080

Summary (SA)

Chapter 80- Story of the pigeon couple and the hunter

{{Ref- SS 144-146}}

ब्रह्मोवाच-

कुशावर्तस्य माहात्म्यम् अहं वक्तुं न ते क्षमः ।
तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥ १ ॥

कुशावर्तम् इति ख्यातं नराणां सर्वकामदम् ।
कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ २ ॥

कुशेनावर्तयित्वा तु आनयाम् आस तां मुनिः ।
तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम् ॥ ३ ॥

नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् ।
तत्र स्नानादि यत् किञ्चित् करोति प्रयतो नरः ॥ ४ ॥

सर्वं तद् अक्षयं विद्यात् पितॄणां तृप्तिदायकम् ।
विश्रुतं त्रिषु लोकेषु कपोतं तीर्थम् उत्तमम् ॥ ५ ॥

तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् ।
तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः ॥ ६ ॥

हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् ।
एवम्भूतः स पापात्मा क्रोधनो ऽनृतभाषणः ॥ ७ ॥

भीषणाकृतिर् अत्युग्रो नीलाक्षो ह्रस्वबाहुकः ।
दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः ॥ ८ ॥

ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः ।
पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ ९ ॥

तस्य भार्या तथाभूता अपत्यान्य् अपि नारद ।
तया तु प्रेर्यमाणो ऽसौ विवेश गहनं वनम् ॥ १० ॥

स जघान मृगान् पापः पक्षिणो बहुरूपिणः ।
पञ्जरे प्राक्षिपत् कांश्चिज् जीवमानांस् तथेतरान् ॥ ११ ॥

क्षुधया परितप्ताङ्गो विह्वलस् तृषया तथा ।
भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ १२ ॥

ततो ऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे ।
क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा ॥ १३ ॥

ववौ वायुः साश्मवर्षो वारिधारातिभीषणः ।
स गच्छंल् लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ १४ ॥

जलं स्थलं गर्तम् अथो पन्थानम् अथवा दिशः ।
न बुबोध तदा पापः श्रान्तः शरणम् अप्य् अथ ॥ १५ ॥

क्व गच्छामि क्व तिष्ठेयं किं करोमीत्य् अचिन्तयत् ।
सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः ॥ १६ ॥

ममाप्य् अन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् ।
त्रातारं नैव पश्यामि शिलां वा वृक्षम् अन्तिके ॥ १७ ॥

एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके ।
वने वनस्पतिम् इव नक्षत्राणां यथात्रिजम् ॥ १८ ॥

मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् ।
इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ १९ ॥

श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् ।
तम् आश्रित्योपविष्टो ऽभूत् क्लिन्नवासा स लुब्धकः ॥ २० ॥

स्मरन् भार्याम् अपत्यानि जीवेयुर् अथवा न वा ।
एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ २१ ॥

तम् एव नगम् आश्रित्य कपोतो भार्यया सह ।
पुत्रपौत्रैः परिवृतो ह्य् आस्ते तत्र नगोत्तमे ॥ २२ ॥

सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च ।
बहवो वत्सरा याता वसतस् तस्य पक्षिणः ॥ २३ ॥

पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि ।
कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ २४ ॥

भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः ।
तस्मिन् दिने दैववशात् कपोतश् च कपोतकी ॥ २५ ॥

भक्ष्यार्थं तु उभौ यातौ कपोतो नगम् अभ्यगात् ।
सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते ॥ २६ ॥

गृहीता लुब्धकेनाथ जीवमानेव वर्तते ।
कपोतको ऽप्य् अपत्यानि मातृहीनान्य् उदीक्ष्य च ॥ २७ ॥

वर्षं च भीषणं प्राप्तम् अस्तं यातो दिवाकरः ।
स्वकोटरं तया हीनम् आलोक्य विललाप सः ॥ २८ ॥

तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् ।
अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ २९ ॥

नाद्याप्य् आयाति कल्याणी मम हर्षविवर्धिनी ।
मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ ३० ॥

धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी ।
तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥ ३१ ॥

सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा ।
नाद्याप्य् आयाति कल्याणी सम्प्रयाते ऽपि भास्करे ॥ ३२ ॥

न जानाति व्रतं मन्त्रं दैवं धर्मार्थम् एव च ।
पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥ ३३ ॥

नाद्याप्य् आयाति कल्याणी किं करोमि क्व यामि वा ।
किं मे गृहं काननं च तया हीनं हि दृश्यते ॥ ३४ ॥

तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् ।
नाद्याप्य् आयाति मे कान्ता यया गृहम् उदीरितम् ॥ ३५ ॥

विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् ।
किं कुर्वन्तु त्व् अपत्यानि लुप्तधर्मस् त्व् अहं पुनः ॥ ३६ ॥

एवं विलपतस् तस्य भर्तुर् वाक्यं निशम्य सा ।
पञ्जरस्थैव सा वाक्यं भर्तारम् इदम् अब्रवीत् ॥ ३७ ॥

कपोतक्य् उवाच-

अत्राहम् अस्मि बद्धैव विवशास्मि खगोत्तम ।
आनीताहं लुब्धकेन बद्धा पाशैर् महामते ॥ ३८ ॥

धन्यास्म्य् अनुगृहीतास्मि पतिर् वक्ति गुणान् मम ।
सतो वाप्य् असतो वापि कृतार्थाहं न संशयः ॥ ३९ ॥

तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
विपर्यये तु नारीणाम् अवश्यं नाशम् आप्नुयात् ॥ ४० ॥

त्वं दैवं त्वं प्रभुर् मह्यं त्वं सुहृत् त्वं परायणम् ।
त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस् त्वम् एव च ॥ ४१ ॥

मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु ।
त्वत्प्रसादाच् च भुक्ता हि भोगाश् च विविधा मया ।
अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥ ४३ ॥

ब्रह्मोवाच-

इति श्रुत्वा प्रियावाक्यम् उत्ततार नगोत्तमात् ।
यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥ ४४ ॥

ताम् आगत्य प्रियां दृष्ट्वा मृतवच् चापि लुब्धकम् ।
मोचयामीति ताम् आह निश्चेष्टो लुब्धको ऽधुना ॥ ४५ ॥

मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धम् अस्थिरम् ।
लुब्धानां खेचरा ह्य् अन्नं जीवो जीवस्य चाशनम् ॥ ४६ ॥

नापराधं स्मराम्य् अस्य धर्मबुद्धिं स्थिरां कुरु ।
गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ४७ ॥

पतिर् एव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ।
अभ्यागतम् अनुप्राप्तं वचनैस् तोषयन्ति ये ॥ ४८ ॥

तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् ।
तस्यान्नस्य प्रदानेन शक्रस् तृप्तिम् अवाप्नुयात् ॥ ४९ ॥

पितरः पादशौचेन अन्नाद्येन प्रजापतिः ।
तस्योपचाराद् वै लक्ष्मीर् विष्णुना प्रीतिम् आप्नुयात् ॥ ५० ॥

शयने सर्वदेवास् तु तस्मात् पूज्यतमो ऽतिथिः ।
अभ्यागतम् अनुश्रान्तं सूर्योढं गृहम् आगतम् ।
तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्य् असौ ॥ ५१ ॥

अभ्यागतं श्रान्तम् अनुव्रजन्ति ।
देवाश् च सर्वे पितरो ऽग्नयश् च ।
तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति ।
गते निराशे ऽपि च ते निराशाः ॥ ५२ ॥

तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज ।
कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥ ५३ ॥

उपकारो ऽपकारश् च प्रवराव् इति सम्मतौ ।
उपकारिषु सर्वो ऽपि करोत्य् उपकृतिं पुनः ॥ ५४ ॥

अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः ॥ ५५ ॥

कपोत उवाच-

आवयोर् अनुरूपं च त्वयोक्तं साधु मन्यसे ।
किन्तु वक्तव्यम् अप्य् अस्ति तच् छृणुष्व वरानने ॥ ५६ ॥

सहस्रं भरते कश्चिच् छतम् अन्यो दशापरः ।
आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः ॥ ५७ ॥

गर्तधान्यधनाः केचित् कुशूलधनिनो ऽपरे ।
घटक्षिप्तधनाः केचिच् चञ्चुक्षिप्तधना वयम् ॥ ५८ ॥

पूजयामि कथं श्रान्तम् अभ्यागतम् इमं शुभे ॥ ५९ ॥

कपोत्य् उवाच-

अग्निर् आपः शुभा वाणी तृणकाष्ठादिकं च यत् ।
एतद् अप्य् अर्थिने देयं शीतार्तो लुब्धकस् त्व् अयम् ॥ ६० ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा प्रियावाक्यं वृक्षम् आरुह्य पक्षिराट् ।
आलोकयाम् आस तदा वह्निं दूरं ददर्श ह ॥ ६१ ॥

स तु गत्वा वह्निदेशं चञ्चुनोल्मुकम् आहरत् ।
पुरो ऽग्निं ज्वालयाम् आस लुब्धकस्य कपोतकः ॥ ६२ ॥

शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः ।
अग्नौ निक्षेपयाम् आस निशीथे स कपोतराट् ॥ ६३ ॥

तम् अग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः ।
अवशानि स्वकाङ्गानि प्रताप्य सुखम् आप्तवान् ॥ ६४ ॥

क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी ।
मा मुञ्चस्व महाभाग इति भर्तारम् अब्रवीत् ॥ ६५ ॥

स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् ।
इष्टातिथीनां ये लोकास् तांस् त्वं प्राप्नुहि सुव्रत ॥ ६६ ॥

कपोत उवाच-

मयि तिष्ठति नैवायं तव धर्मो विधीयते ।
इष्टातिथिर् भवामीह अनुजानीहि मां शुभे ॥ ६७ ॥

ब्रह्मोवाच-

इत्य् उक्त्वाग्निं त्रिर् आवर्त्य स्मरन् देवं चतुर्भुजम् ।
विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥ ६८ ॥

यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् ।
तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यम् अब्रवीत् ॥ ६९ ॥

लुब्धक उवाच-

अहो मानुषदेहस्य धिग् जीवितम् इदं मम ।
यद् इदं पक्षिराजेन मदर्थे साहसं कृतम् ॥ ७० ॥

ब्रह्मोवाच-

एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यम् अब्रवीत् ॥ ७१ ॥

कपोतक्य् उवाच-

मां त्वं मुञ्च महाभाग दूरं यात्य् एष मे पतिः ॥ ७२ ॥

ब्रह्मोवाच-

तस्यास् तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् ।
लुब्धको मोचयाम् आस तरसा भीतवत् तदा ॥ ७३ ॥

सापि प्रदक्षिणं कृत्वा पतिम् अग्निं तदा जगौ ॥ ७४ ॥

कपोत्य् उवाच-

स्त्रीणाम् अयं परो धर्मो यद् भर्तुर् अनुवेशनम् ।
वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥ ७५ ॥

व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् ।
एवं त्व् अनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥ ७६ ॥

तिस्रः कोट्यो ऽर्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ७७ ॥

नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन् ।
आश्वास्य तान्य् अपत्यानि लुब्धकं वाक्यम् अब्रवीत् ॥ ७८ ॥

कपोत्य् उवाच-

त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम् ।
अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥ ७९ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् ।
प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥ ८० ॥

गगने सूर्यसङ्काशं विमानम् अतिशोभनम् ।
तदारूढौ सुरनिभौ दम्पती ददृशे ततः ॥ ८१ ॥

हर्षेण प्रोचतुर् उभौ लुब्धकं विस्मयान्वितम् ॥ ८२ ॥

दम्पती ऊचतुः-

गच्छावस् त्रिदशस्थानम् आपृष्टो ऽसि महामते ।
आवयोः स्वर्गसोपानम् अतिथिस् त्वं नमो ऽस्तु ते ॥ ८३ ॥

ब्रह्मोवाच-

विमानवरम् आरूढौ तौ दृष्ट्वा लुब्धको ऽपि सः ।
सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिर् अभाषत ॥ ८४ ॥

लुब्धक उवाच-

न त्यक्तव्यो महाभागौ देयं किञ्चिद् अजानते ।
अहम् अत्रातिथिर् मान्यो निष्कृतिं वक्तुम् अर्हथः ॥ ८५ ॥

दम्पती ऊचतुः-

गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय ।
तत्रैवाप्लवनात् पक्षं सर्वपापैर् विमोक्ष्यसे ॥ ८६ ॥

मुक्तपापः पुनस् तत्र गङ्गायाम् अवगाहने ।
अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥ ८७ ॥

सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि ।
पुनर् आप्लवनाद् एव त्यक्त्वा देहं मलीमसम् ॥ ८८ ॥

विमानवरम् आरूढः स्वर्गं गन्तास्य् असंशयम् ॥ ८९ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः ।
विमानवरम् आरूढो दिव्यरूपधरो ऽभवत् ॥ ९० ॥

दिव्यमाल्याम्बरधरः पूज्यमानो ऽप्सरोगणैः ।
कपोतश् च कपोती च तृतीयो लुब्धकस् तथा ।
गङ्गायाश् च प्रभावेण सर्वे वै दिवम् आक्रमन् ॥ ९१ ॥

ततः प्रभृति तत् तीर्थं कापोतम् इति विश्रुतम् ।
तत्र स्नानं च दानं च पितृपूजनम् एव च ॥ ९२ ॥

जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते ॥ ९३ ॥