम् अभिषिच्यताम् ।
यत्राभिषिक्तः पूतात्मा पुनर् इन्द्रो भविष्यति ॥ ७ ॥

तथा ते निश्चयं कृत्वा गौतमीं शीघ्रम् आगमन् ।
तत्र स्नातं सुरपतिं देवाश् च ऋषयस् तथा ॥ ८ ॥

अभिषेक्तुकामास् ते सर्वे शचीकान्तं च तस्थिरे ।
अभिषिच्यमानम् इन्द्रं तं प्रकोपाद् गौतमो ऽब्रवीत् ॥ ९ ॥

गौतम उवाच-

अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् ।
तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्व् असुरारयः ॥ १० ॥

ब्रह्मोवाच-

तद् ऋषेर् वचनं श्रुत्वा परिहृत्य च गौतमीम् ।
नर्मदाम् अगमन् सर्व इन्द्रम् आदाय सत्वराः ॥ ११ ॥

उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे ।
अभिषेक्ष्यमाणम् इन्द्रं तं माण्डव्यो भगवान् ऋषिः ॥ १२ ॥

अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् ।
पूजयाम् आसुर् अमरा माण्डव्यं युक्तिभिः स्तवैः ॥ १३ ॥

देवा ऊचुः-

अयम् इन्द्रः सहस्राक्षो यस्मिन् देशे ऽभिषिच्यते ।
तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ १४ ॥

तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव ।
मलनिर्यातनं यस्मिन् कुर्मस् तस्मिन् वरान् बहून् ॥ १५ ॥

देशे दास्यामहे सर्वे तद् अनुज्ञातुम् अर्हसि ।
यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ १६ ॥

स सर्वकामदः पुंसां धान्यवृक्षफलैर् युतः ।
नानावृष्टिर् न दुर्भिक्षं भवेद् अत्र कदाचन ॥ १७ ॥

ब्रह्मोवाच-

मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः ।
अभिषेकः कृतस् तत्र मलनिर्यातनं तथा ॥ १८ ॥

देवैस् तदोक्तो मुनिभिः स देशो मालवस् ततः ।
अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ १९ ॥

आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे ।
सुराश् च ऋषयश् चैव अहं विष्णुस् तथैव च ॥ २० ॥

वसिष्ठो गौतमश् चापि अगस्त्यो ऽत्रिश् च कश्यपः ।
एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ २१ ॥

स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् ।
मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ २२ ॥

वारिणाप्य् अभिषिक्तश् च तत्र पुण्याभवन् नदी ।
सिक्ता चेति च तत्रासीत् ते गङ्गायां च सङ्गते ॥ २३ ॥

सङ्गमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ ।
ततः प्रभृति तत् तीर्थं पुण्यासङ्गमम् उच्यते ॥ २४ ॥

सिक्तायाः सङ्गमे पुण्यम् ऐन्द्रं तद् अभिधीयते ।
तत्र सप्त सहस्राणि तीर्थान्य् आसञ् शुभानि च ॥ २५ ॥

तेषु स्नानं च दानं च विशेषेण तु सङ्गमे ।
सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा ॥ २६ ॥

यद् एतत् पुण्यम् आख्यानं यः पठेच् च शृणोति वा ।
सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ २७ ॥