Summary (SA)
Chapter 72- Account of the events at the wedding-ceremony
{{Ref- SS 132-133}}
ब्रह्मोवाच-
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते ।
नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ १ ॥
नदीनदसरःकूपतडागादिभिर् आवृते ।
देवगन्धर्वयक्षादिसिद्धचारणसेविते ॥ २ ॥
शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे ।
मेरुमन्दरकैलासमैनाकादिनगैर् वृते ॥ ३ ॥
वसिष्ठागस्त्यपौलस्त्यलोमशादिभिर् आवृते ।
महोत्सवे वर्तमाने विवाहः समजायत ॥ ४ ॥
तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता ।
वज्रमाणिक्यवैदूर्यतन्मयस्तम्भशोभिता ॥ ५ ॥
जयालक्ष्मीशुभाक्षान्तिकीर्तिपुष्ट्यादिसंवृता ।
मेरुमन्दरकैलासरैवतैः परिशोभितैः ॥ ६ ॥
पूजितो लोकनाथेन विष्णुना प्रभविष्णुना ।
मैनाकः पर्वतश्रेष्ठो रेजे ऽतीव हिरण्मयः ॥ ७ ॥
ऋषयो लोकपालाश् च आदित्याः समरुद्गणाः ।
विवाहे वेदिकां चक्रुर् देवदेवस्य शूलिनः ॥ ८ ॥
विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् ।
सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ ९ ॥
आभिस् तु शोभितेशान्या विवाहः समजायत ।
समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ १० ॥
सवनस्पतिबीजाश् च सर्वे तत्र समाययुः ।
भुवः कर्म इला चक्रे ओषध्यस् त्व् अन्नकर्म च ॥ ११ ॥
वरुणः पानकर्माणि दानकर्म धनाधिपः ।
अग्निश् चकार तत्रान्नं यच् चेष्टं लोकनाथयोः ॥ १२ ॥
तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः ।
वेदाश् च सरहस्या वै गायन्ति च हसन्ति ॥ १३ ॥
नृत्यन्त्य् अप्सरसः सर्वा जगुर् गन्धर्वकिन्नराः ।
लाजाधृक् चापि मैनाको बभूव मुनिसत्तम ॥ १४ ॥
पुण्याहवाचनं वृत्तम् अन्तर्वेश्मनि नारद ।
वेदिकायाम् उपाविष्टौ दम्पती सुरसत्तमौ ॥ १५ ॥
प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक ।
हुत्वा लाजांश् च विधिवत् प्रदक्षिणम् अथाकरोत् ॥ १६ ॥
अश्मनः स्पर्शहेतोश् च देव्यङ्गुष्ठं करे ऽस्पृशत् ।
विष्णुना प्रेरितः शम्भुर् दक्षिणस्य पदस्य च ॥ १७ ॥
ताम् अदर्शम् अहं तत्र होमं कुर्वन् हरान्तिके ।
दृष्टे ऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ १८ ॥
लज्जया कलुषीभूतः स्कन्नं वीर्यम् अचूर्णयम् ।
मद्वीर्याच् चूर्णितात् सूक्ष्माद् वालखिल्यास् तु जज्ञिरे ॥ १९ ॥
ततो महान् अभूत् तत्र हाहाकारः सुरोदितः ।
लज्जया परिभूतो ऽहं निर्गतस् तु तदासनात् ॥ २० ॥
पश्यत्सु देवसङ्घेषु तूष्णीम्भूतेषु नारद ।
गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनम् अब्रवीत् ॥ २१ ॥
शिव उवाच-
ब्रह्माणम् आह्वयस्वेह गतपापं करोम्य् अहम् ।
कृतापराधे ऽपि जने सन्तः सकृपमानसाः ।
मोहयन्त्य् अपि विद्वांसं विषयाणाम् इयं स्थितिः ॥ २२ ॥
ब्रह्मोवाच-
एवम् उक्त्वा स भगवान् उमया सहितः शिवः ।
ममानुकम्पया चैव लोकानां हितकाम्यया ॥ २३ ॥
एतच् चकार लोकेशः शृणु नारद यत्नतः ।
पापिनां पापमोक्षाय भूमिर् आपो भविष्यति ॥ २४ ॥
तयोश् च सारसर्वस्वम् आहरिष्यामि पावनम् ।
एवं निश्चित्य भगवांस् तयोः सारं समाहरत् ॥ २५ ॥
भूमिं कमण्डलुं कृत्वा तत्रापः सन्निवेश्य च ।
पावमान्यादिभिः सूक्तैर् अभिमन्त्र्य च यत्नतः ॥ २६ ॥
त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा ।
माम् उवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ २७ ॥
आपो वै मातरो देव्यो भूमिर् माता तथापरा ।
स्थित्युत्पत्तिविनाशानां हेतुत्वम् उभयोः स्थितम् ॥ २८ ॥
अत्र प्रतिष्ठितो धर्मो ह्य् अत्र यज्ञः सनातनः ।
अत्र भुक्तिश् च मुक्तिश् च स्थावरं जङ्गमं तथा ॥ २९ ॥
स्मरणान् मानसं पापं वचनाद् वाचिकं तथा ।
स्नानपानाभिषेकाच् च प्रणश्यत्य् अपि कायिकम् ॥ ३० ॥
एतद् एवामृतं लोके नैतस्मात् पावनं परम् ।
मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम् ॥ ३१ ॥
अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि ।
स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम् ॥ ३२ ॥
भूतेभ्यश् चापि पञ्चभ्य आपो भूतं महोदितम् ।
तासाम् उत्कृष्टम् एतस्माद् गृहाणेमं कमण्डलुम् ॥ ३३ ॥
अत्र यद् वारि शोभिष्ठं पुण्यं पावनम् एव च ।
स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे ॥ ३४ ॥
एवम् उक्त्वा महादेवः प्रादान् मम कमण्डलुम् ।
ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् ।
आह्लादश् च महांस् तत्र जयशब्दो व्यवर्तत ॥ ३५ ॥
देवोत्सवे मातुर् अजः पदाग्रं ।
समीक्ष्य पापात् पतितत्वम् आप ।
प्रादात् कृपालुः स्मरणात् पवित्रां ।
गङ्गां पिता पुण्यकमण्डलुस्थाम् ॥ ३८ ॥