Summary (SA)
Chapter 87- Story of Indra and Ahalyā
{{Ref- SS 151-153}}
ब्रह्मोवाच-
अहल्यासङ्गमं चेह तीर्थं त्रैलोक्यपावनम् ।
शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तम् इदं यथा ॥ १ ॥
कौतुकेनातिमहता मया पूर्वं मुनीश्वर ।
सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ २ ॥
तासाम् एकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् ।
तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ ३ ॥
को वास्याः पोषणे शक्त इति मे बुद्धिर् आविशत् ।
न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ ४ ॥
नास्त्य् अस्याः पोषणे शक्तिर् इति मे बुद्धिर् अन्वभूत् ।
गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ ५ ॥
सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने ।
गौतमाय महाप्राज्ञाम् अददां पोषणाय ताम् ॥ ६ ॥
पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् ।
यौवनस्थां पुनः साध्वीम् आनयेथा ममान्तिकम् ॥ ७ ॥
एवम् उक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् ।
ताम् आदाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ ८ ॥
तां पोषयित्वा विधिवद् अलङ्कृत्य ममान्तिकम् ।
निर्विकारो मुनिश्रेष्ठो ह्य् अहल्याम् आनयत् तदा ॥ ९ ॥
तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः ।
मम देया सुरेशान इत्य् ऊचुस् ते पृथक् पृथक् ॥ १० ॥
तथैव मुनयः साध्या दानवा यक्षराक्षसाः ।
तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थम् अथ सङ्गतान् ॥ ११ ॥
इन्द्रस्य तु विशेषेण महांश् चाभूत् तदा ग्रहः ।
गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यम् एव च ॥ १२ ॥
स्मृत्वा सुविस्मितो भूत्वा ममैवम् अभवत् सुधीः ।
देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ १३ ॥
तस्माऐ एव तु तां दास्ये तथाप्य् एवम् अचिन्तयम् ।
सर्वेषां च मतिर् धैर्यं मथितं बालयानया ॥ १४ ॥
अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस् तदा ।
देवान् ऋषींस् तदा वीक्ष्य मया तत्रोक्तम् उच्चकैः ॥ १५ ॥
तस्मै सा दीयते सुभ्रूर् यः पृथिव्याः प्रदक्षिणाम् ।
कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ १६ ॥
ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् ।
अहल्यार्थं सुरा जग्मुः पृथिव्याश् च प्रदक्षिणे ॥ १७ ॥
गतेषु सुरसङ्घेषु गौतमो ऽपि मुनीश्वर ।
प्रयत्नम् अकरोत् किञ्चिद् अहल्यार्थम् इमं तथा ॥ १८ ॥
एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् ।
अर्धप्रसूता ह्य् अभवत् तां ददर्श स गौतमः ॥ १९ ॥
तस्याः प्रदक्षिणं चक्रे इयम् उर्वीति संस्मरन् ।
लिङ्गस्य च सुरेशस्य प्रदक्षिणम् अथाकरोत् ॥ २० ॥
तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः ।
सर्वेषां चैव देवानाम् एकं चापि प्रदक्षिणम् ॥ २१ ॥
नैवाभवद् भुवो गन्तुः सञ्जातं द्वितयं मम ।
एवं निश्चित्य स मुनिर् ममान्तिकम् अथाभ्यगात् ॥ २२ ॥
नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः ।
कमलासन विश्वात्मन् नमस् ते ऽस्तु पुनः पुनः ॥ २३ ॥
प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला ।
यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम् ॥ २४ ॥
मया तु ध्यानयोगेन ज्ञात्वा गौतमम् अब्रवम् ।
तवैव दीयते सुभ्रूः प्रदक्षिणम् इदं कृतम् ॥ २५ ॥
धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैर् अपि ।
अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ २६ ॥
कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् ।
लिङ्गं प्रदक्षिणीकृत्य तद् एव फलम् आप्नुयात् ॥ २७ ॥
तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत ।
तुष्टो ऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥ २८ ॥
दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया ।
इत्य् उक्त्वाहं गौतमाय अहल्याम् अददां मुने ॥ २९ ॥
जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् ।
शनैः शनैर् अथागत्य ददृशुः सर्व एव ते ॥ ३० ॥
तं गौतमम् अहल्यां च दाम्पत्यं प्रीतिवर्धनम् ।
ते चागत्याथ पश्यन्तो विस्मिताश् चाभवन् सुराः ॥ ३१ ॥
अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः ।
समत्सरः शचीभर्ता ताम् ईक्ष्य च दिवं ययौ ॥ ३२ ॥
ततः प्रीतमनास् तस्मै गौतमाय महात्मने ।
प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥ ३३ ॥
अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः ।
गौतमस्य कथां पुण्यां श्रुत्वा शक्रस् त्रिविष्टपे ॥ ३४ ॥
तम् आश्रमं तं च मुनिं तस्य भार्याम् अनिन्दिताम् ।
भूत्वा ब्राह्मणवेषेण द्रष्टुम् आगाच् छतक्रतुः ॥ ३५ ॥
स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा ।
पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥ ३६ ॥
नात्मानं न परं देशं कालं शापाद् ऋषेर् भयम् ।
न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥ ३७ ॥
तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः ।
सन्तप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥ ३८ ॥
एवं वसन् विप्ररूपो नान्तरं त्व् अध्यगच्छत ।
स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ ३९ ॥
सहितो गौतमः शिष्यैर् निर्गतश् चाश्रमाद् बहिः ।
आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च ॥ ४० ॥
द्रष्टुं गतो मुनिवर इन्द्रस् तं समुदैक्षत ।
इदम् अन्तरम् इत्य् उक्त्वा चक्रे कार्यं मनःप्रियम् ॥ ४१ ॥
रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः ।
तां दृष्ट्वा चारुसर्वाङ्गीम् अहल्यां वाक्यम् अब्रवीत् ॥ ४२ ॥
इन्द्र उवाच-
आकृष्टो ऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः ।
इति ब्रुवन् हसन् हस्तम् आदायान्तः समाविशत् ॥ ४३ ॥
न बुबोध त्व् अहल्या तं जारं मेने तु गौतमम् ।
रममाणा यथासौख्यं प्रागाच् छिष्यैः स गौतमः ॥ ४४ ॥
आगच्छन्तं नित्यम् एव अहल्या प्रियवादिनी ।
प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥ ४५ ॥
ताम् अदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम् ।
द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥ ४६ ॥
अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः ।
ऊचुर् मुनिवरं भीता गौतमं विस्मयान्विताः ॥ ४७ ॥
रक्षिण ऊचुः-
भगवन् किम् इदं चित्रं बहिर् अन्तश् च दृश्यसे ।
प्रिययान्तः प्रविष्टो ऽसि तथैव च बहिर् भवान् ।
अहो तपःप्रभावो ऽयं नानारूपधरो भवान् ॥ ४८ ॥
ब्रह्मोवाच-
तच् छ्रुत्वा विस्मितस् त्व् अन्तः प्रविष्टः को नु तिष्ठति ।
प्रिये अहल्ये भवति किं मां न प्रतिभाषसे ।
इत्य् ऋषेर् वचनं श्रुत्वा अहल्या जारम् अब्रवीत् ॥ ५० ॥
अहल्योवाच-
को भवान् मुनिरूपेण पापं त्वं कृतवान् असि ।
इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात् ॥ ५१ ॥
स चापि पापकृच् छक्रो बिडालो ऽभून् मुनेर् भयात् ।
त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥ ५२ ॥
उवाच स मुनिः कोपात् किम् इदं साहसं कृतम् ।
इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥ ५३ ॥
अन्वेषयंस् तु तं जारं बिडालं ददृशे मुनिः ।
को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन् ॥ ५४ ॥
इन्द्र उवाच-
कृताञ्जलिपुटो भूत्वा चैवम् आह शचीपतिः ।
शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥ ५५ ॥
ममेदं पापम् आपन्नं सत्यम् उक्तं मयानघ ।
महद्विगर्हितं कर्म कृतवान् अस्म्य् अहं मुने ॥ ५६ ॥
स्मरसायकनिर्भिन्नहृदयाः किं न कुर्वते ।
ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे ॥ ५७ ॥
सन्तः कृतापराधे ऽपि न रौक्ष्यं जातु कुर्वते ।
निशम्य तद् वचो विप्रो हरिम् आह रुषान्वितः ॥ ५८ ॥
गौतम उवाच-
भगभक्त्या कृतं पापं सहस्रभगवान् भव ।
ताम् अप्य् आह मुनिः कोपात् त्वं च शुष्कनदी भव ॥ ५९ ॥
ततः प्रसादयाम् आस कथयन्ती तदाकृतिम् ॥ ६० ॥
अहल्योवाच-
मनसाप्य् अन्यपुरुषं पापिष्ठाः कामयन्ति याः ।
अक्षयान् यान्ति नरकांस् तासां सर्वे ऽपि पूर्वजाः ॥ ६१ ॥
भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः ।
तव रूपेण चागत्य माम् अगात् साक्षिणस् त्व् इमे ॥ ६२ ॥
तथेति रक्षिणः प्रोचुर् अहल्या सत्यवादिनी ।
ध्यानेनापि मुनिर् ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥ ६३ ॥
गौतम उवाच-
यदा तु सङ्गता भद्रे गौतम्या सरिदीशया ।
नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम ॥ ६४ ॥
इत्य् ऋषेर् वचनं श्रुत्वा तथा चक्रे पतिव्रता ।
तया तु सङ्गता देव्या अहल्या गौतमप्रिया ॥ ६५ ॥
पुनस् तद् रूपम् अभवद् यन् मया निर्मितं पुरा ।
ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम् ॥ ६६ ॥
इन्द्र उवाच-
मां पाहि मुनिशार्दूल पापिष्ठं गृहम् आगतम् ।
पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥ ६७ ॥
गौतम उवाच-
गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरन्दर ।
क्षणान् निर्धूतपापस् त्वं सहस्राक्षो भविष्यसि ॥ ६८ ॥
उभयं विस्मयकरं दृष्टवान् अस्मि नारद ।
अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥ ६९ ॥
ततः प्रभृति तत् तीर्थम् अहल्यासङ्गमं शुभम् ।
इन्द्रतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् ॥ ७० ॥