Summary (SA)
Chapter 68- Description of Viṣṇu’s world
{{Ref- SS 127-129}}
मुनय ऊचुः-
श्रोतुम् इच्छामहे देव विष्णुलोकम् अनामयम् ।
लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ १ ॥
प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो ।
कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ २ ॥
दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा ।
विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ ३ ॥
ब्रह्मोवाच-
शृणुध्वं मुनयः सर्वे यत् परं परमं पदम् ।
भक्तानाम् ईहितं धन्यं पुण्यं संसारनाशनम् ॥ ४ ॥
प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम ।
सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ ५ ॥
अशोकैः पारिजातैश् च मन्दारैश् चम्पकद्रुमैः ।
मालतीमल्लिकाकुन्दैर् बकुलैर् नागकेसरैः ॥ ६ ॥
पुन्नागैर् अतिमुक्तैश् च प्रियङ्गुतगरार्जुनैः ।
पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ ७ ॥
नारङ्गैः पनसैर् लोध्रैर् निम्बदाडिमसर्जकैः ।
द्राक्षालकुचखर्जूरैर् मधुकेन्द्रफलैर् द्रुमैः ॥ ८ ॥
कपित्थैर् नारिकेरैश् च तालैः श्रीफलसम्भवैः ।
कल्पवृक्षैर् असङ्ख्यैश् च वन्यैर् अन्यैः सुशोभनैः ॥ ९ ॥
सरलैश् चन्दनैर् नीपैर् देवदारुशुभाञ्जनैः ।
जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ १० ॥
ताम्बूलपत्त्रनिचयैस् तथा पूगीफलद्रुमैः ।
अन्यैश् च विविधैर् वृक्षैः सर्वर्तुफलशोभितैः ॥ ११ ॥
पुष्पैर् नानाविधैश् चैव लतागुच्छसमुद्भवैः ।
नानाजलाशयैः पुण्यैर् नानापक्षिरुतैर् वरैः ॥ १२ ॥
दीर्घिकाशतसङ्घातैस् तोयपूर्णैर् मनोहरैः ।
कुमुदैः शतपत्त्रैश् च पुष्पैः कोकनदैर् वरैः ॥ १३ ॥
रक्तनीलोत्पलैः कान्तैः कह्लारैश् च सुगन्धिभिः ।
अन्यैश् च जलजैः पुष्पैर् नानावर्णैः सुशोभनैः ॥ १४ ॥
हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः ।
कोयष्टिकैश् च दात्यूहैः कारण्डवरवाकुलैः ॥ १५ ॥
चातकैः प्रियपुत्रैश् च जीवञ्जीवकजातिभिः ।
अन्यैर् दिव्यैर् जलचरैर् विहारमधुरस्वनैः ॥ १६ ॥
एवं नानाविधैर् दिव्यैर् नानाश्चर्यसमन्वितैः ।
वृक्षैर् जलाशयैः पुण्यैर् भूषितं सुमनोहरैः ॥ १७ ॥
तत्र दिव्यैर् विमानैश् च नानारत्नविभूषितैः ।
कामगैः काञ्चनैः शुभ्रैर् दिव्यगन्धर्वनादितैः ॥ १८ ॥
तरुणादित्यसङ्काशैर् अप्सरोभिर् अलङ्कृतैः ।
हेमशय्यासनयुतैर् नानाभोगसमन्वितैः ॥ १९ ॥
खेचरैः सपताकैश् च मुक्ताहारावलम्बिभिः ।
नानावर्णैर् असङ्ख्यातैर् जातरूपपरिच्छदैः ॥ २० ॥
नानाकुसुमगन्धाढ्यैश् चन्दनागुरुभूषितैः ।
सुखप्रचारबहुलैर् नानावादित्रनिःस्वनैः ॥ २१ ॥
मनोमारुततुल्यैश् च किङ्किणीस्तबकाकुलैः ।
विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते ॥ २२ ॥
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः ।
चन्द्राननाभिः कान्ताभिर् योषिद्भिः सुमनोहरैः ॥ २३ ॥
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः ।
श्यामावदातवर्णाभिर् मत्तमातङ्गगामिभिः ॥ २४ ॥
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः ।
चामरै रुक्मदण्डैश् च नानारत्नविभूषितैः ॥ २५ ॥
गीतनृत्यैस् तथा वाद्यैर् मोदमानैर् मदालसैः ।
यक्षविद्याधरैः सिद्धैर् गन्धर्वैर् अप्सरोगणैः ॥ २६ ॥
सुरसङ्घैश् च ऋषिभिः शुशुभे भुवनोत्तमम् ।
तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः ॥ २७ ॥
वटराजसमीपे तु दक्षिणस्योदधेस् तटे ।
दृष्टो यैर् भगवान् कृष्णः पुष्कराक्षो जगत्पतिः ॥ २८ ॥
क्रीडन्त्य् अप्सरसैः सार्धं यावद् द्यौश् चन्द्रतारकम् ।
प्रतप्तहेमसङ्काशा जरामरणवर्जिताः ॥ २९ ॥
सर्वदुःखविहीनाश् च तृष्णाग्लानिविवर्जिताः ।
चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ ३० ॥
श्रीवत्सलाञ्छनैर् युक्ताः शङ्खचक्रगदाधराः ।
केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसन्निभाः ॥ ३१ ॥
केचिन् मरकतप्रख्याः केचिद् वैदूर्यसन्निभाः ।
श्यामवर्णाः कुण्डलिनस् तथान्ये वज्रसन्निभाः ॥ ३२ ॥
न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः ।
यादृग् भाति हरेर् लोकः सर्वाश्चर्यसमन्वितः ॥ ३३ ॥
न तत्र पुनरावृत्तिर् गमनाज् जायते द्विजाः ।
प्रभावात् तस्य देवस्य यावद् आभूतसम्प्लवम् ॥ ३४ ॥
विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः ।
कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥ ३५ ॥
प्रतप्तहेमसङ्काशं तरुणादित्यसन्निभम् ।
पुरमध्ये हरेर् भाति मन्दिरं रत्नभूषितम् ॥ ३६ ॥
अनेकशतसाहस्रैः पताकैः समलङ्कृतम् ।
योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥ ३७ ॥
नानावर्णैर् ध्वजैश् चित्रैः कल्पितैः सुमनोहरैः ।
विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः ॥ ३८ ॥
चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् ।
पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥ ३९ ॥
प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर् युतम् ।
इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥ ४० ॥
पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् ।
षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥ ४१ ॥
नानारत्नमयैर् हेमप्रवालाङ्कुरभूषितैः ।
स्तम्भैर् अद्भुतसङ्काशैर् भाति तद् भवनं महत् ॥ ४२ ॥
दृश्यन्ते तत्र सिद्धाश् च भासयन्ति दिशो दश ।
पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥ ४३ ॥
आरूढस् तत्र भगवान् सलक्ष्मीको जनार्दनः ।
पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥ ४४ ॥
ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् ।
दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥ ४५ ॥
कुन्देन्दुरजतप्रख्यं हारगोक्षीरसन्निभम् ।
आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥ ४६ ॥
यस्य शब्देन सकलं सङ्क्षोभं जायते जगत् ।
विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥ ४७ ॥
दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् ।
ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैर् अपि ॥ ४८ ॥
कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे ।
वामे विस्फुरति ह्य् अस्य शार्ङ्गं सूर्यसमप्रभम् ॥ ४९ ॥
शरैर् आदित्यसङ्काशैर् ज्वालामालाकुलैर् वरैः ।
यो ऽसौ संहरते देवस् त्रैलोक्यं सचराचरम् ॥ ५० ॥
सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः ।
सर्वलोकगुरुर् देवः सर्वैर् देवैर् नमस्कृतः ॥ ५१ ॥
सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः ।
सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः ॥ ५२ ॥
सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः ।
विद्युद्विस्पष्टसङ्काशो जगन्नाथो जगद्गुरुः ॥ ५३ ॥
परीतः सुरसिद्धैश् च गन्धर्वाप्सरसां गणैः ।
यक्षविद्याधरैर् नागैर् मुनिसिद्धैः सचारणैः ॥ ५४ ॥
सुपर्णैर् दानवैर् दैत्यै राक्षसैर् गुह्यकिन्नरैः ।
अन्यैर् देवगणैर् दिव्यैः स्तूयमानो विराजते ॥ ५५ ॥
तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती ।
बुद्धिर् मतिस् तथा क्षान्तिः सिद्धिमूर्तिस् तथा द्युतिः ॥ ५६ ॥
गायत्री चैव सावित्री मङ्गला सर्वमङ्गला ।
प्रभा मतिस् तथा कान्तिस् तत्र नारायणी स्थिता ॥ ५७ ॥
श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा ।
निद्रा रात्रिस् तथा माया तथान्यामरयोषितः ॥ ५८ ॥
वासुदेवस्य सर्वास् ता भवने सम्प्रतिष्ठिताः ।
अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥ ५९ ॥
घृताची मेनका रम्भा सहजन्या तिलोत्तमा ।
उर्वशी चैव निम्लोचा तथान्या वामना परा ॥ ६० ॥
मन्दोदरी च सुभगा विश्वाची विपुलानना ।
भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥ ६१ ॥
मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना ।
सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥ ६२ ॥
अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला ।
क्रतुस्थला वराङ्गी च पूर्वचित्तिस् तथा परा ॥ ६३ ॥
परावती महारूपा शशिलेखा शुभानना ।
हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥ ६४ ॥
बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः ।
एताश् चान्या अप्सरसो रूपयौवनगर्विताः ॥ ६५ ॥
सुमध्याश् चारुवदनाः सर्वालङ्कारभूषिताः ।
गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥ ६६ ॥
गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः ।
नृत्यन्त्य् अनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥ ६७ ॥
न तत्र रोगो नो ग्लानिर् न मृत्युर् न हिमातपौ ।
न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम् ॥ ६८ ॥
परमानन्दजननं सर्वकामफलप्रदम् ।
विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः ॥ ६९ ॥
ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् ।
विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥ ७० ॥
एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् ।
सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥ ७१ ॥
न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः ।
न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥ ७२ ॥
ये ऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् ।
ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥ ७३ ॥
दक्षिणस्योदधेस् तीरे क्षेत्रे परमदुर्लभे ।
दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥ ७४ ॥
कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् ।
ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥ ७५ ॥
वटसागरयोर् मध्ये यः स्मरेत् पुरुषोत्तमम् ।
ते ऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥ ७६ ॥
ते ऽपि तत्र परं स्थानं यान्ति नास्त्य् अत्र संशयः ।
एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः ।
सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ ७७ ॥