Summary (SA)
Chapter 92- Story of Sanājjāta and his mother Mahī
{{Ref- SS 157}}
ब्रह्मोवाच-
पापप्रणाशनं नाम तीर्थं पापभयापहम् ।
नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः ॥ १ ॥
धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः ।
तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ २ ॥
तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः ।
धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने ॥ ३ ॥
ततः सा बालविधवा बालपुत्रा सुरूपिणी ।
त्रातारं नैव पश्यन्ती गालवाश्रमम् अभ्यगात् ॥ ४ ॥
तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता ।
सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी ॥ ५ ॥
तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः ।
जातो ऽपि मातृदोषेण वेश्येरितमतिस् त्व् अभूत् ॥ ६ ॥
जनस्थानम् इति ख्यातं नानाजातिसमावृतम् ।
तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ ७ ॥
तत्सुतो ऽपि बहून् देशान् परिबभ्राम कामुकः ।
सो ऽपि कालवशात् तत्र जनस्थाने ऽवसत् तदा ॥ ८ ॥
स्त्रियम् आकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः ।
मही चापि धनं दातॄन् पुरुषान् समपेक्षते ॥ ९ ॥
मेने न पुत्रम् आत्मीयं स चापि न तु मातरम् ।
तयोः समागमश् चासीद् विधिना मातृपुत्रयोः ॥ १० ॥
एवं बहुतिथे काले पुत्रे मातरि गच्छति ।
तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः ॥ ११ ॥
एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः ।
आसीत् तस्याप्य् असद्वृत्तेः शृणु नारद चित्रवत् ॥ १२ ॥
स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ।
ब्राह्मीं सन्ध्याम् अनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम् ॥ १३ ॥
विद्याबलेन वित्तानि बहून्य् आर्ज्य ददात्य् असौ ।
तथा स प्रातर् उत्थाय गङ्गां गत्वा यथाविधि ॥ १४ ॥
शौचादि स्नानसन्ध्यादि सर्वं कार्यं यथाक्रमम् ।
कृत्वा तु ब्राह्मणान् नत्वा ततो ऽभ्येति स्वकर्मसु ॥ १५ ॥
प्रातःकाले गौतमीं तु यदा याति विरूपवान् ।
कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ १६ ॥
स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् ।
शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः ॥ १७ ॥
एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः ।
गालवो यत्र भगवांस् तपोज्ञानपरायणः ॥ १८ ॥
आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर् वृतः ।
ब्राह्मणो ऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ १९ ॥
गालवं च नमस्याथ ततो याति स्वमन्दिरम् ।
गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः ॥ २० ॥
स्नानसन्ध्योत्तरे काले पुनर् यद् अपि तद् द्विजे ।
उभयं तस्य तद् रूपं गालवो नित्यम् एव च ॥ २१ ॥
दृष्ट्वा सविस्मयो मेने किञ्चिद् अस्त्य् अत्र कारणम् ।
एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ २२ ॥
गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर् गृहम् ।
आहूय यत्नतो धीमान् कृपया विस्मयेन च ॥ २३ ॥
गालव उवाच-
को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि ।
किन्नामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ २४ ॥
ब्रह्मोवाच-
गालवस्य वचः श्रुत्वा ब्राह्मणो ऽप्य् आह तं मुनिम् ॥ २५ ॥
ब्राह्मण उवाच-
श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम् ॥ २६ ॥
ब्रह्मोवाच-
एवम् उक्त्वा गालवं तं सनाज्जातो गृहं ययौ ।
भुक्त्वा रात्रौ तया सम्यक् शय्याम् आसाद्य बन्धकीम् ।
उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः ॥ २७ ॥
ब्राह्मण उवाच-
त्वं तु सर्वगुणोपेता बन्धक्य् अपि पतिव्रता ।
आवयोः सदृशी प्रीतिर् यावज्जीवं प्रवर्तताम् ॥ २८ ॥
तथापि किञ्चित् पृच्छामि किन्नाम्नी त्वं क्व वा कुलम् ।
किं नु स्थानं क्व वा बन्धुर् मम सर्वं निवेद्यताम् ॥ २९ ॥
बन्धक्य् उवाच-
धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः ।
तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ ३० ॥
उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः ।
अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् ।
स्वैरिणी त्व् इह वर्ते ऽहं विद्धि मां ब्राह्मणीं द्विज ॥ ३१ ॥
ब्रह्मोवाच-
तस्यास् तद् वचनं श्रुत्वा मर्मविद्ध इवाभवत् ।
पपात सहसा भूमौ वेश्या तं वाक्यम् अब्रवीत् ॥ ३२ ॥
वेश्योवाच-
किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर् गता तव ।
किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥ ३३ ॥
आत्मानम् आत्मनाश्वास्य ब्राह्मणो वाक्यम् अब्रवीत् ॥ ३४ ॥
ब्राह्मण उवाच-
धृतव्रतः पिता विप्रस् तत्पुत्रो ऽहं सनाद्यतः ।
माता मही मम इयं मम दैवाद् उपागता ॥ ३५ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा तस्य वाक्यं साप्य् अभूद् अतिदुःखिता ।
तयोस् तु शोचतोः पश्चात् प्रभाते विमले रवौ ।
गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥ ३६ ॥
ब्राह्मण उवाच-
धृतव्रतसुतो ब्रह्मंस् त्वया पूर्वं तु पालितः ।
उपनीतस् त्वया चैव मही माता मम प्रभो ॥ ३७ ॥
किं करोमि च किं कृत्वा निष्कृतिर् मम वै भवेत् ॥ ३८ ॥
ब्रह्मोवाच-
तद् विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः ।
तवेदं द्विविधं रूपं नित्यं पश्याम्य् अपूर्ववत् ॥ ३९ ॥
ततः पृष्टो ऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा ।
यत् कृत्यं तव तत् सर्वं गङ्गायां प्रत्यगात् क्षयम् ॥ ४० ॥
अस्य तीर्थस्य माहात्म्याद् अस्या देव्याः प्रसादतः ।
पूतो ऽसि प्रत्यहं वत्स नात्र कार्या विचारणा ॥ ४१ ॥
प्रभाते तव रूपाणि सपापानि त्व् अहर्निशम् ।
पश्ये ऽहं पुनर् अप्य् एव रूपं तव गुणोत्तमम् ॥ ४२ ॥
आगच्छन्तं त्व् आगोयुक्तं गच्छन्तं त्वाम् अनागसम् ।
पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतो ऽधुना ॥ ४३ ॥
तस्मान् न कार्यं ते किञ्चिद् अवशिष्टं भविष्यति ।
इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥ ४४ ॥
पश्चात्तापं गतात्यन्तं निवृत्ता त्व् अथ पातकात् ।
भूतानां विषये प्रीतिर् वत्स स्वाभाविकी यतः ॥ ४५ ॥
सत्सङ्गतो महापुण्यान् निवृत्तिर् दैवतो भवेत् ।
अत्यर्थम् अनुतप्तेयं प्रागाचरितपुण्यतः ॥ ४६ ॥
स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति ।
तथा तौ चक्रतुर् उभौ मातापुत्रौ च नारद ॥ ४७ ॥
स्नानाद् बभूवतुर् उभौ गतपापाव् असंशयम् ।
ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते ॥ ४८ ॥
पापप्रणाशनं नाम गालवं चेति विश्रुतम् ।
महापातकम् अल्पं वा तथा यच् चोपपातकम् ।
तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम् ॥ ४९ ॥