063

Summary (SA)

Chapter 63- Pañcatīrtha-Māhātmya (concluded). On auspicious dates

{{Ref- SS 121-122}}

ब्रह्मोवाच-

ततो गच्छेद् द्विजश्रेष्ठास् तीर्थं यज्ञाङ्गसम्भवम् ।
इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ १ ॥

गत्वा तत्र शुचिर् धीमान् आचम्य मनसा हरिम् ।
ध्यात्वोपस्थाय च जलम् इमं मन्त्रम् उदीरयेत् ॥ २ ॥

अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन ।
स्नानं त्वयि करोम्य् अद्य पापं हर नमो ऽस्तु ते ॥ ३ ॥

एवम् उच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितॄन् ।
तिलोदकेन चान्यांश् च सन्तर्प्याचम्य वाग्यतः ॥ ४ ॥

दत्त्वा पितॄणां पिण्डांश् च सम्पूज्य पुरुषोत्तमम् ।
दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः ॥ ५ ॥

सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् ।
कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६ ॥

भुक्त्वा तत्र सुखान् भोगान् यावच् चन्द्रार्कतारकम् ।
च्युतस् तस्माद् इहायातो मोक्षं च लभते ध्रुवम् ॥ ७ ॥

एवं कृत्वा पञ्चतीर्थीम् एकादश्याम् उपोषितः ।
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम् ॥ ८ ॥

स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये ।
प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः ॥ ९ ॥

मुनय ऊचुः-

मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह ।
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ १० ॥

ब्रह्मोवाच-

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ ११ ॥

पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च ।
पुष्करिण्यस् तडागानि वाप्यः कूपास् तथा ह्रदाः ॥ १२ ॥

नानानद्यः समुद्राश् च सप्ताहं पुरुषोत्तमे ।
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ १३ ॥

स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः ।
यत् किञ्चित् क्रियते तत्र तस्मिन् काले ऽक्षयं भवेत् ॥ १४ ॥

शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः ।
हरते दश पापानि तस्माद् दशहरा स्मृता ॥ १५ ॥

यस् तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ १६ ॥

उत्तरे दक्षिणे विप्रास् त्व् अयने पुरुषोत्तमम् ।
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः ॥ १७ ॥

नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ १८ ॥

विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः ।
कृत्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥ १९ ॥

नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ २० ॥

यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् ।
वैशाखस्यासिते पक्षे स यात्य् अच्युतमन्दिरम् ॥ २१ ॥

ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् ।
कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥ २२ ॥