Summary (SA)
Chapter 64- On the importance of the month Jyeṣṭha
{{Ref- SS 122-123}}
ब्रह्मोवाच-
यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः ।
प्रयत्नेन तदा मर्त्यैर् गन्तव्यं पुरुषोत्तमम् ॥ १ ॥
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः ।
नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥ २ ॥
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये ।
गङ्गाद्वारे कुशावर्ते गङ्गासागरसङ्गमे ॥ ३ ॥
कोकामुखे शूकरे च मथुरायां मरुस्थले ।
शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥ ४ ॥
पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः ।
शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ ५ ॥
लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने ।
कामालये कोटितीर्थे तथा चामरकण्टके ॥ ६ ॥
लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके ।
उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥ ७ ॥
एकाम्रके च केदारे काश्यां च विरजे द्विजाः ।
कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥ ८ ॥
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये ।
सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥ ९ ॥
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ १० ॥
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा ।
तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥ ११ ॥
वितस्ता चन्द्रभागा च शतद्रुर् बाहुदा तथा ।
ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥ १२ ॥
शरयूर् नाकगङ्गा च गण्डकी च महानदी ।
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ १३ ॥
महानदी वैतरणी याश् चान्या नानुकीर्तिताः ।
अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥ १४ ॥
पृथिव्यां सर्वतीर्थेषु सर्वेष्व् आयतनेषु च ।
सागरेषु च शैलेषु नदीषु च सरःसु च ॥ १५ ॥
यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे ।
तत् फलं कृष्णम् आलोक्य महाज्यैष्ठ्यां लभेन् नरः ॥ १६ ॥
तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे ।
महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥ १७ ॥
दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह ।
विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥ १८ ॥
भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ।
पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ॥ १९ ॥
स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः ।
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥ २० ॥