Summary (SA)
Chapter 94- Story of Śiva’s devotee Śveta, who could not be taken away by Death
{{Ref- SS 159-160}}
ब्रह्मोवाच-
श्वेततीर्थम् इति ख्यातं त्रैलोक्ये विश्रुतं शुभम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा ।
आतिथ्यपूजानिरतो गौतमीतीरम् आश्रितः ॥ २ ॥
मनसा कर्मणा वाचा शिवभक्तिपरायणः ।
ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ ३ ॥
पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् ।
नेतुं दूताः समाजग्मुर् दक्षिणाशापतेस् तदा ॥ ४ ॥
नाशक्नुवन् गृहं तस्य प्रवेष्टुम् अपि नारद ।
तदा काले व्यतिक्रान्ते चित्रको मृत्युम् अब्रवीत् ॥ ५ ॥
चित्रक उवाच-
किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्व् इति ।
नाद्याप्य् आयान्ति दूतास् ते मृत्योर् नैवोचितं तु ते ॥ ६ ॥
ब्रह्मोवाच-
ततश् च कुपितो मृत्युः प्रायाच् छ्वेतगृहं स्वयम् ।
बहिःस्थितांस् तदा पश्यन् मृत्युर् दूतान् भयार्दितान् ।
प्रोवाच किम् इदं दूता मृत्युम् ऊचुश् च दूतकाः ॥ ७ ॥
दूता ऊचुः-
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः ।
येषां प्रसन्नो गिरिशस् तेषां का नाम भीतयः ॥ ८ ॥
ब्रह्मोवाच-
पाशपाणिस् तदा मृत्युः प्राविशद् यत्र स द्विजः ।
नासौ विप्रो विजानाति मृत्युं वा यमकिङ्करान् ॥ ९ ॥
शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः ।
मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ १० ॥
दण्ड्य् उवाच-
किम् अत्र वीक्षसे मृत्यो दण्डिनं मृत्युर् अब्रवीत् ॥ ११ ॥
मृत्युर् उवाच-
श्वेतं नेतुम् इहायातस् तस्माद् वीक्षे द्विजोत्तमम् ॥ १२ ॥
ब्रह्मोवाच-
त्वं गच्छेत्य् अब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् ।
श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ १३ ॥
शिवदत्तेन दण्डेन दण्डी मृत्युम् अताडयत् ।
ततः पाशधरो मृत्युः पपात धरणीतले ॥ १४ ॥
ततस् ते सत्वरं दूता हतं मृत्युम् अवेक्ष्य च ।
यमाय सर्वम् अवदन् वधं मृत्योस् तु दण्डिना ॥ १५ ॥
ततश् च कुपितो धर्मो यमो महिषवाहनः ।
चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ १६ ॥
महिषं भूतवेतालान् आधिव्याधींस् तथैव च ।
अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च ॥ १७ ॥
ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् ।
त्वरन्ताम् इति तान् उक्त्वा जगाम त्वरितो यमः ॥ १८ ॥
एतैर् अन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः ।
तम् आयान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ १९ ॥
विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् ।
तत्र तद् युद्धम् अभवत् सर्वलोकभयावहम् ॥ २० ॥
कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिङ्करान् ।
दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ २१ ॥
हतावशिष्टा याम्यास् ते आदित्याय न्यवेदयन् ।
आदित्यो ऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम् ॥ २२ ॥
लोकपालैर् अनुवृतो ममान्तिकम् उपागमत् ।
अहं विष्णुश् च भगवान् इन्द्रो ऽग्निर् वरुणस् तथा ॥ २३ ॥
चन्द्रादित्याव् अश्विनौ च लोकपाला मरुद्गणाः ।
एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ २४ ॥
मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः ।
समुद्राश् च नदा नागा नानाभूतान्य् अनेकशः ॥ २५ ॥
तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् ।
तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः ।
कृताञ्जलिपुटाः शम्भुम् ऊचुः सर्वे पुनः पुनः ॥ २६ ॥
देवा ऊचुः-
भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वम् एव च ।
आदिकर्तर् नमस् तुभ्यं नीलकण्ठ नमो ऽस्तु ते ।
ब्रह्मप्रिय नमस् ते ऽस्तु देवप्रिय नमो ऽस्तु ते ॥ २७ ॥
श्वेतं द्विजं भक्तम् अनायुषं ते ।
नेतुं यमादिः सकलो ऽसमर्थः ।
सन्तोषम् आप्ताः परमं समीक्ष्य ।
भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ २८ ॥
ये त्वां प्रपन्नाः शरणं कृपालुं ।
नालं कृतान्तो ऽप्य् अनुवीक्षितुं तान् ।
एवं विदित्वा शिव एव सर्वे ।
त्वाम् एव भक्त्या परया भजन्ते ॥ २९ ॥
त्वम् एव जगतां नाथ किं न स्मरसि शङ्कर ।
त्वां विना कः समर्थो ऽत्र व्यवस्थां कर्तुम् ईश्वरः ॥ ३० ॥
ब्रह्मोवाच-
एवं तु स्तुवतां तेषां पुरस्ताद् अभवच् छिवः ।
किं ददामीति तान् आह इदम् ऊचुः सुरा अपि ॥ ३१ ॥
देवा ऊचुः-
अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् ।
धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥ ३२ ॥
नायं वधम् अवाप्नोति नापराधी न पापकृत् ।
विना तेन जगद्धातुर् नैव किञ्चिद् भविष्यति ॥ ३३ ॥
तस्माज् जीवय देवेश यमं सबलवाहनम् ।
प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥ ३४ ॥
ब्रह्मोवाच-
ततः प्रोवाच भगवाञ् जीवयेयम् असंशयम् ।
यमं यदि वचो मे ऽद्य अनुमन्यन्ति देवताः ॥ ३५ ॥
ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् ।
हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥ ३६ ॥
ततः प्रोवाच भगवान् अमरान् समुपागतान् ।
मद्भक्तो न मृतिं यातु नेत्य् ऊचुर् अमराः पुनः ॥ ३७ ॥
अमराः स्युस् ततो देव सर्वलोकाश् चराचराः ।
अमर्त्यमर्त्यभेदो ऽयं न स्याद् देव जगन्मय ॥ ३८ ॥
पुनर् अप्य् आह ताञ् शम्भुः शृण्वन्तु मम भाषितम् ।
मद्भक्तानां वैष्णवानां गौतमीम् अनुसेवताम् ॥ ३९ ॥
वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यम् अर्हति ।
वार्त्ताप्य् एषां न कर्तव्या यमेन तु कदाचन ॥ ४० ॥
आधिव्याध्यादिभिर् जातु कार्यो नाभिभवः क्वचित् ।
ये शिवं शरणं यातास् ते मुक्तास् तत्क्षणाद् अपि ॥ ४१ ॥
सानुगस्य यमस्यातो नमस्याः सर्व एव ते ।
तथेत्य् ऊचुः सुरगणा देवदेवं शिवं प्रति ॥ ४२ ॥
ततश् च भगवान् नाथो नन्दिनं प्राह वाहनम् ॥ ४३ ॥
शिव उवाच-
गौतम्या उदकेन त्वम् अभिषिञ्च मृतं यमम् ॥ ४४ ॥
ब्रह्मोवाच-
ततो यमादयः सर्वे अभिषिक्तास् तु नन्दिना ।
उत्थिताश् च सजीवास् ते दक्षिणाशां ततो गताः ॥ ४५ ॥
उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः ।
स्थिता आसन् पूजयन्तो देवदेवं महेश्वरम् ॥ ४६ ॥
तत्रासन्न् अयुतान्य् अष्ट सहस्राणि चतुर्दश ।
तथा षट् च सहस्राणि पुनः षट् च तथैव च ॥ ४७ ॥
षड् दक्षिणे तथा तीरे तीर्थानाम् अयुतत्रयम् ।
पुण्यम् आख्यानम् एतद् धि श्वेततीर्थस्य नारद ॥ ४८ ॥
यत्रासौ पतितो मृत्युर् मृत्युतीर्थं तद् उच्यते ।
तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥ ४९ ॥
तत्र स्नानं च दानं च सर्वपापप्रणाशनम् ।
श्रवणं पठनं चापि स्मरणं च मलक्षयम् ।
करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥ ५० ॥