Summary (SA)
Chapter 83- The completion of Bhauvana’s ten horse-sacrifices
{{Ref- SS 147-148}}
ब्रह्मोवाच-
दशाश्वमेधिकं तीर्थं तच् छृणुष्व महामुने ।
यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ १ ॥
विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः ।
तस्यापि प्रथमः पुत्रस् तत्पुत्रो भौवनो विभुः ॥ २ ॥
पुरोधाः कश्यपस् तस्य सर्वज्ञानविशारदः ।
तम् अपृच्छन् महाबाहुर् भौवनः सार्वभौवनः ॥ ३ ॥
यक्ष्ये ऽहं हयमेधैश् च युगपद् दशभिर् मुने ।
इत्य् अपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति ॥ ४ ॥
सो ऽवदद् देवयजनं तत्र तत्र नृपोत्तम ।
यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ ५ ॥
तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले ।
युगपद् दशमेधानि प्रवृत्तानि पुरोधसा ॥ ६ ॥
पूर्णतां नाययुस् तानि दृष्ट्वा चिन्तापरो नृपः ।
विहाय देवयजनं पुनर् अन्यत्र तान् क्रतून् ॥ ७ ॥
उपाक्रामत् तथा तत्र विघ्नदोषास् तम् आययुः ।
दृष्ट्वापूर्णांस् ततो यज्ञान् राजा गुरुम् अभाषत ॥ ८ ॥
राजोवाच-
देशदोषात् कालदोषान् मम दोषात् तवापि वा ।
पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ ९ ॥
ब्रह्मोवाच-
ततश् च दुःखितो राजा कश्यपेन पुरोधसा ।
गीष्पतेर् भ्रातरं ज्येष्ठं गत्वा संवर्तम् ऊचतुः ॥ १० ॥
कश्यपभौवनाव् ऊचतुः-
भगवन् युगपत् कार्याण्य् अश्वमेधानि मानद ।
दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ ११ ॥
ब्रह्मोवाच-
ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा ।
अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ १२ ॥
भौवनो ऽपि महाप्राज्ञः कश्यपेन महात्मना ।
आगत्य माम् अब्रवीच् च गुरुं देशादिकं च यत् ॥ १३ ॥
ततो ऽहम् अब्रवं पुत्र भौवनं कश्यपं तथा ।
गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ १४ ॥
अयम् एव गुरुः श्रेष्ठः कश्यपो वेदपारगः ।
गुरोर् अस्य प्रसादेन गौतम्याश् च प्रसादतः ॥ १५ ॥
एकेन हयमेधेन तत्र स्नानेन वा पुनः ।
सेत्स्यन्ति तत्र यज्ञाश् च दशमेधानि वाजिनः ॥ १६ ॥
तच् छ्रुत्वा भौवनो राजा गौतमीतीरम् अभ्यगात् ।
कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ १७ ॥
ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ ।
सम्पूर्णे तु तदा राजा पृथिवीं दातुम् उद्यतः ॥ १८ ॥
ततो ऽन्तरिक्षे वाग् उच्चैर् उवाच नृपसत्तमम् ।
पूजयित्वा स्थितं विप्रान् ऋत्विजो ऽथ सदस्पतीन् ॥ १९ ॥
आकाशवाग् उवाच-
पुरोधसे कश्यपाय सशैलवनकाननाम् ।
पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ २० ॥
भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् ।
नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१ ॥
विशेषतस् तु गङ्गायाः श्रद्धया पुलिने मुने ।
त्वया तु हयमेधो ऽयं कृतः सबहुदक्षिणः ।
कृतकृत्यो ऽसि भद्रं ते नात्र कार्या विचारणा ॥ २२ ॥
ब्रह्मोवाच-
तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ २३ ॥
पृथिव्य् उवाच-
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः ।
निमज्जे ऽहं सलिलस्य मध्ये तस्मान् न दीयताम् ॥ २४ ॥
ब्रह्मोवाच-
ततश् च भौवनो भीतः किं देयम् इति चाब्रवीत् ।
पुनश् चोवाच सा पृथ्वी भौवनं ब्राह्मणैर् वृतम् ॥ २५ ॥
भूम्य् उवाच-
तिला गावो धनं धान्यं यत् किञ्चिद् गौतमीतटे ।
सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि ॥ २६ ॥
गङ्गातीरं समाश्रित्य ग्रासम् एकं ददाति यः ।
तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ २७ ॥
ब्रह्मोवाच-
तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः ।
तथेति मत्वा विप्रेभ्यो ह्य् अन्नं प्रादात् सुविस्तरम् ॥ २८ ॥
ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः ।
दशानाम् अश्वमेधानां फलं स्नानाद् अवाप्यते ॥ २९ ॥