Summary (SA)
Chapter 71- Prehistory of Śiva’s marriage with Pārvatī
{{Ref- SS 131-132}}
नारद उवाच-
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्य् उक्तम् उत्तमम् ।
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ १ ॥
ब्रह्मोवाच-
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः ।
तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते ॥ २ ॥
गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी ।
त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिम् अतः शृणु ॥ ३ ॥
वर्षाणाम् अयुतात् पूर्वं देवकार्य उपस्थिते ।
तारको बलवान् आसीन् मद्वराद् अतिगर्वितः ॥ ४ ॥
देवानां परमैश्वर्यं हृतं तेन बलीयसा ।
ततस् ते शरणं जग्मुर् देवाः सेन्द्रपुरोगमाः ॥ ५ ॥
क्षीरोदशायिनं देवं जगतां प्रपितामहम् ।
कृताञ्जलिपुटा देवा विष्णुम् ऊचुर् अनन्यगाः ॥ ६ ॥
देवा ऊचुः-
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन ।
सर्वेश्वर जगद्योने त्रयीमूर्ते नमो ऽस्तु ते ॥ ७ ॥
लोकस्रष्टासुरान् हन्ता त्वम् एव जगतां पतिः ।
स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ ८ ॥
त्राता न कोप्य् अस्ति जगत्त्रये ऽपि ।
शरीरिणां सर्वविपद्गतानाम् ।
त्वया विना वारिजपत्त्रनेत्र ।
तापत्रयाणां शरणं न चान्यत् ॥ ९ ॥
पिता च माता जगतो ऽखिलस्य ।
त्वम् एव सेवासुलभो ऽसि विष्णो ।
प्रसीद पाहीश महाभयेभ्यो ।
ऽस्मदार्तिहन्ता वद कस् त्वदन्यः ॥ १० ॥
आदिकर्ता वराहस् त्वं मत्स्यः कूर्मस् तथैव च ।
इत्यादिरूपभेदैर् नो रक्षसे भय आगते ॥ ११ ॥
हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः ।
कस्मान् न रक्षसे देव अनन्यशरणान् हरे ॥ १२ ॥
ब्रह्मोवाच-
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः ।
कस्माच् च भयम् आपन्नं तद् ब्रुवन्तु गतज्वराः ।
ततः श्रियः पतिं प्राहुस् तं तारकवधं प्रति ॥ १३ ॥
देवा ऊचुः-
तारकाद् भयम् आपन्नं भीषणं रोमहर्षणम् ।
न युद्धैस् तपसा शापैर् हन्तुं नैव क्षमा वयम् ॥ १४ ॥
अर्वाग्दशाहाद् यो बालस् तस्मान् मृत्युम् अवाप्स्यति ।
तस्माद् देव न चान्येभ्यस् तत्र नीतिर् विधीयताम् ॥ १५ ॥
ब्रह्मोवाच-
पुनर् नारायणः प्राह नाहं बलोत्कटः सुराः ।
न मत्तो मदपत्याच् च न देवेभ्यो वधो भवेत् ॥ १६ ॥
ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् ।
तस्माद् वधम् अवाप्नोति तारको लोकदारुणः ॥ १७ ॥
तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह ।
भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ १८ ॥
तथेत्य् उक्त्वा सुरगणा जग्मुस् ते च नगोत्तमम् ।
हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ १९ ॥
इदम् ऊचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ २० ॥
देवा ऊचुः-
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ ।
बुद्धिः प्रज्ञा धृतिर् मेधा लज्जा पुष्टिः सरस्वती ॥ २१ ॥
एवं त्व् अनेकधा लोके या स्थिता लोकपावनी ।
देवानां कार्यसिद्ध्यर्थं युवयोर् गर्भम् आविशत् ॥ २२ ॥
समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति ।
अस्माकं भवतां चापि पालनी च भविष्यति ॥ २३ ॥
ब्रह्मोवाच-
हिमवान् अपि तद् वाक्यं सुराणाम् अभिनन्द्य च ।
मेना चापि महोत्साहा अस्त्व् इत्य् एवं वचो ऽब्रवीत् ॥ २४ ॥
तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे ।
शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ २५ ॥
तां वै प्रोचुः सुरगणा ईशार्थे तप आविश ।
तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ २६ ॥
पुनः सम्मन्त्रयाम् आसुर् ईशो ध्यायति तां शिवाम् ।
आत्मानं वा तथान्यद् वा न जानीमः कथं भवः ॥ २७ ॥
मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः ।
तत्र नीतिर् विधातव्या ततः श्रैष्ठ्यम् अवाप्स्यथ ।
ततः प्राह महाबुद्धिर् वाचस्पतिर् उदारधीः ॥ २८ ॥
बृहस्पतिर् उवाच-
यस् त्व् अयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् ।
स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ २९ ॥
तेन विद्धस् त्रिनेत्रो ऽपि ईशायां बुद्धिम् आदधेत् ।
परिणेष्यत्य् असौ नूनं तदा तां गिरिजां हरः ॥ ३० ॥
जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः ।
तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति ॥ ३१ ॥
जातः पुत्रस् त्रिनेत्रस्य तारकं स हनिष्यति ।
वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥ ३२ ॥
आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥ ३३ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा सुरगणा मदनं कुसुमाकरम् ।
प्रेषयाम् आसुर् अव्यग्राः शिवान्तिकम् अरिन्दमाः ॥ ३४ ॥
स जगाम त्वरा कामो धृतचापो समाधवः ।
रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥ ३५ ॥
गृहीत्वा सशरं चापम् इदं तस्य मनो ऽभवत् ।
मया वेध्यस् त्व् अवेध्यो वै शम्भुर् लोकगुरुः प्रभुः ॥ ३६ ॥
त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा ।
तेनासौ चाग्निनेत्रेण भस्मशेषस् तदा कृतः ॥ ३७ ॥
तद् एव कर्म सुदृढम् ईक्षितुं सुरसत्तमाः ।
आजग्मुस् तत्र यद् वृत्तं शृणु विस्मयकारकम् ॥ ३८ ॥
शम्भुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् ।
तावच् च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः ।
तुष्टुवुस् त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥ ३९ ॥
देवा ऊचुः-
तारकाद् भयम् आपन्नं कुरु पत्नीं गिरेः सुताम् ॥ ४० ॥
ब्रह्मोवाच-
विद्धचित्तो हरो ऽप्य् आशु मेने वाक्यं सुरोदितम् ।
अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥ ४१ ॥
प्रेषयाम् आसुर् अमरा विवाहाय परस्परम् ।
सम्बन्धो ऽपि तथाप्य् आसीद् धिमवल्लोकनाथयोः ॥ ४२ ॥