070

Summary (SA)

Chapter 70- Puruṣottamakṣetra-Māhātmya; Gautamī-Māhātmya

{{Ref- SS 130-131}}

ब्रह्मोवाच-

सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः ।
जपहोमव्रतानां च तपोदानफलानि च ॥ १ ॥

न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि ।
किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ २ ॥

सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् ।
पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ ३ ॥

ब्रह्मविद्यां सकृज् ज्ञात्वा गर्भवासो न विद्यते ।
हरेः सन्निहिते स्थान उत्तमे पुरुषोत्तमे ॥ ४ ॥

संवत्सरम् उपासीत मासमात्रम् अथापि वा ।
तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ ५ ॥

स याति परमं स्थानं यत्र योगेश्वरो हरिः ।
भुक्त्वा भोगान् विचित्रांश् च देवयोषित्समन्वितः ॥ ६ ॥

कल्पान्ते पुनर् आगत्य मर्त्यलोके नरोत्तमः ।
जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ ७ ॥

सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् ।
कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ ८ ॥

मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च ।
स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ ९ ॥

मार्जनस्य यथाकाले भागीरथ्याः समागमम् ।
सर्वम् एतन् मया ख्यातं यत् परं श्रोतुम् इच्छथ ॥ १० ॥

इन्द्रद्युम्नस्य माहात्म्यम् एतच् च कथितं मया ।
सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् ।
पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ ११ ॥

मुनय ऊचुः-

नहि नस् तृप्तिर् अस्तीह शृण्वतां तीर्थविस्तरम् ।
पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः ।
परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ १२ ॥

ब्रह्मोवाच-

इमम् एव पुरा प्रश्नं पृष्टो ऽस्मि द्विजसत्तमाः ।
नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम् ॥ १३ ॥

नारद उवाच-

तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् ।
सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ १४ ॥

कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले ।
सर्वेषाम् एव तीर्थानां सर्वदा किं विशिष्यते ॥ १५ ॥

ब्रह्मोवाच-

चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले ।
दैवानि मुनिशार्दूल आसुराण्य् आर्षाणि च ॥ १६ ॥

मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः ।
मानुषेभ्यश् च तीर्थेभ्य आर्षं तीर्थम् अनुत्तमम् ॥ १७ ॥

आर्षेभ्यश् चैव तीर्थेभ्य आसुरं बहुपुण्यदम् ।
आसुरेभ्यस् तथा पुण्यं दैवं तत् सार्वकामिकम् ॥ १८ ॥

ब्रह्मविष्णुशिवैश् चैव निर्मितं दैवम् उच्यते ।
त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥ १९ ॥

त्रयाणाम् अपि लोकानां तीर्थं मेध्यम् उदाहृतम् ।
तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ २० ॥

जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् ।
कर्मभूमिर् यतः पुत्र तस्मात् तीर्थं तद् उच्यते ॥ २१ ॥

तत्रैव यानि तीर्थानि यान्य् उक्तानि मया तव ।
हिमवद्विन्ध्ययोर् मध्ये षण्नद्यो देवसम्भवाः ॥ २२ ॥

तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः ।
एता द्वादश नद्यस् तु प्राधान्येन प्रकीर्तिताः ॥ २३ ॥

अभिसम्पूजितं यस्माद् भारतं बहुपुण्यदम् ।
कर्मभूमिर् अतो देवैर् वर्षं तस्मात् प्रकीर्तितम् ॥ २४ ॥

आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् ।
आसुरैर् आवृतान्य् आसंस् तद् एवासुरम् उच्यते ॥ २५ ॥

दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः ।
दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि ॥ २६ ॥

आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा ।
आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः ॥ २७ ॥

मानुषैः कारितान्य् आहुर् मानुषाणीति नारद ।
एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम ॥ २८ ॥

भेदं न कश्चिज् जानाति श्रोतुं युक्तो ऽसि नारद ।
बहवः पण्डितम्मन्याः शृण्वन्ति कथयन्ति च ।
सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः ॥ २९ ॥

नारद उवाच-

तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः ।
यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ३० ॥

ब्रह्मन् कृतयुगादौ तु उपायो ऽन्यो न विद्यते ।
तीर्थसेवां विना स्वल्पआयासेनाभीष्टदायिनीम् ॥ ३१ ॥

न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित् ।
त्वं नाभिकमले विष्णोः सञ्जातो ऽखिलपूर्वजः ॥ ३२ ॥

ब्रह्मोवाच-

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ ३३ ॥

भागीरथी नर्मदा तु यमुना च सरस्वती ।
विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥ ३४ ॥

एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः ।
गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा ॥ ३५ ॥

हयमूर्धा च लवणो नमुचिः शृङ्गकस् तथा ।
यमः पातालकेतुश् च मयः पुष्कर एव च ॥ ३६ ॥

एतैर् आवृततीर्थानि आसुराणि शुभानि च ।
प्रभासो भार्गवो ऽगस्तिर् नरनारायणौ तथा ॥ ३७ ॥

वसिष्ठश् च भरद्वाजो गोतमः कश्यपो मनुः ।
इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥ ३८ ॥

अम्बरीषो हरिश्चन्द्रो मान्धाता मनुर् एव च ।
कुरुः कनखलश् चैव भद्राश्वः सगरस् तथा ॥ ३९ ॥

अश्वयूपो नाचिकेता वृषाकपिर् अरिन्दमः ।
इत्यादिमानुषैर् विप्र निर्मितानि शुभानि च ॥ ४० ॥

यशसः फलभूत्यर्थं निर्मितानीह नारद ।
स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये ।
पुण्यतीर्थानि तान्य् आहुस् तीर्थभेदो मयोदितः ॥ ४१ ॥