Summary (SA)
Chapter 65- Bathing festival of Kṛṣṇa, Balarāma, and Subhadrā
{{Ref- SS 123-125}}
मुनय ऊचुः-
कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव ।
विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥ १ ॥
ब्रह्मोवाच-
शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम ।
रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ २ ॥
मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते ।
पौर्णमास्यां तदा स्नानं सर्वकालं हरेर् द्विजाः ॥ ३ ॥
सर्वतीर्थमयः कूपस् तत्रास्ते निर्मलः शुचिः ।
तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ ४ ॥
तस्माज् ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर् जलम् ।
कृष्णरामाभिषेकार्थं सुभद्रायाश् च भो द्विजाः ॥ ५ ॥
कृत्वा सुशोभनं मञ्चं पताकाभिर् अलङ्कृतम् ।
सुदृढं सुखसञ्चारं वस्त्रैः पुष्पैर् अलङ्कृतम् ॥ ६ ॥
विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः ।
सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ७ ॥
तत्र नानाविधैर् वाद्यैः कृष्णं नीलाम्बरं द्विजाः ।
मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ ८ ॥
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः ।
अनेकशतसाहस्रैर् वृतं स्त्रीपुरुषैर् द्विजाः ॥ ९ ॥
गृहस्थाः स्नातकाश् चैव यतयो ब्रह्मचारिणः ।
स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ १० ॥
तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः ।
स्वोदकैः पुष्पमिश्रैश् च स्नापयन्ति पृथक् पृथक् ॥ ११ ॥
पश्चात् पटहशङ्खाद्यैर् भेरीमुरजनिस्वनैः ।
काहलैस् तालशब्दैश् च मृदङ्गैर् झर्झरैस् तथा ॥ १२ ॥
अन्यैश् च विविधैर् वाद्यैर् घण्टास्वनविभूषितैः ।
स्त्रीणां मङ्गलशब्दैश् च स्तुतिशब्दैर् मनोहरैः ॥ १३ ॥
जयशब्दैस् तथा स्तोत्रैर् वीणावेणुनिनादितैः ।
श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः ॥ १४ ॥
मुनीनां वेदशब्देन मन्त्रशब्दैस् तथापरैः ।
नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ १५ ॥
यतिभिः स्नातकैश् चैव गृहस्थैर् ब्रह्मचारिभिः ।
स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ १६ ॥
श्यामैर् वेश्याजनैश् चैव कुचभारावनामिभिः ।
पीतरक्ताम्बराभिश् च माल्यदामावनामिभिः ॥ १७ ॥
सरत्नकुण्डलैर् दिव्यैः सुवर्णस्तबकान्वितैः ।
चामरै रत्नदण्डैश् च वीज्येते रामकेशवौ ॥ १८ ॥
यक्षविद्याधरैः सिद्धैः किन्नरैश् चाप्सरोगणैः ।
परिवार्याम्बरगतैर् देवगन्धर्वचारणैः ॥ १९ ॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
लोकपालास् तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ २० ॥
नमस् ते देवदेवेश पुराण पुरुषोत्तम ।
सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते ॥ २१ ॥
त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् ।
तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ २२ ॥
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ।
सुभद्रां च मुनिश्रेष्ठास् तदाकाशे व्यवस्थिताः ॥ २३ ॥
गायन्ति देवगन्धर्वा नृत्यन्त्य् अप्सरसस् तथा ।
देवतूर्याण्य् अवाद्यन्त वाता वान्ति सुशीतलाः ॥ २४ ॥
पुष्पमिश्रं तदा मेघा वर्षन्त्य् आकाशगोचराः ।
जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ २५ ॥
शक्राद्या विबुधाः सर्व ऋषयः पितरस् तथा ।
प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ २६ ॥
ततो मङ्गलसम्भारैर् विधिमन्त्रपुरस्कृतम् ।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ २७ ॥
इन्द्रो विष्णुर् महावीर्यः सूर्याचन्द्रमसौ तथा ।
धाता चैव विधाता च तथा चैवानिलानलौ ॥ २८ ॥
पूषा भगो ऽर्यमा त्वष्टा अंशुनैव विवस्वता ।
पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च ॥ २९ ॥
रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः ।
विश्वैर् देवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह ॥ ३० ॥
गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः ।
देवर्षिभिर् असङ्ख्येयैस् तथा ब्रह्मर्षिभिर् वरैः ॥ ३१ ॥
वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः ।
भृगुभिश् चाङ्गिरोभिश् च सर्वविद्यासुनिष्ठितैः ॥ ३२ ॥
सर्वविद्याधरैः पुण्यैर् योगसिद्धिभिर् आवृतः ।
पितामहः पुलस्त्यश् च पुलहश् च महातपाः ॥ ३३ ॥
अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च ।
क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च ॥ ३४ ॥
ऋतवश् च ग्रहाश् चैव ज्योतींषि च द्विजोत्तमाः ।
मूर्तिमत्यश् च सरितो देवाश् चैव सनातनाः ॥ ३५ ॥
समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च ।
पृथिवी द्यौर् दिशश् चैव पादपाश् च द्विजोत्तमाः ॥ ३६ ॥
अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती ।
उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ ३७ ॥
राका च धिषणा चैव पत्न्यश् चान्या दिवौकसाम् ।
हिमवांश् चैव विन्ध्यश् च मेरुश् चानेकशृङ्गवान् ॥ ३८ ॥
ऐरावतः सानुचरः कलाकाष्ठास् तथैव च ।
मासार्धं मासर्तवस् तथा रात्र्यहनी समाः ॥ ३९ ॥
उच्चैःश्रवा हयश्रेष्ठो नागराजश् च वामनः ।
अरुणो गरुडश् चैव वृक्षाश् चौषधिभिः सह ॥ ४० ॥
धर्मश् च भगवान् देवः समाजग्मुर् हि सङ्गताः ।
कालो यमश् च मृत्युश् च यमस्यानुचराश् च ये ॥ ४१ ॥
बहुलत्वाच् च नोक्ता ये विविधा देवतागणाः ।
ते देवस्याभिषेकार्थं समायान्ति ततस् ततः ॥ ४२ ॥
गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः ।
आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥ ४३ ॥
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर् द्विजाः ।
सारस्वतीभिः पुण्याभिर् दिव्यतोयाभिर् एव च ॥ ४४ ॥
तोयेनाकाशगङ्गायाः कृष्णं रामेण सङ्गतम् ।
सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्य् अवनिस्थिताः ॥ ४५ ॥
सञ्चरन्ति विमानानि देवानाम् अम्बरे तथा ।
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ४६ ॥
दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः ।
गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ४७ ॥
एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण सङ्गतम् ।
स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥ ४८ ॥
जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल जय जय भूतचरण जय जयादिदेव बहुकारण जय जय वासुदेव जय जयासुरसंहरण जय जय दिव्यमीन जय जय त्रिदशवर जय जय जलधिशयन ।
जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर ।
जय जय योगशायिञ् जय जय वेगधर जय जय विश्वमूर्ते जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर जय जय शेषशायिञ् जय जय पीतवासो जय जय सोमकान्त ।
जय जय योगवास जय जय दहनवक्त्र जय जय धर्मवास जय जय गुणनिधान जय जय श्रीनिवास जय जय गरुडगमन जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास ।
जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर ।
जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य ।
जय जय कान्तियुत जय जय लोकशरण जय जय लक्ष्मीयुत जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय योगयुत जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह जय जय लक्ष्मीपङ्कजषट्चरण ।
जय जय भक्तवश जय जय लोककान्त जय जय परमशान्त जय जय परमसार जय जय चक्रधर जय जय भोगियुत जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर जय जय कलुषहर ॥ ४९ ॥
जय कृष्ण जगन्नाथ जय सङ्कर्षणानुज ।
जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥ ५० ॥
जय मालावृतोरस्क जय चक्रगदाधर ।
जय पद्मालयाकान्त जय विष्णो नमो ऽस्तु ते ॥ ५१ ॥
ब्रह्मोवाच-
एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः ।
सिद्धचारणसङ्घाश् च ये चान्ये स्वर्गवासिनः मुनयो वालखिल्याश् च कृष्णं रामेण सङ्गतम् ।
सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥ ५३ ॥
दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः ।
कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥ ५४ ॥
सञ्चरन्ति विमानानि देवानाम् अम्बरे तदा ।
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ५५ ॥
दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः ।
गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ५६ ॥
तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् ।
बलभद्रं सुभद्रां च ते यान्ति पदम् अव्ययम् ॥ ५७ ॥
सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् ।
दृष्ट्वा निरामयं स्थानं यान्ति नास्त्य् अत्र संशयः ॥ ५८ ॥
कपिलाशतदानेन यत् फलं पुष्करे स्मृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम् ।
सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ॥ ५९ ॥
कन्याशतप्रदानेन यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६० ॥
सुवर्णशतनिष्काणां दानेन यत् फलं स्मृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६१ ॥
गोसहस्रप्रदानेन यत् फलं परिकीर्तितम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६२ ॥
भूमिदानेन विधिवद् यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६३ ॥
यत् फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६४ ॥
वृषोत्सर्गेण विधिवद् यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६५ ॥
यत् फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६६ ॥
तिलधेनुप्रदानेन यत् फलं सम्प्रकीर्तितम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६७ ॥
गजाश्वरथदानेन यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६८ ॥
सुवर्णशृङ्गीदानेन यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ६९ ॥
जलधेनुप्रदानेन यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ७० ॥
दानेन घृतधेन्वाश् च फलं यत् समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ७१ ॥
चान्द्रायणेन चीर्णेन यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ७२ ॥
मासोपवासैर् विधिवद् यत् फलं समुदाहृतम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥ ७३ ॥
अथ किं बहुनोक्तेन भाषितेन पुनः पुनः ।
तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥ ७४ ॥
यत् फलं सर्वतीर्थेषु व्रतैर् दानैश् च कीर्तितम् ।
तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम् ॥ ७५ ॥
सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ।
तस्मान् नरो ऽथवा नारी पश्येत् तं पुरुषोत्तमम् ॥ ७६ ॥
ततः समस्ततीर्थानां लभेत् स्नानादिकं फलम् ।
स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥ ७७ ॥
वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता ।
राक्षसाद्यैर् गृहीता वा तथा रोगैश् च संहताः ॥ ७८ ॥
सद्यस् ताः स्नानशेषेण उदकेनाभिषेचिताः ।
प्राप्नुवन्तीप्सितान् कामान् यान् यान् वाञ्छन्ति चेप्सितान् ॥ ७९ ॥
पुत्रार्थिनी लभेत् पुत्रान् सौभाग्यं च सुखार्थिनी ।
रोगार्ता मुच्यते रोगाद् धनं च धनकाङ्क्षिणी ॥ ८० ॥
पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले ।
तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ८१ ॥
तस्मात् स्नानावशेषं यत् कृष्णस्य सलिलं द्विजाः ।
तेनाभिषिञ्चेद् गात्राणि सर्वकामप्रदं हि तत् ॥ ८२ ॥
स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ।
ब्रह्महत्यादिभिः पापैर् मुच्यन्ते ते न संशयः ॥ ८३ ॥
शास्त्रेषु यत् फलं प्रोक्तं पृथिव्यस् त्रिप्रदक्षिणैः ।
दृष्ट्वा नरो लभेत् कृष्णं व्रजन्तं दक्षिणामुखम् ॥ ८४ ॥
तीर्थयात्राफलं यत् तु पृथिव्यां समुदाहृतम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ८५ ॥
बदर्यां यत् फलं प्रोक्तं दृष्ट्वा नारायणं नरम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ८६ ॥
गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत् फलम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ८७ ॥
प्रयागे च महामाघ्यां यत् फलं समुदाहृतम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ८८ ॥
शालग्रामे महाचैत्र्यां स्नानदानेन यत् फलम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ८९ ॥
महाभिधानकार्त्तिक्यां पुष्करे यत् फलं स्मृतम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ९० ॥
यत् फलं स्नानदानेन गङ्गासागरसङ्गमे ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ९१ ॥
ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत् फलम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ९२ ॥
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥ ९३ ॥
यत् फलं स्नानदानेन विधिवत् समुदाहृतम् ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ९४ ॥
पुष्करे चाथ तीर्थेषु गये चामरकण्टके ।
नैमिषादिषु तीर्थेषु क्षेत्रेष्व् आयतनेषु च ॥ ९५ ॥
यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे ।
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ९६ ॥
अथ किं पुनर् उक्तेन भाषितेन पुनः पुनः ।
यत् किञ्चित् कथितं चात्र फलं पुण्यस्य कर्मणः ॥ ९७ ॥
वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः ।
धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥ ९८ ॥
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं सहलायुधम् ।
सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥ ९९ ॥