061

Summary (SA)

Chapter 61- Prescriptions concerning worship

{{Ref- SS 119-121}}

ब्रह्मोवाच-

देवान् पितॄंस् तथा चान्यान् सन्तर्प्याचम्य वाग्यतः ।
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ १ ॥

पुरं विलिख्य भो विप्रास् तीरे तस्य महोदधेः ।
मध्ये तत्र लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ॥ २ ॥

एवं मण्डलम् आलिख्य पूजयेत् तत्र भो द्विजाः ।
अष्टाक्षरविधानेन नारायणम् अजं विभुम् ॥ ३ ॥

अतः परं प्रवक्ष्यामि कायशोधनम् उत्तमम् ।
अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ ४ ॥

ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् ।
चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ ५ ॥

शुक्लवर्णं प्रवर्षन्तम् अमृतं प्लावयन् महीम् ।
एवं निर्धूतपापस् तु दिव्यदेहस् ततो भवेत् ॥ ६ ॥

अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः ।
वामपादं समारभ्य क्रमशश् चैव विन्यसेत् ॥ ७ ॥

पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च ।
करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ८ ॥

एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ।
ओङ्कारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ ९ ॥

नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः ।
मोकारं कालम् एवाहुर् वामकट्यां निधापयेत् ॥ १० ॥

नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः ।
राकारस् तेज इत्य् आहुर् नाभिदेशे व्यवस्थितः ॥ ११ ॥

वायव्यो ऽयं यकारस् तु वामस्कन्धे समाश्रितः ।
णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः ।
यकारो ऽयं शिरस्थश् च यत्र लोकाः प्रतिष्ठिताः ॥ १२ ॥

ॐ विष्णवे नमः शिरः ॐ ज्वलनाय नमः शिखा ।
ॐ विष्णवे नमः कवचम् ॐ विष्णवे नमः स्फुरणं दिशोबन्धाय ।
ॐ हुम्फडस्त्रम् ॐ शिरसि शुक्लो वासुदेव इति ।
ॐ आं ललाटे रक्तः सङ्कर्षणो गरुत्मान् वह्निस् तेज आदित्य इति ।
ॐ आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति ।
ॐ आं हृदये कृष्णो ऽनिरुद्धः सर्वशक्तिसमन्वित इति ।
एवं चतुर्व्यूहम् आत्मानं कृत्वा ततः कर्म समाचरेत् ॥ १३ ॥

ममाग्रे ऽवस्थितो विष्णुः पृष्ठतश् चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ १४ ॥

उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशो यास् तु तासु सर्वासु माधवः ॥ १५ ॥

गच्छतस् तिष्ठतो वापि जाग्रतः स्वपतो ऽपि वा ।
नरसिंहकृता गुप्तिर् वासुदेवमयो ह्य् अहम् ॥ १६ ॥

एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् ।
यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ १७ ॥

ततश् चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु ।
फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ १८ ॥

तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् ।
पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च ॥ १९ ॥

ततो विचिन्त्य हृदय ओङ्कारं ज्योतीरूपिणम् ।
कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ २० ॥

अष्टाक्षरं ततो मन्त्रं विन्यसेच् च यथाक्रमम् ।
तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ २१ ॥

द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् ।
ततो ऽवधार्य हृदये कर्णिकायां बहिर् न्यसेत् ॥ २२ ॥

चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् ।
चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् ।
ततश् चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे ॥ २३ ॥

आवाहनमन्त्रः-

मीनरूपो वराहश् च नरसिंहो ऽथ वामनः ।
आयातु देवो वरदो मम नारायणो ऽग्रतः ।
ॐ नमो नारायणाय नमः ॥ २४ ॥

स्थापनमन्त्रः-

कर्णिकायां सुपीठे ऽत्र पद्मकल्पितम् आसनम् ।
सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन ।
ॐ नमो नारायणाय नमः ॥ २५ ॥

अर्घमन्त्रः-

ॐ त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः ।
ॐ नमो नारायणाय नमः ॥ २६ ॥

पाद्यमन्त्रः-

ॐ पाद्यं पादयोर् देव पद्मनाभ सनातन ।
विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन ।
ॐ नमो नारायणाय नमः ॥ २७ ॥

मधुपर्कमन्त्रः-

मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव ।
मया निवेदितं भक्त्या गृहाण पुरुषोत्तम ।
ॐ नमो नारायणाय नमः ॥ २८ ॥

आचमनीयमन्त्रः-

मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् ।
गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ।
ॐ नमो नारायणाय नमः ॥ २९ ॥

स्नानमन्त्रः-

त्वम् आपः पृथिवी चैव ज्योतिस् त्वं वायुर् एव च ।
लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्य् अहम् ।
ॐ नमो नारायणाय नमः ॥ ३० ॥

वस्त्रमन्त्रः-

देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित ।
स्वर्णवर्णप्रभे देव वाससी तव केशव ।
ॐ नमो नारायणाय नमः ॥ ३१ ॥

विलेपनमन्त्रः-

शरीरं ते न जानामि चेष्टां चैव च केशव ।
मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् ।
ॐ नमो नारायणाय नमः ॥ ३२ ॥

उपवीतमन्त्रः-

ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना ।
सावित्रीग्रन्थिसंयुक्तम् उपवीतं तवार्पये ।
ॐ नमो नारायणाय नमः ॥ ३३ ॥

अलङ्कारमन्त्रः-

दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ ।
गात्राणि तव शोभन्तु सालङ्काराणि माधव ।
ॐ नमो नारायणाय नमः ॥ ३४ ॥

ॐ नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥ ३५ ॥

धूपमन्त्रः-

वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश् च ते ।
मया निवेदितो भक्त्या धूपो ऽयं प्रतिगृह्यताम् ।
ॐ नमो नारायणाय नमः ॥ ३६ ॥

दीपमन्त्रः-

सूर्यचन्द्रसमो ज्योतिर् विद्युदग्न्योस् तथैव च ।
त्वम् एव ज्योतिषां देव दीपो ऽयं प्रतिगृह्यताम् ।
ॐ नमो नारायणाय नमः ॥ ३७ ॥

नैवेद्यमन्त्रः-

अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् ।
मया निवेदितं भक्त्या नैवेद्यं तव केशव ।
ॐ नमो नारायणाय नमः ॥ ३८ ॥

पूर्वे दले वासुदेवं याम्ये सङ्कर्षणं न्यसेत् ।
प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे ॥ ३९ ॥

वाराहं च तथाग्नेये नरसिंहं च नैरृते ।
वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥ ४० ॥

तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् ।
वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥ ४१ ॥

तथा महागदां चैव न्यसेद् देवस्य दक्षिणे ।
ततः शार्ङ्गं धनुर् विद्वान् न्यसेद् देवस्य वामतः ॥ ४२ ॥

दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् ।
श्रियं दक्षिणतः स्थाप्य पुष्टिम् उत्तरतो न्यसेत् ॥ ४३ ॥

वनमालां च पुरतस् ततः श्रीवत्सकौस्तुभौ ।
विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥ ४४ ॥

ततो ऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् ।
इन्द्रम् अग्निं यमं चैव नैरृतं वरुणं तथा ॥ ४५ ॥

वायुं धनदम् ईशानम् अनन्तं ब्रह्मणा सह ।
पूजयेत् तान्त्रिकैर् मन्त्रैर् अधश् चोर्ध्वं तथैव च ॥ ४६ ॥

एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् ।
लभेद् अभिमतान् कामान् नरो नास्त्य् अत्र संशयः ॥ ४७ ॥

अनेनैव विधानेन मण्डलस्थं जनार्दनम् ।
पूजितं यः सम्पश्येत स विशेद् विष्णुम् अव्ययम् ॥ ४८ ॥

सकृद् अप्य् अर्चितो येन विधिनानेन केशवः ।
जन्ममृत्युजरां तीर्त्वा स विष्णोः पदम् आप्नुयात् ॥ ४९ ॥

यः स्मरेत् सततं भक्त्या नारायणम् अतन्द्रितः ।
अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥ ५० ॥

ओङ्कारादिसमायुक्तं नमःकारान्तदीपितम् ।
तन्नाम सर्वतत्त्वानां मन्त्र इत्य् अभिधीयते ॥ ५१ ॥

अनेनैव विधानेन गन्धपुष्पं निवेदयेत् ।
एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ ५२ ॥

मुद्रास् ततो निबध्नीयाद् यथोक्तक्रमचोदिताः ।
जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥ ५३ ॥

अष्टाविंशतिम् अष्टौ वा शतम् अष्टोत्तरं तथा ।
कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥ ५४ ॥

पद्मं शङ्खश् च श्रीवत्सो गदा गरुड एव च ।
चक्रं खड्गश् च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥ ५५ ॥

विसर्जनमन्त्रः-

गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम ।
यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् ।
[ॐ नमो नारायणायेति विसर्जनम्] ॥ ५६ ॥

अर्चनं ये न जानन्ति हरेर् मन्त्रैर् यथोदितम् ।
ते तत्र मूलमन्त्रेण पूजयन्त्व् अच्युतं सदा ॥ ५७ ॥