066

Summary (SA)

Chapter 66- Description of the car festival

{{Ref- SS 125}}

ब्रह्मोवाच-

गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ १ ॥

ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् ।
हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ २ ॥

मुनय ऊचुः-

केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते ।
यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ ३ ॥

किमर्थं सरसस् तीरे राज्ञस् तस्य जगत्पते ।
पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ ४ ॥

कृष्णः सङ्कर्षणश् चैव सुभद्रा च रथेन ते ।
स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ ५ ॥

ब्रह्मोवाच-

इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः ।
सप्ताहं सरसस् तीरे मम यात्रा भवत्व् इति ॥ ६ ॥

गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा ।
तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ ७ ॥

श्रीभगवान् उवाच-

सप्ताहं सरसस् तीरे तव राजन् भविष्यति ।
गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ ८ ॥

ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् ।
सङ्कर्षणं सुभद्रां च विधिवत् सुसमाहिताः ॥ ९ ॥

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च वै नृप ।
पुष्पैर् गन्धैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः ॥ १० ॥

उपहारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः ।
जयशब्दैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः ॥ ११ ॥

न तेषां दुर्लभं किञ्चित् फलं यस्य यद् ईप्सितम् ।
भविष्यति नृपश्रेष्ठ मत्प्रसादाद् असंशयम् ॥ १२ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तु तं देवस् तत्रैवान्तरधीयत ।
स तु राजवरः श्रीमान् कृतकृत्यो ऽभवत् तदा ॥ १३ ॥

तस्मात् सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः ।
सर्वकामप्रदं देवं पश्येत् तं पुरुषोत्तमम् ॥ १४ ॥

अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् ।
रोगाच् च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ १५ ॥

आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् ।
नरः सन्ततिम् आप्नोति रूपयौवनसम्पदम् ॥ १६ ॥

यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् ।
नरो वाप्य् अथवा नारी तांस् तान् प्राप्नोत्य् असंशयम् ॥ १७ ॥

यात्रां कृत्वा गुडिवाख्यां विधिवत् सुसमाहितः ।
आषाढस्य सिते पक्षे नरो योषिद् अथापि वा ॥ १८ ॥

दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ।
दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ १९ ॥

सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः ।
कामगेन विमानेन सर्वरत्नैर् अलङ्कृतः ॥ २० ॥

गन्धर्वैर् अप्सरोभिश् च सेव्यमानो यथोत्तरैः ।
रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ २१ ॥

तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ।
सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ २२ ॥

पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ।
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥ २३ ॥