Summary (SA)
Chapter 81- Story of Skanda’s lust
{{Ref- SS 146}}
ब्रह्मोवाच-
कार्त्तिकेयं परं तीर्थं कौमारम् इति विश्रुतम् ।
यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत् ॥ १ ॥
निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे ।
कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ २ ॥
यथासुखं भुङ्क्ष्व भोगांस् त्रैलोक्ये मनसः प्रियान् ।
ममाज्ञया प्रीतमनाः पितुश् चैव प्रसादतः ॥ ३ ॥
एवम् उक्तः स वै मात्रा विशाखो देवतास्त्रियः ।
यथासुखं बलाद् रेमे देवपत्न्यो ऽपि रेमिरे ॥ ४ ॥
ततः सम्भुज्यमानासु देवपत्नीषु नारद ।
नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः ॥ ५ ॥
ततो निवेदयाम् आसुः पार्वत्यै पुत्रकर्म तत् ।
असकृद् वार्यमाणो ऽपि मात्रा देवैः स शक्तिधृक् ॥ ६ ॥
नैवासाव् अकरोद् वाक्यं स्त्रीष्व् आसक्तस् तु षण्मुखः ।
अभिशापभयाद् भीता पार्वती पर्यचिन्तयत् ॥ ७ ॥
पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये ।
देवपत्न्यश् चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ ८ ॥
यस्यां तु रमते स्कन्दः पार्वती त्व् अपि तादृशी ।
तद्रूपम् आत्मनः कृत्वा वर्तयाम् आस पार्वती ॥ ९ ॥
इन्द्रस्य वरुणस्यापि भार्याम् आहूय षण्मुखः ।
यावत् पश्यति तस्यां तु मातृरूपम् अपश्यत ॥ १० ॥
ताम् अपास्य नमस्याथ पुनर् अन्याम् अथाह्वयत् ।
तस्यां तु मातृरूपं स प्रेक्ष्य लज्जाम् उपेयिवान् ॥ ११ ॥
एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् ।
इति सञ्चिन्त्य गाङ्गेयो वैराग्यम् अगमत् तदा ॥ १२ ॥
स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् ।
निवार्यश् चेद् अहं भोगात् किन्तु पूर्वं प्रवर्तितः ॥ १३ ॥
तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्व् इति ।
लज्जया परया युक्तो गौतमीम् अगमत् तदा ॥ १४ ॥
इयं च मातृरूपा मे शृणोतु मम भाषितम् ।
इतः स्त्रीनामधेयं यन् मम मातृसमं मतम् ॥ १५ ॥
एवं ज्ञात्वा लोकनाथः पार्वत्या सह शङ्करः ।
पुत्रं निवारयाम् आस वृत्तम् इत्य् अब्रवीद् गुरुः ॥ १६ ॥
ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् ।
कृताञ्जलिपुटः स्कन्दः पितरं पुनर् अब्रवीत् ॥ १७ ॥
स्कन्द उवाच-
सेनापतिः सुरपतिस् तव पुत्रो ऽहम् इत्य् अपि ।
अलम् एतेन देवेश किं वरैः सुरपूजित ॥ १८ ॥
अथवा दातुकामो ऽसि लोकानां हितकाम्यया ।
याचे ऽहं नात्मना देव तद् अनुज्ञातुम् अर्हसि ॥ १९ ॥
महापातकिनः केचिद् गुरुदाराभिगामिनः ।
अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ २० ॥
आप्नुवन्तूत्तमां जातिं तिर्यञ्चो ऽपि सुरेश्वर ।
कुरूपो रूपसम्पत्तिम् अत्र स्नानाद् अवाप्नुयात् ॥ २१ ॥
ब्रह्मोवाच-
एवम् अस्त्व् इति तं शम्भुः प्रत्यनन्दत् सुतेरितम् ।
ततः प्रभृति तत् तीर्थं कार्त्तिकेयम् इति श्रुतम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ २२ ॥