090

Summary (SA)

Chapter 90- Story of Garuḍa and the snake Maṇināga

{{Ref- SS 155-156}}

ब्रह्मोवाच-

गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् ।
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ॥ १ ॥

मणिनाग इति त्व् आसीच् छेषपुत्रो महाबलः ।
गरुडस्य भयाद् भक्त्या तोषयाम् आस शङ्करम् ॥ २ ॥

ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः ।
तम् उवाच महानागं वरं वरय पन्नग ॥ ३ ॥

नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् ।
तथेत्य् आह च तं शम्भुर् गरुडाद् अभयं भवेत् ॥ ४ ॥

निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् ।
क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ ५ ॥

इतश् चेतश् च चरति नागो ऽसौ सुखशीतले ।
गरुडो ऽपि च यत्रास्ते तं देशम् अपि यात्य् असौ ॥ ६ ॥

गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु ।
तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि ॥ ७ ॥

तं बद्ध्वा गारुडैः पाशैर् गरुडो नागसत्तमम् ।
एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ ८ ॥

नन्दिकेश्वर उवाच-

नूनं नागो न चायाति भक्षितो बद्ध एव वा ।
गरुडेन सुरेशान जीवन् नागो न संव्रजेत् ॥ ९ ॥

ब्रह्मोवाच-

नन्दिनो वचनं श्रुत्वा ज्ञात्वा शम्भुर् अथाब्रवीत् ॥ १० ॥

शिव उवाच-

गरुडस्य गृहे नागो बद्धस् तिष्ठति सत्वरम् ।
गत्वा तं जगताम् ईशं विष्णुं स्तुहि जनार्दनम् ॥ ११ ॥

बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् ।
तत् प्रभोर् वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ १२ ॥

व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् ।
नारायणः प्रीतमना गरुडं वाक्यम् अब्रवीत् ॥ १३ ॥

विष्णुर् उवाच-

विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् ।
कम्पमानस् तद् आकर्ण्य नेत्य् उवाच विहङ्गमः ।
विष्णुम् अप्य् अब्रवीत् कोपात् सुपर्णो नन्दिनो ऽन्तिके ॥ १४ ॥

गरुड उवाच-

यद् यत् प्रियतमं किञ्चिद् भृत्येभ्यः प्रभविष्णवः ।
दास्यन्त्य् अन्ये भवान् नैव मयानीतं हरिष्यति ॥ १५ ॥

पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना ।
मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ १६ ॥

त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया ।
मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ १७ ॥

सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् ।
सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ १८ ॥

दैत्याञ् जयसि सङ्ग्रामे मद्बलेनैव केशव ।
अहं महाबलीत्य् एवं मुधैव श्लाघते भवान् ॥ १९ ॥

ब्रह्मोवाच-

गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः ।
विहस्य नन्दिनः पार्श्वे पश्यद्भिर् लोकपालकैः ॥ २० ॥

इदम् आह महाबुद्धिर् मां समुह्य कृशो भवान् ।
त्वद्बलाद् असुरान् सर्वाञ् जेष्ये ऽहं खगसत्तम ॥ २१ ॥

इत्य् उक्त्वा श्रीपतिर् ब्रह्मञ् शान्तकोपो ऽब्रवीद् इदम् ।
वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनो ऽन्तिके ॥ २२ ॥

गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनर् अब्रवीत् ।
सत्यं मां वहसे नित्यं पश्य धर्मं विहङ्गम ॥ २३ ॥

न्यस्तायां च ततो ऽङ्गुल्यां शिरः कुक्षौ समाविशत् ।
कुक्षिश् च चरणस्यान्तः प्राविशच् चूर्णितो ऽभवत् ।
ततः कृताञ्जलिर् दीनो व्यथितो लज्जयान्वितः ॥ २४ ॥

गरुड उवाच-

त्राहि त्राहि जगन्नाथ भृत्यं माम् अपराधिनम् ।
त्वं प्रभुः सर्वलोकानां धर्ता धार्यस् त्वम् एव च ॥ २५ ॥

अपराधसहस्राणि क्षमन्ते प्रभविष्णवः ।
कृतापराधे ऽपि जने महती यस्य वै कृपा ॥ २६ ॥

वदन्ति मुनयः सर्वे त्वाम् एव करुणाकरम् ।
रक्षस्वार्तं जगन्मातर् माम् अम्बुजनिवासिनि ।
कमले बालकं दीनम् आर्तं तनयवत्सले ॥ २७ ॥

ब्रह्मोवाच-

ततः कृपान्विता देवी श्रीर् अप्य् आह जनार्दनम् ॥ २८ ॥

कमलोवाच-

रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् ।
जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ २९ ॥

विष्णुर् उवाच-

नय नागं सगरुडं शम्भोर् अन्तिकम् एव च ।
तत्प्रसादाच् च गरुडो महेश्वरनिरीक्षितः ।
आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ ३० ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा च वृषभो नागेन गरुडेन च ।
शनैः स शङ्करं गत्वा सर्वं तस्मै न्यवेदयत् ।
शङ्करो ऽपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥ ३१ ॥

शिव उवाच-

याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् ।
सर्वकामप्रदां शान्तां ताम् आप्लुत्य पुनर् वपुः ॥ ३२ ॥

प्राप्स्यसे सर्वकामांश् च शतधाथ सहस्रधा ।
सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः ।
प्राणिनो ऽभीष्टदा तेषां शरणं खग गौतमी ॥ ३३ ॥

ब्रह्मोवाच-

तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडो ऽभ्यगात् ।
गङ्गाम् आप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥ ३४ ॥

ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः ।
वेगी भवन् मुनिश्रेष्ठ पुनर् विष्णुम् इयात् सुधीः ॥ ३५ ॥

ततः प्रभृति तत् तीर्थं गारुडं सर्वकामदम् ।
तत्र स्नानादि यत् किञ्चित् करोति प्रयतो नरः ।
सर्वं तद् अक्षयं वत्स शिवविष्णुप्रियावहम् ॥ ३६ ॥