079

Summary (SA)

Chapter 79- Story of Viṣṇu as boar lifting up the sacrifice

{{Ref- SS 143-144}}

नारद उवाच-

न मनस् तृप्तिम् आधत्ते कथाः शृण्वत् त्वयेरिताः ।
पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ १ ॥

क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद ।
पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ २ ॥

ब्रह्मोवाच-

तीर्थानां च पृथग् भावं फलं माहात्म्यम् एव च ।
सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ ३ ॥

तथापि किञ्चिद् वक्ष्यामि शृणु नारद यत्नतः ।
यान्य् उक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ ४ ॥

तानि वक्ष्यामि सङ्क्षेपान् नमस्कृत्वा त्रिलोचनम् ।
यत्रासौ भगवान् आसीत् प्रत्यक्षस् त्र्यम्बको मुने ॥ ५ ॥

त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् ।
वाराहम् अपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ६ ॥

तस्य रूपं प्रवक्ष्यामि नाम विष्णोर् यथाभवत् ।
पुरा देवान् पराभूय यज्ञम् आदाय राक्षसः ॥ ७ ॥

रसातलम् अनुप्राप्तः सिन्धुसेन इति श्रुतः ।
यज्ञे तलम् अनुप्राप्ते निर्यज्ञा ह्य् अभवन् मही ॥ ८ ॥

नायं लोको ऽस्ति न परो यज्ञे नष्ट इतीत्वराः ।
सुरास् तम् एव विविशू रसातलम् अनुद्विषम् ॥ ९ ॥

नाशक्नुवंस् तु तं जेतुं देवा इन्द्रपुरोगमाः ।
विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ १० ॥

राक्षसस्य तु तत् कर्म यज्ञभ्रंशम् अशेषतः ।
ततः प्रोवाच भगवान् वाराहं वपुर् आस्थितः ॥ ११ ॥

शङ्खचक्रगदापाणिर् गत्वा चैव रसातलम् ।
आनयिष्ये मखं पुण्यं हत्वा राक्षसपुङ्गवान् ॥ १२ ॥

स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः ।
येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ १३ ॥

जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् ।
स वराहवपुः श्रीमान् रसातलनिवासिनः ॥ १४ ॥

राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् ।
वाराहरूपी भगवान् मखम् आदाय यज्ञभुक् ॥ १५ ॥

येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् ।
मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ १६ ॥

तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः ।
पथस् तस्माद् विनिःसृत्य गङ्गास्रवणम् अभ्यगात् ॥ १७ ॥

प्राक्षालयच् च स्वाङ्गानि असृग्लिप्तानि नारद ।
गङ्गाम्भसा तत्र कुण्डं वाराहम् अभवत् ततः ॥ १८ ॥

मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः ।
दत्तवांस् त्रिदशश्रेष्ठो मुखाद् यज्ञो ऽभ्यजायत ॥ १९ ॥

ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते ।
वाराहरूपम् अभवद् एवं वै कारणान्तरात् ॥ २० ॥

तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ २१ ॥

तत्र स्थितो ऽपि यः कश्चित् पितॄन् स्मरति पुण्यकृत् ।
विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गम् आप्नुयुः ॥ २२ ॥