075

Summary (SA)

Chapter 75- Gautama’s hymn to Śiva

{{Ref- SS 138-139}}

नारद उवाच-

कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः ।
किं चकार तपो वापि कां चक्रे स्तुतिम् उत्तमाम् ॥ १ ॥

ब्रह्मोवाच-

गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः ।
आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे ॥ २ ॥

उपविश्य शुचिर् भूत्वा स्तोत्रं चेदं ततो जगौ ।
अपतत् पुष्पवृष्टिश् च स्तूयमाने महेश्वरे ॥ ३ ॥

गौतम उवाच-

भोगार्थिनां भोगम् अभीप्सितं च ।
दातुं महान्त्य् अष्टवपूंषि धत्ते ।
सोमो जनानां गुणवन्ति नित्यं ।
देवं महादेवम् इति स्तुवन्ति ॥ ४ ॥

कर्तुं स्वकीयैर् विषयैः सुखानि ।
भर्तुं समस्तं सचराचरं च ।
सम्पत्तये ह्य् अस्य विवृद्धये च ।
महीमयं रूपम् इतीश्वरस्य ॥ ५ ॥

सृष्टेः स्थितेः संहरणाय भूमेर् ।
आधारम् आधातुम् अपां स्वरूपम् ।
भेजे शिवः शान्ततनुर् जनानां ।
सुखाय धर्माय जगत् प्रतिष्ठितम् ॥ ६ ॥

कालव्यवस्थाम् अमृतस्रवं च ।
जीवस्थितिं सृष्टिम् अथो विनाशनम् ।
मुदं प्रजानां सुखम् उन्नतिं च ।
चक्रे ऽर्कचन्द्राग्निमयं शरीरम् ॥ ७ ॥

वृद्धिं गतिं शक्तिम् अथाक्षराणि ।
जीवव्यवस्थां मुदम् अप्य् अनेकाम् ।
स्रष्टुं कृतं वायुर् इतीशरूपं ।
त्वं वेत्सि नूनं भगवन् भवन्तम् ॥ ८ ॥

भेदैर् विना नैव कृतिर् न धर्मो ।
नात्मीयम् अन्यन् न दिशो ऽन्तरिक्षम् ।
द्यावापृथिव्यौ न च भुक्तिमुक्ती ।
तस्माद् इदं व्योमवपुस् तवेश ॥ ९ ॥

धर्मं व्यवस्थापयितुं व्यवस्य ।
ऋक्सामशास्त्राणि यजुश् च शाखाः ।
लोके च गाथाः स्मृतयः पुराणम् ।
इत्यादिशब्दात्मकताम् उपैति ॥ १० ॥

यष्टा क्रतुर् यान्य् अपि साधनानि ।
ऋत्विक्प्रदेशं फलदेशकालाः ।
त्वम् एव शम्भो परमार्थतत्त्वं ।
वदन्ति यज्ञाङ्गमयं वपुस् ते ॥ ११ ॥

कर्ता प्रदाता प्रतिभूः प्रदानं ।
सर्वज्ञसाक्षी पुरुषः परश् च ।
प्रत्यात्मभूतः परमार्थरूपस् ।
त्वम् एव सर्वं किम् उ वाग्विलासैः ॥ १२ ॥

न वेदशास्त्रैर् गुरुभिः प्रदिष्टो ।
न नासि बुद्ध्यादिभिर् अप्रधृष्यः ।
अजो ऽप्रमेयः शिवशब्दवाच्यस् ।
त्वम् अस्ति सत्यं भगवन् नमस् ते ॥ १३ ॥

आत्मैकतां स्वप्रकृतिं कदाचिद् ।
ऐक्षच् छिवः सम्पद् इयं ममेति ।
अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ १४ ॥

भावे ऽभिवृद्धा च भवे भवे च ।
स्वकारणं कारणम् आस्थिता च ।
नित्या शिवा सर्वसुलक्षणा वा ।
विलक्षणा विश्वकरस्य शक्तिः ॥ १५ ॥

लयाः सतां यत्र सनातनास् ते ।
एकैव मूर्तिर् न समस्ति किञ्चिद् ।
असाध्यम् अस्या दयिता हरस्य ॥ १६ ॥

यदर्थम् अन्नानि धनानि जीवा ।
यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
सापीयम् अम्बा जगतो जनित्री ।
प्रिया तु सोमस्य महासुकीर्तिः ॥ १७ ॥

यद् ईक्षितं काङ्क्षति वासवो ऽपि ।
यन्नामतो मङ्गलम् आप्नुयाच् च ।
या व्याप्य विश्वं विमलीकरोति ।
सोमा सदा सोमसमानरूपा ॥ १८ ॥

ब्रह्मादिजीवस्य चराचरस्य ।
बुद्ध्यक्षिचैतन्यमनःसुखानि ।
यस्याः प्रसादात् फलवन्ति नित्यं ।
वागीश्वरी लोकगुरोः सुरम्या ॥ १९ ॥

चतुर्मुखस्यापि मनो मलीनं ।
किम् अन्यजन्तोर् इति चिन्त्य माता ।
गङ्गावतारं विविधैर् उपायैः ।
सर्वं जगत् पावयितुं चकार ॥ २० ॥

श्रुतीः समालक्ष्य हरप्रभुत्वं ।
विश्वस्य लोकः सकलैः प्रमाणैः ।
कृत्वा च धर्मान् बुभुजे च भोगान् ।
विभूतिर् एषा तु सदाशिवस्य ॥ २१ ॥

कार्यक्रियाकारकसाधनानां ।
वेदोदितानाम् अथ लौकिकानाम् ।
यत् साध्यम् उत्कृष्टतमं प्रियं च ।
प्रोक्ता च सा सिद्धिर् अनादिकर्तुः ॥ २२ ॥

ध्यात्वा वरं ब्रह्म परं प्रधानं ।
यत् सारभूतं यद् उपासितव्यम् ।
यत् प्राप्य मुक्ता न पुनर् भवन्ति ।
सद्योगिनो मुक्तिर् उमापतिः सः ॥ २३ ॥

रूपाणि धत्ते जगतो हिताय ।
तद्योगयोग्यानि तथैव धत्से ।
पतिव्रतात्वं त्वयि मातर् एवम् ॥ २४ ॥

ब्रह्मोवाच-

इत्य् एवं स्तुवतस् तस्य पुरस्ताद् वृषभध्वजः ।
उमया सहितः श्रीमान् गणेशादिगणैर् वृतः ॥ २५ ॥

साक्षाद् आगत्य तं शम्भुः प्रसन्नो वाक्यम् अब्रवीत् ॥ २६ ॥

शिव उवाच-

किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः ।
परितुष्टो ऽस्मि याचस्व देवानाम् अपि दुष्करम् ॥ २७ ॥

ब्रह्मोवाच-

इति श्रुत्वा जगन्मूर्तेर् वाक्यं वाक्यविशारदः ।
हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ २८ ॥

अहो दैवम् अहो धर्मो ह्य् अहो वै विप्रपूजनम् ।
अहो लोकगतिश् चित्रा अहो धातर् नमो ऽस्तु ते ॥ २९ ॥

गौतम उवाच-

जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित ।
यदि तुष्टो ऽसि देवेश त्रयीधाम नमो ऽस्तु ते ॥ ३० ॥

ईश्वर उवाच-

त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया ।
आत्मनस् तूपकाराय तद् याचस्वाकुतोभयः ॥ ३१ ॥

गौतम उवाच-

स्तोत्रेणानेन ये भक्तास् त्वां च देवीं स्तुवन्ति वै ।
सर्वकामसमृद्धाः स्युर् एतद् धि वरयाम्य् अहम् ॥ ३२ ॥

ब्रह्मोवाच-

एवम् अस्त्व् इति देवेशः परितुष्टो ऽब्रवीद् वचः ।
अन्यान् अपि वरान् मत्तो याचस्व विगतज्वरः ॥ ३३ ॥

एवम् उक्तस् तु हर्षेण गौतमः प्राह शङ्करम् ॥ ३४ ॥

गौतम उवाच-

इमां देवीं जटासंस्थां पावनीं लोकपावनीम् ।
तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥ ३५ ॥

सर्वासां तीर्थभूता तु यावद् गच्छति सागरम् ।
ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च ॥ ३६ ॥

स्नानमात्रेण सर्वाणि विलयं यान्तु शङ्कर ।
चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥ ३७ ॥

सङ्क्रान्तौ वैधृतौ पुण्यतीर्थेष्व् अन्येषु यत् फलम् ।
अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ३८ ॥

श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च ।
द्वापरे यज्ञदाने च दानम् एव कलौ युगे ॥ ३९ ॥

युगधर्माश् च ये सर्वे देशधर्मास् तथैव च ।
देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥ ४० ॥

यद् अन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः ।
अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ४१ ॥

यत्र यत्र त्व् इयं याति यावत् सागरगामिनी ।
तत्र तत्र त्वया भाव्यम् एष चास्तु वरो वरः ॥ ४२ ॥

योजनानां तूपरि तु दश यावच् च सङ्ख्यया ।
तदन्तरप्रविष्टानां महापातकिनाम् अपि ॥ ४३ ॥

तत् पितॄणां च तेषां च स्नानायागच्छतां शिव ।
स्नाने चाप्य् अन्तरे मृत्योर् मुक्तिभाजो भवन्तु वै ॥ ४४ ॥

एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले ।
एषा तेभ्यो विशिष्टा तु अलं शम्भो नमो ऽस्तु ते ॥ ४५ ॥

ब्रह्मोवाच-

तद् गौतमवचः श्रुत्वा तथास्त्व् इत्य् अब्रवीच् छिवः ।
अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥ ४६ ॥

सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् ।
सर्वेषां गौतमी पुण्या इत्य् उक्त्वान्तरधीयत ॥ ४७ ॥

ततो गते भगवति लोकपूजिते ।
तदाज्ञया पूर्णबलः स गौतमः ।
जटां समादाय सरिद्वरां तां ।
सुरैर् वृतो ब्रह्मगिरिं विवेश ॥ ४८ ॥

ततस् तु गौतमे प्राप्ते जटाम् आदाय नारद ।
पुष्पवृष्टिर् अभूत् तत्र समाजग्मुः सुरेश्वराः ॥ ४९ ॥

ऋषयश् च महाभागा ब्राह्मणाः क्षत्रियास् तथा ।
जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः ॥ ५० ॥