093

Summary (SA)

Chapter 93- Story of Viśvāmitra and Indra

{{Ref- SS 158}}

ब्रह्मोवाच-

यत्र दाशरथी रामः सीतया सहितो द्विज ।
पितॄन् सन्तर्पयाम् आस पितृतीर्थं ततो विदुः ॥ १ ॥

तत्र स्नानं च दानं च पितॄणां तर्पणं तथा ।
सर्वम् अक्षयताम् एति नात्र कार्या विचारणा ॥ २ ॥

यत्र दाशरथी रामो विश्वामित्रं महामुनिम् ।
पूजयाम् आस राजेन्द्रो मुनिभिस् तत्त्वदर्शिभिः ॥ ३ ॥

विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् ।
तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ ४ ॥

अनावृष्टिर् अभूत् पूर्वं प्रजानाम् अतिभीषणा ।
विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीम् अगात् ॥ ५ ॥

शिष्यान् पुत्रांश् च जायां च कृशान् दृष्ट्वा क्षुधातुरान् ।
व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदम् उवाच ह ॥ ६ ॥

विश्वामित्र उवाच-

यथा कथञ्चिद् यत् किञ्चिद् यत्र क्वापि यथा तथा ।
आनीयतां किन्तु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् ।
इदानीम् एव गन्तव्यम् आनेतव्यं क्षणेन तु ॥ ७ ॥

ब्रह्मोवाच-

ऋषेस् तद् वचनाच् छिष्याः क्षुधितास् त्वरया ययुः ।
अटमाना इतश् चेतो मृतं ददृशिरे शुनम् ॥ ८ ॥

तम् आदाय त्वरायुक्ता आचार्याय न्यवेदयन् ।
सो ऽपि तं भद्रम् इत्य् उक्त्वा प्रतिजग्राह पाणिना ॥ ९ ॥

विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा ।
पचध्वं मन्त्रवच् चापि हुत्वाग्नौ तु यथाविधि ॥ १० ॥

देवान् ऋषीन् पितॄन् अन्यांस् तर्पयित्वातिथीन् गुरून् ।
सर्वे भोक्ष्यामहे शेषम् इत्य् उवाच स कौशिकः ॥ ११ ॥

विश्वामित्रवचः श्रुत्वा शिष्याश् चक्रुस् तथैव तत् ।
पच्यमाने श्वमांसे तु देवदूतो ऽग्निर् अभ्यगात् ।
देवानां सदने सर्वं देवेभ्यस् तन् न्यवेदयत् ॥ १२ ॥

अग्निर् उवाच-

देवैः श्वमांसं भोक्तव्यम् आपन्नम् ऋषिकल्पितम् ॥ १३ ॥

ब्रह्मोवाच-

अग्नेस् तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि ।
स्थालीम् अथाहरत् पूर्णां मांसेन पिहितां तदा ॥ १४ ॥

तत् कर्म दृष्ट्वा शिष्यास् ते ऋषेः श्येनं न्यवेदयन् ।
हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ १५ ॥

ततश् चुकोप भगवाञ् शप्तुकामस् तदा हरिम् ।
ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ १६ ॥

पुनर् निवेशयाम् आस उल्कास्व् एव खगो हरिः ।
मधुना तु समायुक्तां विश्वामित्रश् चुकोप ह ।
स्थालीं वीक्ष्य ततः कोपाद् इदम् आह स कौशिकः ॥ १७ ॥

विश्वामित्र उवाच-

श्वमांसम् एव नो देहि त्वं हरामृतम् उत्तमम् ।
नो चेत् त्वां भस्मसात् कुर्याम् इन्द्रो भीतस् तदाब्रवीत् ॥ १८ ॥

इन्द्र उवाच-

मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः ।
किम् अनेन श्वमांसेन अमेध्येन महामुने ॥ १९ ॥

ब्रह्मोवाच-

विश्वामित्रो ऽपि नेत्य् आह भुक्तेनैकेन किं फलम् ।
प्रजाः सर्वाश् च सीदन्ति किं तेन मधुना हरे ॥ २० ॥

सर्वेषाम् अमृतं चेत् स्याद् भोक्ष्ये ऽहम् अमृतं शुचि ।
अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ २१ ॥

पश्चाद् अहं तच् च मांसं भोक्ष्ये नानृतम् अस्ति मे ।
ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात् ॥ २२ ॥

ववर्ष चामृतं वारि ह्य् अमृतेनार्पिताः प्रजाः ।
पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि ॥ २३ ॥

तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् ।
विप्रः सम्भुक्तवाञ् शिष्यैर् विश्वामित्रः स्वभार्यया ॥ २४ ॥

ततः प्रभृति तत् तीर्थम् आख्यातं चातिपुण्यदम् ।
यत्रागतः सुरपतिर् लोकानाम् अमृतार्पणम् ॥ २५ ॥

सञ्जातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ २६ ॥

ततः प्रभृति तत् तीर्थं विश्वामित्रम् इति स्मृतम् ।
मधुतीर्थम् अथैन्द्रं च श्येनं पर्जन्यम् एव च ॥ २७ ॥