Summary (SA)
Chapter 85- Story of Kaṇva’s hunger
{{Ref- SS 149-150}}
ब्रह्मोवाच-
क्षुधातीर्थम् इति ख्यातं शृणु नारद तन्मनाः ।
कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ १ ॥
ऋषिर् आसीत् पुरा कण्वस् तपस्वी वेदवित्तमः ।
परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः ॥ २ ॥
गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा ।
आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ ३ ॥
वीक्ष्य कण्वो ऽथ वैषम्यं वैराग्यम् अगमत् तदा ।
गौतमो ऽपि द्विजश्रेष्ठो ह्य् अहं तपसि निष्ठितः ॥ ४ ॥
समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि ।
न भोक्ष्ये ऽहं क्षुधार्तो ऽपि पीडिते ऽपि कलेवरे ॥ ५ ॥
गच्छेयं गौतमीं गङ्गाम् अर्जयेयं च सम्पदम् ।
इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ ६ ॥
स्नात्वा शुचिर् यतमना उपविश्य कुशासने ।
तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ ७ ॥
कण्व उवाच-
नमो ऽस्तु गङ्गे परमार्तिहारिणि ।
नमः क्षुधे सर्वजनार्तिकारिणि ।
नमो महेशानजटोद्भवे शुभे ।
नमो महामृत्युमुखाद् विनिसृते ॥ ८ ॥
पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् ।
सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ९ ॥
क्षुधारूपेण सर्वेषां तापपापप्रदे नमः ।
नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि ।
नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ १० ॥
ब्रह्मोवाच-
इत्य् एवं स्तुवतस् तस्य पुरस्ताद् अभवद् द्वयम् ।
एकं गाङ्गं मनोहारि ह्य् अपरं भीषणाकृति ।
पुनः कृताञ्जलिर् भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ ११ ॥
कण्व उवाच-
सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे ।
वैष्णवि त्र्यम्बके देवि गोदावरि नमो ऽस्तु ते ॥ १२ ॥
त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि ।
सप्तधा सागरं यान्ति गोदावरि नमो ऽस्तु ते ॥ १३ ॥
सर्वपापकृतां पापे धर्मकामार्थनाशिनि ।
दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ १४ ॥
ब्रह्मोवाच-
तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर् द्विजम् ॥ १५ ॥
गङ्गाक्षुधे ऊचतुः-
अभीष्टं वद कल्याण वरान् वरय सुव्रत ॥ १६ ॥
ब्रह्मोवाच-
प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥ १७ ॥
कण्व उवाच-
देहि देवि मनोज्ञानि कामानि विभवं मम ।
आयुर् वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ १८ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः ॥ १९ ॥
कण्व उवाच-
मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि ।
याहि पापतरे रूक्षे न भूयास् त्वं कदाचन ॥ २० ॥
अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः ।
तेषां दारिद्र्यदुःखानि न भवेयुर् वरो ऽपरः ॥ २१ ॥
अस्मिंस् तीर्थे महापुण्ये स्नानदानजपादिकम् ।
ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ २२ ॥
यस् त्व् इदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे ।
तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरो ऽपरः ॥ २३ ॥
ब्रह्मोवाच-
एवम् अस्त्व् इति चोक्त्वा ते कण्वं याते स्वम् आलयम् ।
ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् ।
सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम् ॥ २५ ॥