Summary (SA)
Chapter 88- Varuṇa as teacher of Janaka and Yājñavalkya
{{Ref- SS 153-154}}
ब्रह्मोवाच-
तस्माद् अप्य् अपरं तीर्थं जनस्थानम् इति श्रुतम् ।
चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥ १ ॥
वैवस्वतान्वये जातो राजाभूज् जनकः पुरा ।
सो ऽपाम्पतेस् तु तनुजाम् उपयेमे गुणार्णवाम् ॥ २ ॥
धर्मार्थकाममोक्षाणां जनकां जनको नृपः ।
अनुरूपगुणत्वाच् च तस्य भार्या गुणार्णवा ॥ ३ ॥
याज्ञवल्क्यश् च विप्रेन्द्रस् तस्य राज्ञः पुरोहितः ।
तम् अपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ ४ ॥
जनक उवाच-
भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः ।
दासीदासेभतुरगरथाद्यैर् भुक्तिर् उत्तमा ॥ ५ ॥
किन्त्व् अन्तविरसा भुक्तिर् मुक्तिर् एका निरत्यया ।
भुक्तेर् मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ ६ ॥
सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः ।
तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत् ॥ ७ ॥
याज्ञवल्क्य उवाच-
अपाम्पतिस् तव गुरुः श्वशुरः प्रियकृत् तथा ।
तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ ८ ॥
याज्ञवल्क्यश् च जनको राजानं वरुणं तदा ।
गत्वा चोचतुर् अव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ ९ ॥
वरुण उवाच-
द्विधा तु संस्थिता मुक्तिः कर्मद्वारे ऽप्य् अकर्मणि ।
वेदे च निश्चितो मार्गः कर्म ज्यायो ह्य् अकर्मणः ॥ १० ॥
सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् ।
अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ ११ ॥
कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम ।
तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ १२ ॥
तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः ।
अकर्मणः कर्म पुण्यं कर्म चाप्य् आश्रमेषु च ॥ १३ ॥
जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् ।
आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ १४ ॥
चतुर्णाम् आश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् ।
तस्माद् भुक्तिश् च मुक्तिश् च भवतीति मतिर् मम ॥ १५ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा तु जनको याज्ञवल्क्यश् च बुद्धिमान् ।
वरुणं पूजयित्वा तु पुनर् वचनम् ऊचतुः ॥ १६ ॥
को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् ।
तद् वदस्व सुरश्रेष्ठ सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ १७ ॥
वरुण उवाच-
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् ।
तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ १८ ॥
तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् ।
तत्र यज्ञेन दानेन भोगान् मुक्तिम् अवाप्स्यति ॥ १९ ॥
ब्रह्मोवाच-
याज्ञवल्क्यश् च जनको वाचं श्रुत्वा ह्य् अपाम्पतेः ।
वरुणेन ह्य् अनुज्ञातौ स्वपुरीं जग्मतुस् तदा ॥ २० ॥
अश्वमेधादिकं कर्म चकार जनको नृपः ।
याजयाम् आस विप्रेन्द्रो याज्ञवल्क्यश् च तं नृपम् ॥ २१ ॥
गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिम् अवाप राट् ।
तथा जनकराजानो बहवस् तत्र कर्मणा ॥ २२ ॥
मुक्तिं प्रापुर् महाभागा गौतम्याश् च प्रसादतः ।
ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम् ॥ २३ ॥
जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् ।
चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत् ॥ २४ ॥
तत्र स्नानेन दानेन पितॄणां तर्पणेन तु ।
तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात् ॥ २५ ॥
सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात् ॥ २६ ॥