Summary (SA)
Chapter 95- Śukra (Uśanas) and the science of reviving the dead
{{Ref- SS 160}}
ब्रह्मोवाच-
शुक्रतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ १ ॥
अङ्गिराश् च भृगुश् चैव ऋषी परमधार्मिकौ ।
तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ २ ॥
जीवः कविर् इति ख्यातौ मातापित्रोर् वशे रतौ ।
उपनीतौ सुतौ दृष्ट्वा पितराव् ऊचतुर् मिथः ॥ ३ ॥
ऋषी ऊचतुः-
आवयोर् एक एवास्तु शास्ता नित्यं च पुत्रयोः ।
तस्माद् एकः शासिता स्यात् तिष्ठत्व् एको यथासुखम् ॥ ४ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा ततः शीघ्रम् अङ्गिराः प्राह भार्गवम् ।
अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ ५ ॥
एतच् छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः ।
तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ ६ ॥
उभाव् अपि सुतौ नित्यम् अध्यापयति वै पृथक् ।
वैषम्यबुद्ध्या तौ बालौ चिराच् छुक्रो ऽब्रवीद् इदम् ॥ ७ ॥
शुक्र उवाच-
वैषम्येण गुरो मां त्वम् अध्यापयसि नित्यशः ।
गुरूणां नेदम् उचितं वैषम्यं पुत्रशिष्ययोः ॥ ८ ॥
वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः ।
नैषा विषमबुद्धीनां सङ्ख्या पापस्य विद्यते ॥ ९ ॥
आचार्य सम्यग् ज्ञातो ऽसि नमस्ये ऽहं पुनः पुनः ।
गच्छेयं गुरुम् अन्यं वै माम् अनुज्ञातुम् अर्हसि ॥ १० ॥
गच्छेयं पितरं ब्रह्मन् यद्य् असौ विषमो भवेत् ।
ततो वान्यत्र गच्छामि स्वामिन् पृष्टो ऽसि गम्यते ॥ ११ ॥
ब्रह्मोवाच-
गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस् त्व् अगात् ततः ।
अवाप्तविद्यः पितरं गच्छेयं चेत्य् अचिन्तयत् ॥ १२ ॥
तस्मात् कम् अनुपृच्छेयम् उत्कृष्टः को गुरुर् भवेत् ।
इति स्मरन् महाप्राज्ञम् अपृच्छद् वृद्धगौतमम् ॥ १३ ॥
शुक्र उवाच-
को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर् भवेत् ।
त्रयाणाम् अपि लोकानां यो गुरुस् तं व्रजाम्य् अहम् ॥ १४ ॥
ब्रह्मोवाच-
स प्राह जगताम् ईशं शम्भुं देवं जगद्गुरुम् ।
क्वाराधयामि गिरिशम् इत्य् उक्तः प्राह गौतमः ॥ १५ ॥
गौतम उवाच-
गौतम्यां तु शुचिर् भूत्वा स्तोत्रैस् तोषय शङ्करम् ।
ततस् तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ १६ ॥
ब्रह्मोवाच-
गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः ।
स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः ॥ १७ ॥
शुक्र उवाच-
बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो ।
नाहं जानामि ते किञ्चित् स्तुतिं कर्तुं नमो ऽस्तु ते ॥ १८ ॥
परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा ।
त्वं प्रभुः सर्वभावेन जगन्नाथ नमो ऽस्तु ते ॥ १९ ॥
गुरुर् गुरुमतां देव महतां च महान् असि ।
अहम् अल्पतरो बालो जगन्मय नमो ऽस्तु ते ॥ २० ॥
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् ।
मां त्वं च कृपया पश्य लोकसाक्षिन् नमो ऽस्तु ते ॥ २१ ॥
ब्रह्मोवाच-
एवं तु स्तुवतस् तस्य प्रसन्नो ऽभूत् सुरेश्वरः ॥ २२ ॥
शिव उवाच-
कामं वरय भद्रं ते यच् चापि सुरदुर्लभम् ॥ २३ ॥
ब्रह्मोवाच-
कविर् अप्य् आह देवेशं कृताञ्जलिर् उदारधीः ॥ २४ ॥
शुक्र उवाच-
ब्रह्मादिभिश् च ऋषिभिर् या विद्या नैव गोचरा ।
तां विद्यां नाथ याचिष्ये त्वं गुरुर् मम दैवतम् ॥ २५ ॥
ब्रह्मोवाच-
मृतसञ्जीविनीं विद्याम् अज्ञातां त्रिदशैर् अपि ।
तां दत्तवान् सुरश्रेष्ठस् तस्मै शुक्राय याचते ॥ २६ ॥
इतरा लौकिकी विद्या वैदिकी चान्यगोचरा ।
किं पुनः शङ्करे तुष्टे विचार्यम् अवशिष्यते ॥ २७ ॥
स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् ।
दैत्यानां च गुरुश् चासीद् विद्यया पूजितः कविः ॥ २८ ॥
ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे ।
कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस् तु ताम् ॥ २९ ॥
कचाद् बृहस्पतिश् चापि ततो देवाः पृथक् पृथक् ।
अवापुर् महतीं विद्यां याम् आहुर् मृतजीविनीम् ॥ ३० ॥
यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् ।
गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते ॥ ३१ ॥
मृतसञ्जीविनीतीर्थम् आयुरारोग्यवर्धनम् ।
स्नानं दानं च यत् किञ्चित् सर्वम् अक्षयपुण्यदम् ॥ ३२ ॥