069

Summary (SA)

Chapter 69- Puruṣottamakṣetra-Māhātmya

{{Ref- SS 129}}

मुनय ऊचुः-

बह्वाश्चर्यस् त्वया प्रोक्तो विष्णुलोको जगत्पते ।
नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ १ ॥

क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् ।
त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ २ ॥

सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् ।
यत्र स्वदेहसन्त्यागाद् विष्णुलोकं व्रजेन् नरः ॥ ३ ॥

अहो मोक्षस्य मार्गो ऽयं देहत्यागस् त्वयोदितः ।
नराणाम् उपकाराय पुरुषाख्ये न संशयः ॥ ४ ॥

अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः ।
तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ ५ ॥

श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् ।
प्रयागपुष्करादीनि क्षेत्राण्य् आयतनानि च ॥ ६ ॥

पृथिव्यां सर्वतीर्थानि सरितश् च सरांसि च ।
न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ ७ ॥

यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ।
ज्ञातो ऽस्माभिर् अभिप्रायस् तवेदानीं पितामह ॥ ८ ॥

येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् ।
पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले ।
तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ ९ ॥

ब्रह्मोवाच-

सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् ।
पुरुषाख्यसमं क्षेत्रं नास्त्य् अत्र पृथिवीतले ॥ १० ॥

सन्ति यानि तु तीर्थानि पुण्यान्य् आयतनानि च ।
तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ ११ ॥

यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १२ ॥

आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १३ ॥

नक्षत्राणां यथा सोमः सरसां सागरो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १४ ॥

वसूनां पावको यद्वद् रुद्राणां शङ्करो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १५ ॥

वर्णानां ब्राह्मणो यद्वद् वैनतेयश् च पक्षिणाम् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १६ ॥

शिखरिणां यथा मेरुः पर्वतानां हिमालयः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १७ ॥

प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १८ ॥

ऐरावतो गजेन्द्राणां महर्षीणां भृगुर् यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ १९ ॥

सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २० ॥

उच्चैःश्रवा यथाश्वानां कवीनाम् उशना कविः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २१ ॥

मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २२ ॥

इन्द्रियाणां मनो यद्वद् भूतानाम् अवनी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २३ ॥

अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २४ ॥

भूषणानां तु सर्वेषां यथा चूडामणिर् द्विजाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २५ ॥

गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २६ ॥

अकारः सर्ववर्णानां गायत्री छन्दसां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २७ ॥

सर्वाङ्गेभ्यो यथा श्रेष्ठम् उत्तमाङ्गं द्विजोत्तमाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ २८ ॥

अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता ।
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ २९ ॥

यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ।
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ३० ॥

मनुष्याणां यथा राजा धेनूनाम् अपि कामधुक् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३१ ॥

सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर् यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३२ ॥

प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३३ ॥

झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३४ ॥

समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३५ ॥

वरुणो यादसां यद्वद् यमः संयमिनां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३६ ॥

देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३७ ॥

धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३८ ॥

प्रजापतिर् यथा दक्ष ऋषीणां कश्यपो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ३९ ॥

ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ४० ॥

अश्वमेधस् तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः ।
तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः ॥ ४१ ॥

ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा ।
तथा समस्ततीर्थानाम् उत्तमं पुरुषोत्तमम् ॥ ४२ ॥

यथा समस्ततीर्थानां धर्मः संसारतारकः ।
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ४३ ॥