078

Summary (SA)

Chapter 78- Descent of the Bhāgīrathī Gaṅgā

{{Ref- SS 141-143}}

नारद उवाच-

द्विविधा सैव गदिता एकापि सुरसत्तम ।
एको भेदस् तु कथितो ब्राह्मणेनाहृतो यतः ॥ १ ॥

क्षत्रियेणापरो ऽप्य् अंशो जटास्व् एव व्यवस्थितः ।
भवस्य देवदेवस्य आहृतस् तद् वदस्व मे ॥ २ ॥

ब्रह्मोवाच-

वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः ।
पुरा वै सगरो नाम राजासीद् अतिधार्मिकः ॥ ३ ॥

यज्वा दानपरो नित्यं धर्माचारविचारवान् ।
तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम् ॥ ४ ॥

तस्य वै सन्ततिर् नाभूद् इति चिन्तापरो ऽभवत् ।
वसिष्ठं गृहम् आहूय सम्पूज्य विधिवत् ततः ॥ ५ ॥

उवाच वचनं राजा सन्ततेः कारणं प्रति ।
इति तद्वचनं श्रुत्वा ध्यात्वा राजानम् अब्रवीत् ॥ ६ ॥

वसिष्ठ उवाच-

सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव ॥ ७ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा स मुनिर् विप्र यथास्थानं जगाम ह ।
एकदा तस्य राजर्षेर् गृहम् आगात् तपोनिधिः ॥ ८ ॥

तस्यर्षेः पूजनं चक्रे स सन्तुष्टो ऽब्रवीद् वचम् ।
वरं ब्रूहि महाभागेत्य् उक्ते पुत्रान् स चावृणोत् ॥ ९ ॥

स मुनिः प्राह राजानम् एकस्यां वंशधारकः ।
पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ १० ॥

वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः ।
स यज्ञान् सुबहूंश् चक्रे हयमेधान् सुदक्षिणान् ॥ ११ ॥

एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः ।
पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे ॥ १२ ॥

क्वचिद् अन्तरम् आसाद्य हयं जह्रे शतक्रतुः ।
मार्गमाणाश् च ते पुत्रा नैवापश्यन् हयं तदा ॥ १३ ॥

सहस्राणां तथा षष्टिर् नानायुद्धविशारदाः ।
तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ १४ ॥

प्रोक्षितं तद् धयं नीत्वा ते रसातलम् आगमन् ।
राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः ॥ १५ ॥

न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः ।
इतश् चेतश् चरन्तस् ते नैवापश्यन् हयं तदा ॥ १६ ॥

देवलोकं तदा जग्मुः पर्वतांश् च सरांसि च ।
वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा ॥ १७ ॥

कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः ।
अदृष्ट्वा तु पशुं रम्यं राजा चिन्ताम् उपेयिवान् ॥ १८ ॥

अटन्तः सागराः सर्वे देवलोकम् उपागमन् ।
हयं तम् अनुचिन्वन्तस् तत्रापि न हयो ऽभवत् ॥ १९ ॥

ततो महीं समाजग्मुः पर्वतांश् च वनानि च ।
तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ २० ॥

एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा ।
रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ २१ ॥

इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् ।
अखनन् पृथिवीं सर्वां परितः सागरास् ततः ॥ २२ ॥

ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस् त्व् अहर्निशम् ।
न्यखनंश् चापि जग्मुश् च सत्वरास् ते रसातलम् ॥ २३ ॥

तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् ।
श्रुत्वा रक्षांसि सन्त्रस्ता व्यगमन् कपिलान्तिकम् ॥ २४ ॥

कपिलो ऽपि महाप्राज्ञस् तत्र शेते रसातले ।
पुरा च साधितं तेन देवानां कार्यम् उत्तमम् ॥ २५ ॥

विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति ।
अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ ॥ २६ ॥

रसातलं ददुस् तस्मै पुनर् आह सुरान् मुनिः ।
यो माम् उत्थापयेन् मन्दो भस्मी भूयाच् च सत्वरम् ॥ २७ ॥

ततः शये तलगतो नो चेन् न स्वप्न एव हि ।
तथेत्य् उक्तः सुरगणैस् तत्र शेते रसातले ॥ २८ ॥

तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः ।
सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ २९ ॥

विना युद्धेन ते भीता राक्षसाः सत्वरास् तदा ।
आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ ३० ॥

शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः ।
दूरे स्थित्वा मौनिनश् च प्रेक्षन्तः किं भवेद् इति ॥ ३१ ॥

ततस् तु सागराः सर्वे निर्विशन्तो रसातलम् ।
ददृशुस् ते हयं बद्धं शयानं पुरुषं तथा ॥ ३२ ॥

तं मेनिरे च हर्तारं क्रतुहन्तारम् एव च ।
एनं हत्वा महापापं नयामो ऽश्वं नृपान्तिकम् ॥ ३३ ॥

केचिद् ऊचुः पशुं बद्धं नयामो ऽनेन किं फलम् ।
तदाहुर् अपरे शूरा राजानः शासका वयम् ॥ ३४ ॥

उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा ।
ते तं जघ्नुर् मुनिं पादैर् ब्रुवन्तो निष्ठुराणि च ॥ ३५ ॥

ततः कोपेन महता कपिलो मुनिसत्तमः ।
सागरान् ईक्षयाम् आस तान् कोपाद् भस्मसात् करोत् ॥ ३६ ॥

जज्वलुस् ते ततस् तत्र सागराः सर्व एव हि ।
तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥ ३७ ॥

नारदः कथयाम् आस सगराय महात्मने ।
कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥ ३८ ॥

राक्षसानां तु विकृतिं सागराणां च नाशनम् ।
ततश् चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥ ३९ ॥

अपरो ऽपि सुतश् चासीद् असमञ्जा इति श्रुतः ।
स तु बालांस् तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि ॥ ४० ॥

सगरो ऽप्य् अथ विज्ञप्तः पौरैः सम्मिलितैस् तदा ।
दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धो ऽब्रवीन् नृपः ॥ ४१ ॥

स्वान् अमात्यांस् तदा राजा देशत्यागं करोत्व् अयम् ।
असमञ्जाः क्षत्रधर्मत्यागी वै बालघातकः ॥ ४२ ॥

सगरस्य तु तद् वाक्यं श्रुत्वामात्यास् त्वरान्विताः ।
तत्यजुर् नृपतेः पुत्रम् असमञ्जा गतो वनम् ॥ ४३ ॥

सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले ।
एको ऽपि च वनं प्राप्त इदानीं का गतिर् मम ॥ ४४ ॥

अंशुमान् इति विख्यातः पुत्रस् तस्यासमञ्जसः ।
आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥ ४५ ॥

कपिलं च समाराध्य अंशुमान् अपि बालकः ।
सगराय हयं प्रादात् ततः पूर्णो ऽभवत् क्रतुः ॥ ४६ ॥

तस्यापि पुत्रस् तेजस्वी दिलीप इति धार्मिकः ।
तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः ॥ ४७ ॥

पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः ।
सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥ ४८ ॥

सागराणां तु सर्वेषां निष्कृतिस् तु कथं भवेत् ।
भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥ ४९ ॥

तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् ।
कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥ ५० ॥

स मुनिस् तु चिरं ध्यात्वा तपसाराध्य शङ्करम् ।
जटाजलेन स्वपितॄन् आप्लाव्य नृपसत्तम ॥ ५१ ॥

ततः कृतार्थो भविता त्वं च ते पितरस् तथा ।
तथा करोमीति मुनिं प्रणम्य पुनर् अब्रवीत् ॥ ५२ ॥

क्व गच्छे ऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद ॥ ५३ ॥

कपिल उवाच-

कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् ।
तपः कुरु यथाशक्ति ततश् चेप्सितम् आप्स्यसि ॥ ५४ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा स मुनेर् वाक्यं मुनिं नत्वा त्व् अगान् नगम् ।
कैलासं स शुचिर् भूत्वा बालो बालक्रियान्वितः ।
तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥ ५५ ॥

भगीरथ उवाच-

बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो ।
नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ ५६ ॥

वाग्भिर् मनोभिः कृतिभिः कदाचिन् ।
ममोपकुर्वन्ति हिते रता ये ।
तेभ्यो हितार्थं त्व् इह चामरेश ।
सोमं नमस्यामि सुरादिपूज्यम् ॥ ५७ ॥

उत्पादितो यैर् अभिवर्धितश् च ।
समानगोत्रश् च समानधर्मा ।
तेषाम् अभीष्टानि शिवः करोतु ।
बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् ॥ ५८ ॥

ब्रह्मोवाच-

एवं तु ब्रुवतस् तस्य पुरस्ताद् अभवच् छिवः ।
वरेण च्छन्दयानो वै भगीरथम् उवाच ह ॥ ५९ ॥

शिव उवाच-

यन् न साध्यं सुरगणैर् देयं तत् ते मया ध्रुवम् ।
वदस्व निर्भयो भूत्वा भगीरथ महामते ॥ ६० ॥

ब्रह्मोवाच-

भगीरथः प्रणम्येशं हृष्टः प्रोवाच शङ्करम् ॥ ६१ ॥

भगीरथ उवाच-

जटास्थितां पितॄणां मे पावनाय सरिद्वराम् ।
ताम् एव देहि देवेश सर्वम् आप्तं ततो भवेत् ॥ ६२ ॥

ब्रह्मोवाच-

महेशो ऽपि विहस्याथ भगीरथम् उवाच ह ॥ ६३ ॥

शिव उवाच-

दत्ता मयेयं ते पुत्र पुनस् तां स्तुहि सुव्रत ॥ ६४ ॥

ब्रह्मोवाच-

तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् ।
स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥ ६५ ॥

तस्या अपि प्रसादं च प्राप्य बालो ऽप्य् अबालवत् ।
गङ्गां महेश्वरात् प्राप्ताम् आदायागाद् रसातलम् ॥ ६६ ॥

न्यवेदयत् स मुनये कपिलाय महात्मने ।
यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥ ६७ ॥

प्रदक्षिणम् अथावर्त्य कृताञ्जलिपुटो ऽब्रवीत् ॥ ६८ ॥

भगीरथ उवाच-

देवि मे पितरः शापात् कपिलस्य महामुनेः ।
प्राप्तास् ते विगतिं मातस् तस्मात् तान् पातुम् अर्हसि ॥ ६९ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा सुरनदी सर्वेषाम् उपकारिका ।
लोकानाम् उपकारार्थं पितॄणां पावनाय च ॥ ७० ॥

अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः ।
स्मरणाद् एव पापानां नाशाय सुरनिम्नगा ॥ ७१ ॥

भगीरथोदितं चक्रे रसातलतले स्थितान् ।
भस्मीभूतान् नृपसुतान् सागरांश् च विशेषतः ॥ ७२ ॥

विनिर्दग्धान् अथाप्लाव्य खातपूरम् अथाकरोत् ।
ततो मेरुं समाप्लाव्य स्थितां बालो ऽब्रवीन् नृपः ॥ ७३ ॥

कर्मभूमौ त्वया भाव्यं तथेत्य् आगाद् धिमालयम् ।
हिमवत्पर्वतात् पुण्याद् भारतं वर्षम् अभ्यगात् ॥ ७४ ॥

तन्मध्यतः पुण्यनदी प्रायात् पूर्वार्णवं प्रति ।
एवम् एषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥ ७५ ॥

माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी ।
भागीरथी देवनदी हिमवच्छिखराश्रया ॥ ७६ ॥

महेश्वरजटावारि एवं द्वैविध्यम् आगतम् ।
विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते ।
उत्तरे सापि विन्ध्यस्य भागीरथ्य् अभिधीयते ॥ ७७ ॥