Summary (SA)
Chapter 67- The installation-ceremony and its merit
{{Ref- SS 125-127}}
मुनय ऊचुः-
एकैकस्यास् तु यात्रायाः फलं ब्रूहि पृथक् पृथक् ।
यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ १ ॥
ब्रह्मोवाच-
प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम ।
यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः ॥ २ ॥
गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा ।
यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ ३ ॥
सङ्कर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् ।
नरो गच्छेद् विष्णुलोके यावद् इन्द्राश् चतुर्दश ॥ ४ ॥
यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः ।
तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ ५ ॥
तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे ।
भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे ॥ ६ ॥
ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः ।
यथोक्तेन विधानेन दश द्वे च समाहितः ॥ ७ ॥
प्रतिष्ठां कुरुते यस् तु शाठ्यदम्भविवर्जितः ।
स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम् ॥ ८ ॥
मुनय ऊचुः-
श्रोतुम् इच्छामहे देव प्रतिष्ठां वदतस् तव ।
विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ ९ ॥
ब्रह्मोवाच-
शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् ।
यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ १० ॥
यात्रा द्वादश सम्पूर्णा यदा स्यात् तु द्विजोत्तमाः ।
तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम् ॥ ११ ॥
ज्येष्ठे मासि सिते पक्षे त्व् एकादश्यां समाहितः ।
गत्वा जलाशयं पुण्यम् आचम्य प्रयतः शुचिः ॥ १२ ॥
आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ।
ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः ॥ १३ ॥
यस्य यो विधिर् उद्दिष्ट ऋषिभिः स्नानकर्मणि ।
तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ १४ ॥
स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितॄन् ।
सन्तर्पयेत् तथान्यांश् च नामगोत्रविधानवित् ॥ १५ ॥
उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
उपस्पृश्य विधानेन भास्कराभिमुखस् ततः ॥ १६ ॥
गायत्रीं पावनीं देवीं मनसा वेदमातरम् ।
सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम् ॥ १७ ॥
पुण्यांश् च सौरमन्त्रांश् च श्रद्धया सुसमाहितः ।
त्रिः प्रदक्षिणम् आवृत्य भास्करं प्रणमेत् ततः ॥ १८ ॥
वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यम् उदाहृतम् ।
स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ १९ ॥
ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् ।
प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ २० ॥
घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् ।
मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ २१ ॥
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ।
चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ २२ ॥
पूजयेत् परया भक्त्या पद्मैश् च पुरुषोत्तमम् ।
अन्यैश् च वैष्णवैः पुष्पैर् अर्चयेन् मल्लिकादिभिः ॥ २३ ॥
सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ।
धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः ॥ २४ ॥
गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् ।
दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै ॥ २५ ॥
अन्यांश् च दीपकान् दद्याद् द्वादशैव समाहितः ।
घृतेन च मुनिश्रेष्ठास् तिलतैलेन वा पुनः ॥ २६ ॥
नैवेद्ये पायसापूपशष्कुलीवटकं तथा ।
मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ २७ ॥
एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् ।
नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम् ॥ २८ ॥
ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् ।
नमस् ते सर्वलोकेश भक्तानाम् अभयप्रद ॥ २९ ॥
संसारसागरे मग्नं त्राहि मां पुरुषोत्तम ।
यास् ते मया कृता यात्रा द्वादशैव जगत्पते ॥ ३० ॥
प्रसादात् तव गोविन्द सम्पूर्णास् ता भवन्तु मे ।
एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च ॥ ३१ ॥
ततो ऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ।
नानयोर् अन्तरं यस्माद् विद्यते मुनिसत्तमाः ॥ ३२ ॥
देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः ।
नानापुष्पैर् मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥ ३३ ॥
कृत्वावधारणं पश्चाज् जागरं कारयेन् निशि ।
कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥ ३४ ॥
ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः ।
ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥ ३५ ॥
निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान् ।
इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान् ॥ ३६ ॥
स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ।
स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम् ॥ ३७ ॥
गन्धैः पुष्पैर् उपहारैर् नैवेद्यैर् दीपकैस् तथा ।
उपचारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥ ३८ ॥
जाप्यैः स्तुतिनमस्कारैर् गीतवाद्यैर् मनोहरैः ।
सम्पूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः ॥ ३९ ॥
द्वादशैव तु गास् तेभ्यो दत्त्वा कनकम् एव च ।
छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥ ४० ॥
भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः ।
सद्भावेन तु गोविन्दस् तोष्यते पूजितो यतः ॥ ४१ ॥
आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा ।
छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः ॥ ४२ ॥
ततस् तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम् ।
पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥ ४३ ॥
ततस् तान् अन्नतृप्तांश् च ब्राह्मणान् स्वस्थमानसान् ।
द्वादशैवोदकुम्भांश् च दद्यात् तेभ्यः समोदकान् ॥ ४४ ॥
दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः ।
कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥ ४५ ॥
एवं सम्पूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम् ।
पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥ ४६ ॥
सुवर्णवस्त्रगोधान्यैर् द्रव्यैश् चान्यैर् वरैर् बुधः ।
सम्पूज्य तं नमस्कृत्य इमं मन्त्रम् उदीरयेत् ॥ ४७ ॥
सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः ।
अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ४८ ॥
इत्य् उच्चार्य ततो विप्रांस् त्रिः कृत्वा च प्रदक्षिणाम् ।
प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥ ४९ ॥
ततस् तान् ब्राह्मणान् भक्त्या चासीमान्तम् अनुव्रजेत् ।
अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत् ॥ ५० ॥
बान्धवैः स्वजनैर् युक्तस् ततो भुञ्जीत वाग्यतः ।
अन्यैश् चोपासकैर् दीनैर् भिक्षुकैश् चान्नकाङ्क्षिभिः ॥ ५१ ॥
एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् ।
अश्वमेधसहस्राणां राजसूयशतस्य च ॥ ५२ ॥
अतीतं शतम् आदाय पुरुषाणां नरोत्तमाः ।
भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥ ५३ ॥
सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः ।
सर्वकामसमृद्धात्मा देववद् विगतज्वरः ॥ ५४ ॥
रूपयौवनसम्पन्नो गुणैः सर्वैर् अलङ्कृतः ।
स्तूयमानो ऽप्सरोभिश् च गन्धर्वैः समलङ्कृतः ॥ ५५ ॥
विमानेनार्कवर्णेन कामगेन स्थिरेण च ।
पताकाध्वजयुक्तेन सर्वरत्नैर् अलङ्कृतः ॥ ५६ ॥
उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः ।
युवा महाबलो धीमान् विष्णुलोकं स गच्छति ॥ ५७ ॥
तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् ।
सिद्धाप्सरोभिर् गन्धर्वैः सुरविद्याधरोरगैः ॥ ५८ ॥
स्तूयमानो मुनिवरैस् तिष्ठते विगतज्वरः ।
यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥ ५९ ॥
तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् ।
भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह ॥ ६० ॥
तदन्ते ब्रह्मसदनम् आयाति सर्वकामदम् ।
सिद्धविद्याधरैश् चापि शोभितं सुरकिन्नरैः ॥ ६१ ॥
कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ।
तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥ ६२ ॥
रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् ।
अनेकशतसाहस्रैर् विमानैः समलङ्कृतम् ॥ ६३ ॥
सिद्धविद्याधरैर् यक्षैर् भूषितं दैत्यदानवैः ।
अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥ ६४ ॥
तदन्ते याति गोलोकं सर्वभोगसमन्वितम् ।
सुरसिद्धाप्सरोभिश् च शोभितं सुमनोहरम् ॥ ६५ ॥
तत्र सप्ततिकल्पांस् तु भुक्त्वा भोगम् अनुत्तमम् ।
दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥ ६६ ॥
तस्माद् आगच्छते लोकं प्राजापत्यम् अनुत्तमम् ।
गन्धर्वाप्सरसैः सिद्धैर् मुनिविद्याधरैर् वृतः ॥ ६७ ॥
षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा ।
तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥ ६८ ॥
गन्धर्वैः किन्नरैः सिद्धैः सुरविद्याधरोरगैः ।
गुह्यकाप्सरसैः साध्यैर् वृतैश् चान्यैः सुरोत्तमैः ॥ ६९ ॥
आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः ।
सुरलोकं ततो गत्वा विमानैः समलङ्कृतः ॥ ७० ॥
चत्वारिंशत् तु कल्पांस् तु भुक्त्वा भोगान् सुदुर्लभान् ।
आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥ ७१ ॥
ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान् ।
तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥ ७२ ॥
यत्रासौ तिष्ठते सोमः सर्वैर् देवैर् अलङ्कृतः ।
तत्र विंशतिकल्पांस् तु भुक्त्वा भोगं सुदुर्लभम् ॥ ७३ ॥
आदित्यस्य ततो लोकम् आयाति सुरपूजितम् ।
नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥ ७४ ॥
तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः ।
तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥ ७५ ॥
तत्र भोगान् समस्तांश् च कल्पम् एकं यथासुखम् ।
भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ७६ ॥
चक्रवर्ती महावीर्यो गुणैः सर्वैर् अलङ्कृतः ।
कृत्वा राज्यं स्वधर्मेण यज्ञैर् इष्ट्वा सुदक्षिणैः ॥ ७७ ॥
तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् ।
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ७८ ॥
तस्माद् आगच्छते चात्र जायते योगिनां कुले ।
प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते ॥ ७९ ॥
चतुर्वेदी विप्रवरो यज्ञैर् इष्ट्वाप्तदक्षिणैः ।
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥ ८० ॥
एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम् ।
भुक्तिमुक्तिप्रदं नॄणां किम् अन्यच् छ्रोतुम् इच्छथ ॥ ८१ ॥