084

Summary (SA)

Chapter 84- Birth of Hanumat and his half-brother

{{Ref- SS 149}}

ब्रह्मोवाच-

पैशाचं तीर्थम् अपरं पूजितं ब्रह्मवादिभिः ।
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ १ ॥

गिरिर् ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद ।
तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ २ ॥

अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी ।
केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ ३ ॥

सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा ।
उत्तमाङ्गेन मार्जारी साप्य् आस्ते ऽञ्जनपर्वते ॥ ४ ॥

दक्षिणार्णवम् अभ्यागात् केसरी लोकविश्रुतः ।
एतस्मिन्न् अन्तरे ऽगस्त्यो ऽञ्जनं पर्वतम् अभ्यगात् ॥ ५ ॥

अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् ।
पूजयाम् आसतुर् उभे यथान्यायं यथासुखम् ॥ ६ ॥

ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः ।
ते आहतुर् उभे ऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥ ७ ॥

सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ ।
तथेत्य् उक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ ८ ॥

ततः कदाचित् ते काले अञ्जना चाद्रिका तथा ।
गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ ९ ॥

वायुश् च निरृतिश् चापि ते दृष्ट्वा सस्मितौ सुरौ ।
कामाक्रान्तधियौ चोभौ तदा सत्वरम् ईयतुः ॥ १० ॥

भार्ये भवेताम् उभयोर् आवां देवौ वरप्रदौ ।
ते अप्य् ऊचतुर् अस्त्व् एतद् रेमाते गिरिमूर्धनि ॥ ११ ॥

अञ्जनायां तथा वायोर् हनुमान् समजायत ।
अद्रिकायां च निरृतेर् अद्रिर् नाम पिशाचराट् ॥ १२ ॥

पुनस् ते आहतुर् उभे पुत्रौ जातौ मुनेर् वरात् ।
आवयोर् विकृतं रूपम् उत्तमाङ्गेन दूषितम् ॥ १३ ॥

शापाच् छचीपतेस् तत्र युवाम् आज्ञातुम् अर्हथः ।
ततः प्रोवाच भगवान् वायुश् च निरृतिस् तथा ॥ १४ ॥

गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति ।
इत्य् उक्त्वा ताव् उभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ १५ ॥

ततो ऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् ।
भ्रातुर् हनुमतः प्रीत्यै स्नापयाम् आस मातरम् ॥ १६ ॥

तथैव हनुमान् गङ्गाम् आदायाद्रिम् अतित्वरन् ।
मार्जाररूपिणीं नीत्वा गौतम्यास् तीरम् आप्तवान् ॥ १७ ॥

ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा ।
ब्रह्मणो गिरिम् आसाद्य सर्वकामप्रदं शुभम् ॥ १८ ॥

योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् ।
मार्जारसञ्ज्ञितात् तस्माद् धनूमन्तं वृषाकपिम् ॥ १९ ॥

फेनासङ्गमम् आख्यातं सर्वकामप्रदं शुभम् ।
तस्य स्वरूपं व्युष्टिश् च तत्रैव प्रोच्यते शुभा ॥ २० ॥