Summary (SA)
Chapter 73- Story fo Bali and Viṣṇu’s three steps (Vāmana-Avatāra)
{{Ref- SS 134-135}}
नारद उवाच-
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।
यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥ १ ॥
ब्रह्मोवाच-
बलिर् नाम महादैत्यो देवारिर् अपराजितः ।
धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ २ ॥
गुरुभक्त्या च सत्येन वीर्येण च बलेन च ।
त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ ३ ॥
तस्यर्द्धिम् उन्नतां दृष्ट्वा देवाश् चिन्तापरायणाः ।
मिथः समूचुर् अमरा जेष्यामो वै कथं बलिम् ॥ ४ ॥
तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् ।
नारयो व्याधयो वापि नाधयो वा कथञ्चन ॥ ५ ॥
अनावृष्टिर् अधर्मो वा नास्तिशब्दो न दुर्जनः ।
स्वप्ने ऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ ६ ॥
तस्योन्नतिशरैर् भग्नाः कीर्तिखड्गद्विधाकृताः ।
तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ ७ ॥
ततः सम्मन्त्रयाम् आसुः कृत्वा मात्सर्यम् अग्रतः ।
तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ ८ ॥
देवा ऊचुः-
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर ।
अस्मदर्थे भवान् नित्यम् आयुधानि बिभर्ति च ॥ ९ ॥
त्वयि नाथे जगन्नाथ अस्माकं दुःखम् ईदृशम् ।
त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ १० ॥
मनसा कर्मणा वाचा त्वाम् एव शरणं गताः ।
त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ११ ॥
यजामस् त्वां महायज्ञैर् वदामो वाग्भिर् अच्युत ।
त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ १२ ॥
त्वद्वीर्यम् आश्रिता नित्यं देवाः सेन्द्रपुरोगमाः ।
त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ १३ ॥
स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर् भूत्वा तु रक्षसि ।
संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ १४ ॥
ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् ।
हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ १५ ॥
अनादिस् त्वं जगद्धातर् अनन्तस् त्वं जगद्गुरुः ।
अन्तवन्तम् अमुं शत्रुं कथं दैत्यं नमेमहि ॥ १६ ॥
तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यम् ओजसा ।
स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ १७ ॥
ब्रह्मोवाच-
इत्य् एतद् एव वचनं श्रुत्वा दैतेयसूदनः ।
उवाच सर्वान् अमरान् देवानां कार्यसिद्धये ॥ १८ ॥
श्रीभगवान् उवाच-
मद्भक्तो ऽसौ बलिर् दैत्यो ह्य् अवध्यो ऽसौ सुरासुरैः ।
यथा भवन्तो मत्पोष्यास् तथा पोष्यो बलिर् मम ॥ १९ ॥
विना तु सङ्गरं देवा हत्वा राज्यं त्रिविष्टपे ।
बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्य् अहम् ॥ २० ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा सुरगणाः सञ्जग्मुर् दिवम् एव हि ।
भगवान् अपि देवेशो ह्य् अदित्या गर्भम् आविशत् ॥ २१ ॥
तस्मिन्न् उत्पद्यमाने तु उत्सवाश् च बभूविरे ।
जातो ऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः ॥ २२ ॥
एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः ।
बलिर् बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ २३ ॥
पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना ।
मखे तस्मिन् वर्तमाने यजमाने बलौ तथा ॥ २४ ॥
आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि ।
हविर्भागार्थम् आसन्नदेवगन्धर्वपन्नगे ॥ २५ ॥
दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् ।
परिपूर्णं पुनः पूर्णम् एवं वाक्ये प्रवर्तति ॥ २६ ॥
शनैस् तद्देशम् अभ्यागाद् वामनः सामगायनः ।
यज्ञवाटम् अनुप्राप्तो वामनश् चित्रकुण्डलः ॥ २७ ॥
प्रशंसमानस् तं यज्ञं वामनं प्रेक्ष्य भार्गवः ।
ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ २८ ॥
दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ।
ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम् ॥ २९ ॥
जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् ।
बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ ३० ॥
ध्यायन्तं यज्ञपुरुषम् उत्सृजन्तं हविः पृथक् ।
तम् आह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥ ३१ ॥
शुक्र उवाच-
यो ऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः ।
नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥ ३२ ॥
शिशुस् त्वां याचितुं प्राप्तो नूनं देवहिताय हि ।
मया च सह सम्मन्त्र्य पश्चाद् देयं त्वया प्रभो ॥ ३३ ॥
ब्रह्मोवाच-
बलिस् तु भार्गवं प्राह पुरोधसम् अरिन्दमः ॥ ३४ ॥
बलिर् उवाच-
धन्यो ऽहं मम यज्ञेशो गृहम् आयाति मूर्तिमान् ।
आगत्य याचते किञ्चित् किं मन्त्र्यम् अवशिष्यते ॥ ३५ ॥
ब्रह्मोवाच-
एवम् उक्त्वा सभार्यो ऽसौ शुक्रेण च पुरोधसा ।
जगाम यत्र विप्रेन्द्रो वामनो ऽदितिनन्दनः ॥ ३६ ॥
कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम् ।
वामनो ऽपि तदा प्राह पदत्रयमितां भुवम् ॥ ३७ ॥
देहि राजेन्द्र नान्येन कार्यम् अस्ति धनेन किम् ।
तथेत्य् उक्त्वा तु कलशान् नानारत्नविभूषितात् ॥ ३८ ॥
वारिधारां पुरस्कृत्य वामनाय भुवं ददौ ।
पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥ ३९ ॥
पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ ।
पश्यत्सु दैत्यसङ्घेषु जयशब्दे प्रवर्तति ॥ ४० ॥
शनैस् तु वामनः प्राह स्वस्ति राजन् सुखी भव ।
देहि मे सम्मितां भूमिं त्रिपदाम् आशु गम्यते ॥ ४१ ॥
तथेत्य् उवाच दैत्येशो यावत् पश्यति वामनम् ।
यज्ञेशो यज्ञपुरुषश् चन्द्रादित्यौ स्तनान्तरे ॥ ४२ ॥
यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः ।
अनन्तश् चाच्युतो देवो विक्रान्तो विक्रमाकृतिः ।
तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥ ४३ ॥
बलिर् उवाच-
क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय ।
जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥ ४४ ॥
ब्रह्मोवाच-
तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥ ४५ ॥
विष्णुर् उवाच-
दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥ ४६ ॥
ब्रह्मोवाच-
एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥ ४७ ॥
ब्रह्मोवाच-
कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् ।
द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥ ४८ ॥
तृतीयस्य पदस्यात्र स्थानं नास्त्य् असुरेश्वर ।
क्व क्रमिष्ये भुवं देहि बलिं तं हरिर् अब्रवीत् ।
विहस्य बलिर् अप्य् आह सभार्यः स कृताञ्जलिः ॥ ४९ ॥
बलिर् उवाच-
त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर ।
त्वद्दोषाद् अल्पम् अभवत् किं करोमि जगन्मय ॥ ५० ॥
तथापि नानृतपूर्वं कदाचिद् वच्मि केशव ।
सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस ॥ ५१ ॥
ब्रह्मोवाच-
ततः प्रसन्नो भगवांस् त्रयीमूर्तिः सुरार्चितः ॥ ५२ ॥
भगवान् उवाच-
वरं वृणीष्व भद्रं ते भक्त्या प्रीतो ऽस्मि दैत्यराट् ॥ ५३ ॥
ब्रह्मोवाच-
स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् ।
स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम् ॥ ५४ ॥
रसातलपतित्वं च भावि चेन्द्रपदं पुनः ।
आत्माधिपत्यं च हरिर् अविनाशि यशो विभुः ॥ ५५ ॥
एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् ।
रसातले हरिः स्थाप्य बलिं त्व् अमरवैरिणम् ॥ ५६ ॥
शतक्रतोस् तथा प्रादात् सुरराज्यं यथाभवम् ।
एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम् ॥ ५७ ॥
द्वितीयं तत् पदं विष्णोः पितुर् मम महामते ।
यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्य् अचिन्तयम् ॥ ५८ ॥
किं कृत्यं यच् छुभं मे स्यात् पदे विष्णोः समागते ।
सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः ॥ ५९ ॥
तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा ।
वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥ ६० ॥
शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् ।
मातृस्वरूपं लोकानाम् अमृतं भेषजं शुचि ॥ ६१ ॥
पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् ।
स्मरणाद् एव लोकानां पावनं किं नु दर्शनात् ॥ ६२ ॥
तादृग् वारि शुचिर् भूत्वा कल्पये ऽर्घाय मे पितुः ।
इति सञ्चिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम् ॥ ६३ ॥
विष्णोः पादे तु पतितम् अर्घवारि सुमन्त्रितम् ।
तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम् ॥ ६४ ॥
पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा ।
दक्षिणे यत् तु पतितं जटाभिः शङ्करो मुने ॥ ६५ ॥
जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम् ।
उत्तरे पतितं यत् तु विष्णुर् जग्राह तज् जलम् ॥ ६६ ॥
पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः ।
जगृहुः शुभदं वारि तस्माच् छ्रेष्ठं तद् उच्यते ॥ ६७ ॥
या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः ।
विष्णुपादप्रसूतास् ता ब्रह्मण्या लोकमातरः ॥ ६८ ॥
महेश्वरजटासंस्थाः पर्वजातशुभोदयाः ।
तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात् ॥ ६९ ॥