062

Summary (SA)

Chapter 62- The ocean as holy place (Samudrasnānamāhātmya)

{{Ref- SS 121}}

ब्रह्मोवाच-

एवं सम्पूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् ।
प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत् ॥ १ ॥

प्राणस् त्वं सर्वभूतानां योनिश् च सरितां पते ।
तीर्थराज नमस् ते ऽस्तु त्राहि माम् अच्युतप्रिय ॥ २ ॥

स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः ।
तीरे चाभ्यर्च्य विधिवन् नारायणम् अनामयम् ॥ ३ ॥

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।
शतानाम् अश्वमेधानां फलं प्राप्नोति मानवः ॥ ४ ॥

सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।
वृन्दारक इव श्रीमान् रूपयौवनगर्वितः ॥ ५ ॥

विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना ।
कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥ ६ ॥

भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह ।
मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ ७ ॥

पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते ।
रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः ॥ ८ ॥

वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः ।
योगं च वैष्णवं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥ ९ ॥

ग्रहोपरागे सङ्क्रान्त्याम् अयने विषुवे तथा ।
युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ १० ॥

आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ ११ ॥

फलं सहस्रगुणितम् अन्यतीर्थाल् लभन्ति ते ।
पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ १२ ॥

अक्षयां पितरस् तेषां तृप्तिं सम्प्राप्नुवन्ति वै ।
एवं स्नानफलं सम्यक् सागरस्य मयोदितम् ॥ १३ ॥

दानस्य च फलं विप्राः पिण्डदानस्य चैव हि ।
धर्मार्थमोक्षफलदम् आयुष्कीर्तियशस्करम् ॥ १४ ॥

भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् ।
सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ १५ ॥

नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः ।
तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥ १६ ॥

यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः ।
पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ १७ ॥

तीर्थराजस् तु स पुनः सर्वतीर्थफलप्रदः ।
भूतले यानि तीर्थानि सरितश् च सरांसि च ॥ १८ ॥

विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः ।
राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ १९ ॥

तस्मात् समस्ततीर्थेभ्यः श्रेष्ठो ऽसौ सर्वकामदः ।
तमो नाशं यथाभ्येति भास्करे ऽभ्युदिते द्विजाः ॥ २० ॥

स्नानेन तीर्थराजस्य तथा पापस्य सङ्क्षयः ।
तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ २१ ॥

अधिष्ठानं यदा यत्र प्रभोर् नारायणस्य वै ।
कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः ॥ २२ ॥

कोट्यो नवनवत्यस् तु यत्र तीर्थानि सन्ति वै ।
तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् ।
यत् किञ्चित् क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ २३ ॥