Summary (SA)
Chapter 91- Story of Jābāli and the cows
{{Ref- SS 156}}
ब्रह्मोवाच-
ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् ।
पितॄणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥ १ ॥
तस्य प्रभाव एष स्यान् मया दृष्टस् तु नारद ।
ब्राह्मणः कर्षकः कश्चिज् जाबालिर् इति विश्रुतः ॥ २ ॥
न विमुञ्चत्य् अनड्वाहौ मध्यं याते ऽपि भास्करे ।
प्रतोदेन प्रतुदति पृष्ठतो ऽपि च पार्श्वयोः ॥ ३ ॥
तौ गावाव् अश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी ।
सुरभिर् जगतां माता नन्दिने सर्वम् अब्रवीत् ॥ ४ ॥
स चापि व्यथितो भूत्वा शम्भवे तन् न्यवेदयत् ।
शम्भुश् च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ ५ ॥
शिवाज्ञासहितो नन्दी गोजातं सर्वम् आहरत् ।
नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस् त्वरा ॥ ६ ॥
माम् अवोचन् सुरगणा विना गोभिर् न जीव्यते ।
तान् अवोचं सुरान् सर्वाञ् शङ्करं यात याचत ॥ ७ ॥
तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् ।
ईशो ऽपि विबुधान् आह जानाति वृषभो मम ॥ ८ ॥
ते वृषं प्रोचुर् अमरा देहि गा उपकारिणः ।
वृषो ऽपि विबुधान् आह गोसवः क्रियतां क्रतुः ॥ ९ ॥
ततः प्राप्स्यथ गाः सर्वा या दिव्या याश् च मानुषाः ।
ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ १० ॥
गौतम्याश् च शुभे पार्श्वे गावो ववृधिरे ततः ।
गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम् ॥ ११ ॥
तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् ।
किञ्चिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे ॥ १२ ॥