Summary (SA)
Chapter 89- Story of Vivasvat, the surrogated Chāyā, and the birth of the Aśvins
{{Ref- SS 154-155}}
ब्रह्मोवाच-
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे ।
तयोश् च सङ्गमः पुण्यो गङ्गायां मुनिसत्तम ॥ १ ॥
तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् ।
कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ २ ॥
त्रैलोक्यचक्षुस् तीक्ष्णांशुः सप्ताश्वो लोकपूजितः ।
तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ ३ ॥
भर्तुः प्रतापतीव्रत्वम् असहन्ती सुमध्यमा ।
चिन्तयाम् आस किं कृत्यं मम स्याद् इति भामिनी ॥ ४ ॥
तस्याः पुत्रौ महाराज्ञौ मनुर् वैवस्वतो यमः ।
यमुना च नदी पुण्या शृणु विस्मयकारणम् ॥ ५ ॥
साकरोद् आत्मनश् छायाम् आत्मरूपेण यत्नतः ।
ताम् अब्रवीत् ततश् चोषा त्वं च मत्सदृशी भव ॥ ६ ॥
भर्तारं त्वम् अपत्यानि पालयस्व ममाज्ञया ।
यावद् आगमनं मे स्यात् पत्युस् तावत् प्रिया भव ॥ ७ ॥
नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये ।
तथेत्य् आह च सा छाया निर्जगाम गृहाद् उषा ॥ ८ ॥
इत्य् उक्त्वा सा जगामाशु शान्तं रूपम् अभीप्सती ।
सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् ।
त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ ९ ॥
त्वष्टोवाच-
नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् ।
अपत्यानां कथं वृत्तिर् भर्तुर् वा सवितुस् तव ।
बिभेमि भद्रे शिष्टो ऽहं भर्तुर् गेहं पुनर् व्रज ॥ १० ॥
ब्रह्मोवाच-
एवम् उक्ता तु पित्रा सा नेत्य् उक्त्वा वै पुनः पुनः ।
उत्तरं च कुरोर् देशं जगाम तपसे त्वरा ॥ ११ ॥
तत्र तेपे तपस् तीव्रं वडवारूपधारिणी ।
दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ १२ ॥
एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी ।
पत्यौ सा वर्तयाम् आस अपत्यान्य् अथ जज्ञिरे ॥ १३ ॥
सावर्णिश् च शनिश् चैव विष्टिर् या दुष्टकन्यका ।
सा छाया वर्तयाम् आस वैषम्येणैव नित्यशः ॥ १४ ॥
स्वेष्व् अपत्येषु चोषाया यमस् तत्र चुकोप ह ।
वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ १५ ॥
ताडयाम् आस पादेन दक्षिणाशापतिर् यमः ।
पुत्रदौर्जन्यसङ्क्षोभाच् छाया वैवस्वतं यमम् ॥ १६ ॥
शशाप पाप ते पादो विशीर्यतु ममाज्ञया ।
विशीर्णचरणो दुःखाद् रुदन् पितरम् अभ्यगात् ।
सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः ॥ १७ ॥
यम उवाच-
नेयं माता सुरश्रेष्ठ यया शप्तो ऽहम् ईदृशः ।
अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ १८ ॥
यद् बाल्याद् अब्रवं किञ्चिद् अथवा दुष्कृतं कृतम् ।
नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका ॥ १९ ॥
यद् अपत्यकृतं किञ्चित् साध्व् असाधु यथा तथा ।
मात्य् अस्यां सर्वम् अप्य् एतत् तस्मान् मातेति गीयते ॥ २० ॥
प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा ।
वक्त्य् अग्निकालसदृशा वाचा नेयं मदम्बिका ॥ २१ ॥
ब्रह्मोवाच-
तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः ।
इयं छाया नास्य माता उषा माता तु सान्यतः ॥ २२ ॥
मम शान्तिम् अभीप्सन्ती देशे ऽन्यस्मिंस् तपोरता ।
उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ २३ ॥
तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः ।
यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ २४ ॥
तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः ।
कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ २५ ॥
उषा पतिव्रतोपेता पतिध्यानपरायणा ।
हयधर्षणसम्भीता को न्व् अयं चेत्य् अजानती ॥ २६ ॥
अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा ।
को नु मे रक्षको ऽत्र स्याद् ऋषयो वाथवा सुराः ॥ २७ ॥
धावन्तीं तां प्रियाम् अश्वाम् अश्वरूपधरः स्वयम् ।
पर्यधावद् यतो याति उषा भानुस् ततस् ततः ॥ २८ ॥
स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते ।
भागीरथीं नदीश् चान्या वनान्य् उपवनानि च ॥ २९ ॥
नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखाव् उभौ ।
अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्य् अभ्यगाच् च गौतमीम् ॥ ३० ॥
त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् ।
ऋषीणाम् आश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥ ३१ ॥
अनुप्राप्तस् तथा चाश्वो भानुस् तद्रूपवांस् ततः ।
अश्वं निवारयाम् आसुर् जनस्था मुनिदारकाः ।
ततः कोपाद् ऋषींस् तांश् च शशापोषापतिः प्रभुः ॥ ३२ ॥
भानुर् उवाच-
निवारयथ मां यस्माद् वटा यूयं भविष्यथ ॥ ३३ ॥
ब्रह्मोवाच-
ज्ञानदृष्ट्या तु मुनयो मेनिरे ऽश्वम् उषापतिम् ।
स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥ ३४ ॥
स्तूयमानो मुनिगणैर् अश्वां भानुर् अथागमत् ।
वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥ ३५ ॥
ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे ।
तयोर् वीर्येण गङ्गायाम् अश्विनौ समजायताम् ॥ ३६ ॥
तत्रागच्छन् सुरगणाः सिद्धाश् च मुनयस् तथा ।
नद्यो गावस् तथौषध्यो देवा ज्योतिर्गणास् तथा ॥ ३७ ॥
सप्ताश्वश् च रथः पुण्यो ह्य् अरुणो भानुसारथिः ।
यमो मनुश् च वरुणः शनिर् वैवस्वतस् तथा ॥ ३८ ॥
यमुना च नदी पुण्या तापी चैव महानदी ।
तत्तद्रूपं समास्थाय नद्यस् ता विस्मयान् मुने ॥ ३९ ॥
द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस् तथा ।
अभिप्रायं विदित्वा तु श्वशुरं भानुर् अब्रवीत् ॥ ४० ॥
भानुर् उवाच-
उषायाः प्रीतये त्वष्टः कुर्वत्यास् तप उत्तमम् ।
यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्य् अनेकशः ।
यावत् सौख्यं भवेद् अस्यास् तावच् छिन्धि प्रजापते ॥ ४१ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा ततस् त्वष्टा सोमनाथस्य सन्निधौ ।
तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥ ४२ ॥
भर्त्रा च सङ्गता यत्र गौतम्याम् अश्वरूपिणी ।
अश्विनोर् यत्र चोत्पत्तिर् अश्वतीर्थं तद् उच्यते ॥ ४३ ॥
भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः ।
तापी च यमुना चैव पितरं द्रष्टुम् आगते ॥ ४४ ॥
अरुणावरुणानद्योर् गङ्गायां सङ्गमः शुभः ।
देवानां तत्र तीर्थानाम् आगतानां पृथक् पृथक् ॥ ४५ ॥
नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
तत्र स्नानं च दानं च सर्वम् अक्षयपुण्यदम् ॥ ४६ ॥
स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद ।
सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत् ॥ ४७ ॥