086

Summary (SA)

Chapter 86- Story of Yama neglecting his duty

{{Ref- SS 150-151}}

ब्रह्मोवाच-

अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थम् इति श्रुतम् ।
तत्र स्नानान् नरो भक्त्या हरेर् लोकम् अवाप्नुयात् ॥ १ ॥

एकादश्यां तु शुक्लायाम् उपोष्य पृथिवीपते ।
गणिकासङ्गमे स्नात्वा प्राप्नुयाद् अक्षयं पदम् ॥ २ ॥

पुरा तत्र यथा वृत्तं तन् मे निगदतः शृणु ।
आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ ३ ॥

उत्तरे वयसि श्रेष्ठस् तस्य पुत्रो ऽभवद् ऋषे ।
गुणवान् रूपसम्पन्नो विलासी शुभदर्शनः ॥ ४ ॥

प्राणेभ्यो ऽपि प्रियः पुत्रः काले पञ्चत्वम् आगतः ।
तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ ५ ॥

कुर्वाते स्म तदा तेन सहैव मरणे मतिम् ।
हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ ६ ॥

यौवने वर्तमानो ऽपि नीतो ऽसि गुणसागर ।
आवयोश् च तथैव त्वं प्राणेभ्यो ऽपि सुदुर्लभः ॥ ७ ॥

इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः ।
त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ ८ ॥

गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् ।
अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ ९ ॥

इयत इति मे पृथ्वी कथ्यतां केन पूरिता ।
न कश्चिन् म्रियते जन्तुर् भाराक्रान्ता वसुन्धरा ॥ १० ॥

ततो देवी गता तूर्णं वसुधा मुनिसत्तम ।
यत्रास्ति सुरसंयुक्तः शक्रः परपुरञ्जयः ।
दृष्ट्वा वसुन्धराम् इन्द्रः प्रणिपत्येदम् अब्रवीत् ॥ ११ ॥

इन्द्र उवाच-

किम् आगमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ १२ ॥

धरोवाच-

भारेण गुरुणा शक्र पीडिताहं विना वधम् ।
कारणं प्रष्टुम् आयाता किम् इदं कथ्यतां मम ॥ १३ ॥

ब्रह्मोवाच-

इति श्रुत्वा महीवाक्यम् इन्द्रो वचनम् अब्रवीत् ॥ १४ ॥

इन्द्र उवाच-

कारणं यदि नाम स्यात् तदानीं ज्ञायते मया ।
सुराणां हि पतिर् यस्माद् अहं सर्वासु मेदिनि ॥ १५ ॥

ब्रह्मोवाच-

अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् ।
यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ १६ ॥

इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिन्नराः ।
यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ १७ ॥

ततस् ते सत्वरं याताः सर्वे वैवस्वतं पुरम् ।
नैवापश्यन् यमं तत्र ते सिद्धाः सह किन्नरैः ।
तथागत्य पुनर् वेगाद् वार्त्ता शक्रे निवेदिता ॥ १८ ॥

सिद्धकिन्नरा ऊचुः-

यमो यमपुरे नाथ अस्माभिर् नावलोकितः ।
महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ १९ ॥

ब्रह्मोवाच-

इति श्रुत्वा वचस् तेषां पृष्टः शक्रेण वै तदा ।
सविता स पिता तस्य यमः कुत्रास्त इत्य् अथ ॥ २० ॥

सूर्य उवाच-

शक्र गोदावरीतीरे कृतान्तो वर्तते ऽधुना ।
चरंस् तत्र तपस् तीव्रं न जाने किं नु कारणम् ॥ २१ ॥

ब्रह्मोवाच-

इति श्रुत्वा वचो भानोः शक्रः शङ्काम् उपाविशत् ॥ २२ ॥

शक्र उवाच-

अहो कष्टं महाकष्टं नष्टा मे सुरनाथता ।
गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः ।
जिघृक्षुर् मत्पदं नूनं देवा इति मतिर् मम ॥ २३ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा सहसेन्द्रेण आहूतश् चाप्सरोगणः ॥ २४ ॥

इन्द्र उवाच-

का भवतीषु कालस्य स्थितस्य तपसि द्विषः ।
तपःप्रणाशने शक्ता इति मे शीघ्रम् उच्यताम् ॥ २५ ॥

ब्रह्मोवाच-

इति शक्रवचः श्रुत्वा नोचे कापि महामुने ।
अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ २६ ॥

इन्द्र उवाच-

उत्तरं नाब्रवीत् किञ्चिद् यामस् तर्हि वयं स्वयम् ।
सज्जा भवन्तु विबुधाः सैन्यैर् आयान्तु मा चिरम् ।
घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ २७ ॥

ब्रह्मोवाच-

इत्य् उक्ते सति देवानां सेना प्रादुर्बभूव ह ।
इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ २८ ॥

प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि ।
चक्रं यत्राभवत् तत्र चक्रतीर्थम् अनुत्तमम् ॥ २९ ॥

अथेन्द्रं मेनका प्राह शङ्कितेति वचस् तदा ॥ ३० ॥

मेनकोवाच-

कालावलोकने नालं काचिद् अस्ति सुरेश्वर ।
मरणं च वरं देव भवतो न यमात् पुनः ॥ ३१ ॥

रूपयौवनमत्तेयं गणिकायाचनं प्रभो ।
प्रेषणं तत् प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥ ३२ ॥

ब्रह्मोवाच-

इति श्रुत्वा वचस् तस्याः शक्रः सुरवरेश्वरः ।
आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥ ३३ ॥

शक्र उवाच-

गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् ।
कृतकृत्यागता भूयो वल्लभा मे यथा शची ॥ ३४ ॥

ब्रह्मोवाच-

इत्य् आकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः ।
क्षणेन यमसान्निध्यम् आयाता चारुरूपिणी ॥ ३५ ॥

यमान्तिकम् अनुप्राप्ता द्योतयन्ती दिशो दश ।
सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम् ॥ ३६ ॥

ततश् चचाल कालस्य मनो लोलं चलाचलम् ।
अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥ ३७ ॥

तस्यां व्यापारयाम् आस श्रेयःशत्रौ महामुने ।
ततो विलीय सा सद्यः सरित्त्वम् अगमत् तदा ॥ ३८ ॥

गौतम्यां तु समागम्य गणिकागणकिङ्करैः ।
गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥ ३९ ॥

गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति ।
विस्मयं परमं प्राप्तः कालस् तरललोचनः ।
अथादित्येन चागत्य एवम् उक्तो यमस् तदा ॥ ४० ॥

सूर्य उवाच-

कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् ।
पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः ।
पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥ ४१ ॥

ब्रह्मोवाच-

इति श्रुत्वा यमो वाक्यं पितुर् वचनम् अब्रवीत् ॥ ४२ ॥

यम उवाच-

एतन् न गर्हितं कर्म कुर्याम् अहम् इदं ध्रुवम् ।
कर्मण्य् अस्मिन् महाक्रूरे समादेष्टुं न वार्हसि ॥ ४३ ॥

इति श्रुत्वा च तद् वाक्यं भानुर् वचनम् अब्रवीत् ।
किं नाम गर्हितं कर्म तव कर्तुम् अलं यम ॥ ४४ ॥

किं न दृष्टा त्वया यान्ती गणिका गणकिङ्करैः ।
गीयमाना दिवं सद्यो गौतमीतोयम् आप्लुता ॥ ४५ ॥

त्वया चात्र तपस् तीव्रं कृतं पुत्र सुदुष्करम् ।
नैवान्तं तस्य पश्यामि तस्माद् गच्छ निजं पुरम् ॥ ४६ ॥

इत्य् उक्त्वा भगवान् भानुस् तत्र स्नात्वा गतो दिवम् ।
यमो ऽपि सङ्गमे स्नात्वा ततो निजपुरं ययौ ॥ ४७ ॥

भूतहापि ततः शङ्कां तत्याज च महामुने ।
तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम् ॥ ४८ ॥

भगवान् यत्र गोविन्दो वनमालाविभूषितः ।
इति यः शृणुयान् मर्त्यः पठेद् वापि समाहितः ॥ ४९ ॥

आपदस् तस्य नश्यन्ति दीर्घम् आयुर् अवाप्नुयात् ॥ ५० ॥