Summary (SA)
Chapter 77- Śiva’s account of the Gautamī Gaṅgā
{{Ref- SS 140-141}}
ब्रह्मोवाच-
त्र्यम्बकश् च इति प्राह गौतमं मुनिभिर् वृतम् ॥ १ ॥
शिव उवाच-
द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम ।
सर्वत्राहं सन्निहितः सर्वकामप्रदस् तथा ॥ २ ॥
ब्रह्मोवाच-
गङ्गाद्वारे प्रयागे च तथा सागरसङ्गमे ।
एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ ३ ॥
नर्मदा तु सरिच्छ्रेष्ठा पर्वते ऽमरकण्टके ।
यमुना सङ्गता तत्र प्रभासे तु सरस्वती ॥ ४ ॥
कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद ।
तिसृणां सङ्गमो यत्र तत् तीर्थं मुक्तिदं नृणाम् ॥ ५ ॥
पयोउष्णी सङ्गता यत्र तत्रत्या तच् च मुक्तिदम् ।
इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ ६ ॥
सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति ।
किञ्चित्काले पुण्यतमं किञ्चित्तीर्थं सुरागमे ॥ ७ ॥
सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः ।
तिस्रः कोट्यो ऽर्धकोटी च योजनानां शतद्वये ॥ ८ ॥
तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम ।
इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ ९ ॥
ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी ।
ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ १० ॥
स्मरणाद् एव पापौघहन्त्री मम सदा प्रिया ।
पञ्चानाम् अपि भूतानाम् आपः श्रेष्ठत्वम् आगताः ॥ ११ ॥
तत्रापि तीर्थभूतास् तु तस्माद् आपः पराः स्मृताः ।
तासां भागीरथी श्रेष्ठा ताभ्यो ऽपि गौतमी तथा ॥ १२ ॥
आनीता सजटा गङ्गा अस्या नान्यच् छुभावहम् ।
स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ १३ ॥
ब्रह्मोवाच-
इत्य् एतत् कथितं पुत्र गौतमाय महात्मने ।
साक्षाद् धरेण तुष्टेन मया तव निवेदितम् ॥ १४ ॥
एवं सा गौतमी गङ्गा सर्वेभ्यो ऽप्य् अधिका मता ।
तत्स्वरूपं च कथितं कुतो ऽन्या श्रवणस्पृहा ॥ १५ ॥