Summary (SA)
Chapter 74- Gaṇeśa’s device to make Gautama bring down the Gaṅgā
{{Ref- SS 135-138}}
नारद उवाच-
कमण्डलुस्थिता देवी महेश्वरजटागता ।
श्रुता देव यथा मर्त्यम् आगता तद् ब्रवीतु मे ॥ १ ॥
ब्रह्मोवाच-
महेश्वरजटास्था या आपो देव्यो महामते ।
तासां च द्विविधो भेद आहर्तुर् द्वयकारणात् ॥ २ ॥
एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना ।
गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ ३ ॥
अपरस् तु महाप्राज्ञ क्षत्रियेण बलीयसा ।
आराध्य शङ्करं देवं तपोभिर् नियमैस् तथा ॥ ४ ॥
भगीरथेन भूपेन आहृतो ऽंशो अपरस् तथा ।
एवं द्वैरूप्यम् अभवद् गङ्गाया मुनिसत्तम ॥ ५ ॥
नारद उवाच-
महेश्वरजटास्था या हेतुना केन गौतमः ।
आहर्ता क्षत्रियेणापि आहृता केन तद् वद ॥ ६ ॥
ब्रह्मोवाच-
यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा ।
तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ ७ ॥
यस्मिन् काले सुरेशस्य उमा पत्न्य् अभवत् प्रिया ।
तस्मिन्न् एवाभवद् गङ्गा प्रिया शम्भोर् महामते ॥ ८ ॥
मम दोषापनोदाय चिन्तयानः शिवस् तदा ।
उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः ॥ ९ ॥
रसवृत्तौ स्थितो यस्मान् निर्ममे रसम् उत्तमम् ।
रसिकत्वात् प्रियत्वाच् च स्त्रैणत्वात् पावनत्वतः ॥ १० ॥
सर्वाभ्यो ह्य् अधिकप्रीतिर् गङ्गाभूद् द्विजसत्तम ।
सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे ।
स तु सङ्गोपयाम् आस गङ्गां शम्भुर् जटागताम् ॥ १२ ॥
शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा ।
सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ १३ ॥
अमर्षेण भवं गोरी प्रेरयस्वेत्य् अभाषत ।
नैवासौ प्रैरयच् छम्भू रसिको रसम् उत्तमम् ॥ १४ ॥
जटास्व् एव तदा देवीं गोपायन्तं विमृश्य सा ।
विनायकं जयां स्कन्दं रहो वचनम् अब्रवीत् ॥ १५ ॥
नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः ।
सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ १६ ॥
एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ १७ ॥
पार्वत्य् उवाच-
न देवैर् नासुरैर् यक्षैर् न सिद्धैर् भवतापि च ।
न राजभिर् अथान्यैर् वा न गङ्गां त्यजति प्रभुः ॥ १८ ॥
पुनस् तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् ।
अथवा ब्राह्मणैः पुण्यैस् तपोभिर् हतकल्मषैः ॥ १९ ॥
तैर् वा जटास्थिता गङ्गा प्रार्थिता भुवम् आप्नुयात् ॥ २० ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् ।
भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ २१ ॥
तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता ।
एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिर् अजायत ॥ २२ ॥
द्विर् द्वादश समा मर्त्ये सर्वप्राणिभयावहा ।
ततो विनष्टम् अभवज् जगत् स्थावरजङ्गमम् ॥ २३ ॥
विना तु गौतमं पुण्यम् आश्रमं सर्वकामदम् ।
स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ २४ ॥
कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः ।
मन्नामा तत्र विख्यातस् ततो ब्रह्मगिरिः सदा ॥ २५ ॥
तम् आश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः ।
तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ २६ ॥
आधयो व्याधयो वापि दुर्भिक्षं वाप्य् अवर्षणम् ।
भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ २७ ॥
तदाश्रमं विनान्यत्र हव्यं वा कव्यम् एव च ।
नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ २८ ॥
यदैव गौतमो विप्रो ददाति च जुहोति च ।
तदैवाप्य् अयनं स्वर्गे सुराणाम् अपि नान्यतः ॥ २९ ॥
देवलोके ऽपि मर्त्ये वा श्रूयते गौतमो मुनिः ।
होता दाता च भोक्ता च स एवेति जना विदुः ॥ ३० ॥
तच् छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः ।
गौतमाश्रमम् आपृच्छन्न् आगच्छन्तस् तपोधनाः ॥ ३१ ॥
तेषां मुनीनां सर्वेषाम् आगतानां स गौतमः ।
शिष्यवत् पुत्रवद् भक्त्या पितृवत् पोषको ऽभवत् ॥ ३२ ॥
यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् ।
यथानुरूपं सर्वेषां शुश्रूषाम् अकरोन् मुनिः ॥ ३३ ॥
आज्ञया गौतमस्यासन्न् ओषध्यो लोकमातरः ।
आराधिताः पुनस् तेन ब्रह्मविष्णुमहेश्वराः ॥ ३४ ॥
जायन्ते च तदौषध्यो लूयन्ते च तदैव हि ।
सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात् ॥ ३५ ॥
सर्वाः समृद्धयस् तस्य संसिध्यन्ते मनोगताः ।
प्रत्यहं वक्ति विनयाद् गौतमस् त्व् आगतान् मुनीन् ॥ ३६ ॥
पुत्रवच् छिष्यवच् चैव प्रेष्यवत् करवाणि किम् ।
पितृवत् पोषयाम् आस संवत्सरगणान् बहून् ॥ ३७ ॥
एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिर् आश्रयात् ।
ततो विनायकः प्राह मातरं भ्रातरं जयाम् ॥ ३८ ॥
विनायक उवाच-
देवानां सदने मातर् गीयते गौतमो द्विजः ।
यन् न साध्यं सुरगणैर् गौतमः कृतवान् इति ॥ ३९ ॥
एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् ।
स विप्रश् चालयेद् एनां मातर् गङ्गां जटागताम् ॥ ४० ॥
तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् ।
स एव च्यावयेद् एनां जटास्थां मे पितृप्रियाम् ॥ ४१ ॥
तत्र नीतिर् विधातव्या तां विप्रो याचयेद् यथा ।
तत्प्रभावात् सरिच्छ्रेष्ठा शिरसो ऽवतरत्य् अपि ॥ ४२ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् ।
जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः ॥ ४३ ॥
वसन् कतिपयाहःसु गौतमाश्रममण्डले ।
उवाच ब्राह्मणान् सर्वांस् तत्र तत्र च विघ्नराट् ॥ ४४ ॥
गच्छामः स्वम् अधिष्ठानम् आश्रमाणि शुचीनि च ।
पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम् ॥ ४५ ॥
इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः ।
स तान् निवारयाम् आस स्नेहबुद्ध्या मुनीन् पृथक् ॥ ४६ ॥
गौतम उवाच-
कृताञ्जलिः सविनयम् आसध्वम् इह चैव हि ।
युष्मच्चरणशुश्रूषां करोमि मुनिपुङ्गवाः ॥ ४७ ॥
शुश्रूषौ पुत्रवन् नित्यं मयि तिष्ठति नोचितम् ।
भवतां भूमिदेवानाम् आश्रमान्तरसेवनम् ॥ ४८ ॥
इदम् एवाश्रमं पुण्यं सर्वेषाम् इति मे मतिः ।
अलम् अन्येन मुनय आश्रमेण गतेन वा ॥ ४९ ॥
ब्रह्मोवाच-
इति श्रुत्वा मुनेर् वाक्यं विघ्नकृत्यम् अनुस्मरन् ।
उवाच प्राञ्जलिर् भूत्वा ब्राह्मणान् स गणाधिपः ॥ ५० ॥
गणाधिप उवाच-
अन्नक्रीता वयं किं नो निवारयत गौतमः ।
साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम् ॥ ५१ ॥
नायम् अर्हति दण्डं वा उपकारी द्विजोत्तमः ।
तस्माद् बुद्ध्या व्यवस्यामि तत् सर्वैर् अनुमन्यताम् ॥ ५२ ॥
ब्रह्मोवाच-
ततः सर्वे द्विजश्रेष्ठाः क्रियताम् इत्य् अनुब्रुवन् ।
एतस्य तूपकाराय लोकानां हितकाम्यया ॥ ५३ ॥
ब्राह्मणानां च सर्वेषां श्रेयो यत् स्यात् तथा कुरु ।
ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः ॥ ५४ ॥
विनायक उवाच-
क्रियते गुणरूपं यद् गौतमस्य विशेषतः ॥ ५५ ॥
ब्रह्मोवाच-
अनुमान्य द्विजान् सर्वान् पुनः पुनर् उदारधीः ।
स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान् पुनः ।
मातुर् मते स्थितो विद्वाञ् जयां प्राह गणेश्वरः ॥ ५६ ॥
विनायक उवाच-
यथा नान्यो विजानीते तथा कुरु शुभानने ।
गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति ॥ ५७ ॥
शालीन् खाद विनाश्याथ विकारं कुरु भामिनि ।
कृते प्रहारे हुङ्कारे प्रेक्षिते चापि किञ्चन ।
पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च ॥ ५८ ॥
ब्रह्मोवाच-
तथा चकार विजया विघ्नेश्वरमते स्थिता ।
यत्रासीद् गौतमो विप्रो जया गोरूपधारिणी ॥ ५९ ॥
जगाम शालीन् खादन्ती तां ददर्श स गौतमः ।
गां दृष्ट्वा विकृतां विप्रस् तां तृणेन न्यवारयत् ॥ ६० ॥
निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः ।
तस्यां तु पतितायां च हाहाकारो महान् अभूत् ॥ ६१ ॥
स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् ।
व्यथिता ब्राह्मणाः प्राहुर् विघ्नराजपुरस्कृताः ॥ ६२ ॥
ब्राह्मणा ऊचुः-
इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे ।
पुत्रवत् पोषिताः सर्वे पृष्टो ऽसि मुनिपुङ्गव ॥ ६३ ॥
ब्रह्मोवाच-
इति श्रुत्वा मुनिर् वाक्यं विप्राणां गच्छतां तदा ।
वज्राहत इवासीत् स विप्राणां पुरतो ऽपतत् ॥ ६४ ॥
तम् ऊचुर् ब्राह्मणाः सर्वे पश्येमां पतितां भुवि ।
रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम् ॥ ६५ ॥
तीर्थदेवस्वरूपिण्याम् अस्यां गवि विधेर् बलात् ।
पतितायां मुनिश्रेष्ठ गन्तव्यम् अवशिष्यते ॥ ६६ ॥
चीर्णं व्रतं क्षयं याति यथा वासस् त्वदाश्रमे ।
वयं नान्यधना ब्रह्मन् केवलं तु तपोधनाः ॥ ६७ ॥
ब्रह्मोवाच-
विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः ॥ ६८ ॥
गौतम उवाच-
भवन्त एव शरणं पूतं मां कर्तुम् अर्हथ ॥ ६९ ॥
ब्रह्मोवाच-
ततः प्रोवाच भगवान् विघ्नराड् ब्राह्मणैर् वृतः ॥ ७० ॥
विघ्नराज उवाच-
नैवेयं म्रियते तत्र नैव जीवति तत्र किम् ।
वदामो ऽस्मिन् सुसन्दिग्धे निष्कृतिं गतिम् एव वा ॥ ७१ ॥
गौतम उवाच-
कथम् उत्थास्यतीयं गौर् अथ चास्मिंश् च निष्कृतिम् ।
वक्तुम् अर्हथ तत् सर्वं करिष्ये ऽहम् असंशयम् ॥ ७२ ॥
ब्राह्मणा ऊचुः-
सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् ।
एतद् वाक्यम् अथास्माकं प्रमाणं तव गौतम ॥ ७३ ॥
ब्रह्मोवाच-
ब्राह्मणैः प्रेर्यमाणो ऽसौ गौतमेन बलीयसा ।
विघ्नकृद् ब्रह्मवपुषा प्राह सर्वान् इदं वचः ॥ ७४ ॥
विघ्नराज उवाच-
सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् ।
अनुमन्यन्तु मुनयो मद्वाक्यं गौतमो ऽपि च ॥ ७५ ॥
महेश्वरजटाजूटे ब्रह्मणो ऽव्यक्तजन्मनः ।
कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम ॥ ७६ ॥
तद् आनयस्व तरसा तपसा नियमेन च ।
तेनाभिषिञ्च गाम् एतां भगवन् भुवम् आश्रिताम् ।
ततो वत्स्यामहे सर्वे पूर्ववत् तव वेश्मनि ॥ ७७ ॥
ब्रह्मोवाच-
इत्य् उक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि ।
तत्रापतत् पुष्पवृष्टिर् जयशब्दो व्यवर्धत ।
ततः कृताञ्जलिर् नम्रो गौतमो वाक्यम् अब्रवीत् ॥ ७८ ॥
गौतम उवाच-
तपसाग्निप्रसादेन देवब्रह्मप्रसादतः ।
भवतां च प्रसादेन मत्सङ्कल्पो ऽनुसिध्यताम् ॥ ७९ ॥
ब्रह्मोवाच-
एवम् अस्त्व् इति तं विप्रा आपृच्छन् मुनिपुङ्गवम् ।
स्वानि स्थानानि ते जग्मुः समृद्धान्य् अन्नवारिभिः ॥ ८० ॥
यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः ।
जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत ॥ ८१ ॥
गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा ।
गौतमो ऽपि मुनिश्रेष्ठस् तपसा हतकल्मषः ॥ ८२ ॥
ध्यायंस् तदर्थं स मुनिः किम् इदं मम संस्थितम् ।
इत्य् एवं बहुशो ध्यायञ् ज्ञानेन ज्ञातवान् द्विज ॥ ८३ ॥
निश्चित्य देवकार्यार्थम् आत्मनः किल्बिषां गतिम् ।
लोकानाम् उपकारं च शम्भोः प्रीणनम् एव च ॥ ८४ ॥
उमायाः प्रीणनं चापि गङ्गानयनम् एव च ।
सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम् ॥ ८५ ॥
इत्य् एवं मनसा ध्यायन् सुप्रीतो ऽभूद् द्विजोत्तमः ।
आराध्य जगताम् ईशं त्रिनेत्रं वृषभध्वजम् ॥ ८६ ॥
आनयिष्ये सरिच्छ्रेष्ठां प्रीता ऽस्तु गिरिजा मम ।
सपत्नी जगदम्बाया महेश्वरजटास्थिता ॥ ८७ ॥
एवं हि सङ्कल्प्य मुनिप्रवीरः ।
स गौतमो ब्रह्मगिरेर् जगाम ।
कैलासम् आधिष्ठितम् उग्रधन्वना ।
सुरार्चितं प्रियया ब्रह्मवृन्दैः ॥ ८८ ॥