Summary (SA)
Chapter 82- Story of the Kṛttikās and of Skanda’s birth
{{Ref- SS 147}}
ब्रह्मोवाच-
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् ।
तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ १ ॥
पुरा तारकनाशाय भवरेतो ऽपिबत् कविः ।
रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्यो ऽस्पृहन् मुने ॥ २ ॥
सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्व् अरुन्धतीम् ।
तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः ॥ ३ ॥
तप्यमानास् तु शोभिष्ठा ऋतुस्नातास् तु ता मुने ।
किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ ४ ॥
इत्य् उक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् ।
ताभ्यस् ते निःसृता गर्भाः फेनरूपास् तदाम्भसि ॥ ५ ॥
अम्भसा त्व् एकतां प्राप्ता वायुना सर्व एव हि ।
एकरूपस् तदा ताभ्यः षण्मुखः समजायत ॥ ६ ॥
स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः ।
तासां विकृतरूपाणि दृष्ट्वा ते ऋषयो ऽब्रुवन् ॥ ७ ॥
गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर् न युज्यते ।
स्त्रीणाम् इति ततो वत्स निरस्ताः पतिभिस् तु ताः ॥ ८ ॥
ततो दुःखं समाविष्टास् त्यक्ताः स्वपतिभिश् च षट् ।
ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ ९ ॥
गाङ्गेयो ऽग्निभवश् चेति विख्यातस् तारकान्तकः ।
तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति ॥ १० ॥
देवर्षेर् वचनाद् एव समभ्येत्य च षण्मुखम् ।
कृत्तिकाः स्वयम् एवैतद् यथावृत्तं न्यवेदयत् ॥ ११ ॥
ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो ऽनुमन्य च ।
गौतमीं यान्तु सर्वाश् च स्नात्वापूज्य महेश्वरम् ॥ १२ ॥
एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् ।
तथेत्य् उक्त्वा कृत्तिकाश् च स्नात्वा गङ्गां च गौतमीम् ॥ १३ ॥
देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् ।
देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ १४ ॥
ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थम् उच्यते ।
कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानम् आचरेत् ॥ १५ ॥
सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः ।
तत्तीर्थस्मरणं वापि यः करोति शृणोति च ।
सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात् ॥ १६ ॥