Summary (SA)
Chapter 76- The Gautamī Gaṅgā on earth
{{Ref- SS 139-140}}
नारद उवाच-
महेश्वरजटाजुटाद् गङ्गाम् आदाय गौतमः ।
आगत्य ब्रह्मणः पुण्ये ततः किम् अकरोद् गिरौ ॥ १ ॥
ब्रह्मोवाच-
आदाय गौतमो गङ्गां शुचिः प्रयतमानसः ।
पूजितो देवगन्धर्वैस् तथा गिरिनिवासिभिः ॥ २ ॥
गिरेर् मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् ।
उवाच प्राञ्जलिर् भूत्वा गङ्गां स द्विजसत्तमः ॥ ३ ॥
गौतम उवाच-
त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि ।
क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ ४ ॥
ब्रह्मोवाच-
एवम् उक्ता गौतमेन गङ्गा प्रोवाच गौतमम् ।
दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ ५ ॥
गङ्गोवाच-
गच्छेयं देवसदनम् अथवापि कमण्डलुम् ।
रसातलं वा गच्छेयं जातस् त्वं सत्यवाग् असि ॥ ६ ॥
गौतम उवाच-
त्रयाणाम् उपकारार्थं लोकानां याचिता मया ।
शम्भुना च तथा दत्ता देवि तन् नान्यथा भवेत् ॥ ७ ॥
ब्रह्मोवाच-
तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् ।
त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ ८ ॥
स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले ।
रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ ९ ॥
सर्वत्र सर्वभूतैव सर्वपापविनाशिनी ।
सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ १० ॥
मर्त्या मर्त्यगताम् एव पश्यन्ति न तलं गताम् ।
नैव स्वर्गगतां मर्त्याः पश्यन्त्य् अज्ञानबुद्धयः ॥ ११ ॥
यावत् सागरगा देवी तावद् देवमयी स्मृता ।
उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति ॥ १२ ॥
ततो देवर्षिभिर् जुष्टां मातरं जगतः शुभाम् ।
गौतमो मुनिशार्दूलः प्रदक्षिणम् अथाकरोत् ॥ १३ ॥
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः ।
उभयोस् तीरयोः स्नानं करोमीति दधे मतिम् ॥ १४ ॥
स्मृतमात्रस् तदा तत्र आविरासीत् करुणार्णवः ।
तत्र स्नानं कथं सिध्येद् इत्य् एवं शर्वम् अब्रवीत् ॥ १५ ॥
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस् त्रिलोचनम् ॥ १६ ॥
गौतम उवाच-
देवदेव महेशान तीर्थस्नानविधिं मम ।
ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया ॥ १७ ॥
शिव उवाच-
महर्षे शृणु सर्वं च विधिं गोदावरीभवम् ।
पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ १८ ॥
ब्राह्मणान् भोजयित्वा च तेषाम् आज्ञां प्रगृह्य च ।
ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ १९ ॥
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ।
विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥ २० ॥
भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः ।
श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम् ॥ २१ ॥
अकिञ्चनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् ।
शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् ।
अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत् ॥ २२ ॥