Summary (SA)
Chapter 60- Matsyamādhava-Māhātmya; rules for bathing in the ocean
{{Ref- SS 117-118}}
ब्रह्मोवाच-
श्वेतमाधवम् आलोक्य समीपे मत्स्यमाधवम् ।
एकार्णवजले पूर्वं रोहितं रूपम् आस्थितम् ॥ १ ॥
वेदानां हरणार्थाय रसातलतले स्थितम् ।
चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम् ॥ २ ॥
आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् ।
प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते ॥ ३ ॥
प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।
काले पुनर् इहायातो राजा स्यात् पृथिवीतले ॥ ४ ॥
वत्समाधवम् आसाद्य दुराधर्षो भवेन् नरः ।
दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसङ्गरः ॥ ५ ॥
योगं प्राप्य हरेः पश्चात् ततो मोक्षम् अवाप्नुयात् ।
मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् ।
यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात् ॥ ६ ॥
मुनय ऊचुः-
भगवञ् श्रोतुम् इच्छामो मार्जनं वरुणालये ।
क्रियते स्नानदानादि तस्याशेषफलं वद ॥ ७ ॥
ब्रह्मोवाच-
शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि ।
भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यम् उत्तमम् ॥ ८ ॥
मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते ।
चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ ९ ॥
तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।
पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ १० ॥
मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् ।
इन्द्रद्युम्नसरश् चैव पञ्चतीर्थीविधिः स्मृतः ॥ ११ ॥
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।
तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम् ॥ १२ ॥
कायवाङ्मानसैः शुद्धस् तद्भावो नान्यमानसः ।
सर्वद्वन्द्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ १३ ॥
कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् ।
प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ १४ ॥
यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् ।
पुण्यं चाप्नोति विपुलं गतिम् इष्टां च भो द्विजाः ॥ १५ ॥
तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे ।
यथासङ्ख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ १६ ॥
वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः ।
वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ १७ ॥
योजनं पादहीनं च योजनार्धं तदर्धकम् ।
प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ १८ ॥
यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् ।
दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम् ॥ १९ ॥
यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् ।
सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ २० ॥
प्रणिपत्य ततस् तं भोः परिपूज्य ततः पुनः ।
मुच्यते सर्वरोगाद्यैस् तथा पापैर् ग्रहादिभिः ॥ २१ ॥
उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् ।
गत्वाचम्य शुचिस् तत्र ध्यात्वा नारायणं परम् ॥ २२ ॥
न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः ।
ॐ नमो नारायणायेति यं वदन्ति मनीषिणः ॥ २३ ॥
किं कार्यं बहुभिर् मन्त्रैर् मनोविभ्रमकारकैः ।
ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ २४ ॥
आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः ।
विष्णोस् तास् त्व् अयनं पूर्वं तेन नारायणः स्मृतः ॥ २५ ॥
नारायणपरा वेदा नारायणपरा द्विजाः ।
नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ २६ ॥
नारायणपरा पृथ्वी नारायणपरं जलम् ।
नारायणपरो वह्निर् नारायणपरं नभः ॥ २७ ॥
नारायणपरो वायुर् नारायणपरं मनः ।
अहङ्कारश् च बुद्धिश् च उभे नारायणात्मके ॥ २८ ॥
भूतं भव्यं भविष्यं च यत् किञ्चिज् जीवसञ्ज्ञितम् ।
स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ २९ ॥
शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च ।
प्रकृतिः पुरुषश् चैव सर्वे नारायणात्मकाः ॥ ३० ॥
जले स्थले च पाताले स्वर्गलोके ऽम्बरे नगे ।
अवष्टभ्य इदं सर्वम् आस्ते नारायणः प्रभुः ॥ ३१ ॥
किं चात्र बहुनोक्तेन जगद् एतच् चराचरम् ।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥ ३२ ॥
नारायणात् परं किञ्चिन् नेह पश्यामि भो द्विजाः ।
तेन व्याप्तम् इदं सर्वं दृश्यादृश्यं चराचरम् ॥ ३३ ॥
आपो ह्य् आयतनं विष्णोः स च एवाम्भसां पतिः ।
तस्माद् अप्सु स्मरेन् नित्यं नारायणम् अघापहम् ॥ ३४ ॥
स्नानकाले विशेषेण चोपस्थाय जले शुचिः ।
स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत् ॥ ३५ ॥
ओङ्कारं च नकारं च अङ्गुष्ठे हस्तयोर् न्यसेत् ।
शेषैर् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत् ॥ ३६ ॥
ओङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् ।
मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥ ३७ ॥
राकारं नाभिदेशे तु यकारं वामबाहुके ।
णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥ ३८ ॥
अधश् चोर्ध्वं च हृदये पार्श्वतः पृष्ठतो ऽग्रतः ।
ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः ॥ ३९ ॥
पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ।
पश्चिमे श्रीधरो देवः केशवस् तु तथोत्तरे ॥ ४० ॥
पातु विष्णुस् तथाग्नेये नैरृते माधवो ऽव्ययः ।
वायव्ये तु हृषीकेशस् तथेशाने च वामनः ॥ ४१ ॥
भूतले पातु वाराहस् तथोर्ध्वं च त्रिविक्रमः ।
कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः ॥ ४२ ॥
अहं नारायणो देवः शङ्खचक्रगदाधरः ।
एवं ध्यात्वा तदात्मानम् इमं मन्त्रम् उदीरयेत् ॥ ४३ ॥
त्वम् अग्निर् द्विपदां नाथ रेतोधाः कामदीपनः ।
प्रधानः सर्वभूतानां जीवानां प्रभुर् अव्ययः ॥ ४४ ॥
अमृतस्यारणिस् त्वं हि देवयोनिर् अपां पते ।
वृजिनं हर मे सर्वं तीर्थराज नमो ऽस्तु ते ॥ ४५ ॥
एवम् उच्चार्य विधिवत् ततः स्नानं समाचरेत् ।
अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥ ४६ ॥
कृत्वा तु वैदिकैर् मन्त्रैर् अभिषेकं च मार्जनम् ।
अन्तर् जले जपेत् पश्चात् त्रिर् आवृत्त्याघमर्षणम् ॥ ४७ ॥
हयमेधो यथा विप्राः सर्वपापहरः क्रतुः ।
तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥ ४८ ॥
उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
प्राणान् आयम्य चाचम्य सन्ध्यां चोपास्य भास्करम् ॥ ४९ ॥
उपतिष्ठेत् ततश् चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ।
उपस्थायोर्ध्वबाहुश् च तल्लिङ्गैर् भास्करं ततः ॥ ५० ॥
गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् ।
अन्यांश् च सौरमन्त्रांश् च जप्त्वा तिष्ठन् समाहितः ॥ ५१ ॥
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ।
स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्य् ऋषीन् ॥ ५२ ॥
मनुष्यांश् च पितॄंश् चान्यान् नामगोत्रेण मन्त्रवित् ।
तोयेन तिलमिश्रेण विधिवत् सुसमाहितः ॥ ५३ ॥
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः ।
अधिकारी भवेत् पश्चात् पितॄणां तर्पणे द्विजः ॥ ५४ ॥
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ।
तर्पणे तूभयं कुर्याद् एष एव विधिः सदा ॥ ५५ ॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
तृप्यताम् इति सिञ्चेत् तु नामगोत्रेण वाग्यतः ॥ ५६ ॥
कायस्थैर् यस् तिलैर् मोहात् करोति पितृतर्पणम् ।
तर्पितास् तेन पितरस् त्वङ्मांसरुधिरास्थिभिः ॥ ५७ ॥
अङ्गस्थैर् न तिलैः कुर्याद् देवतापितृतर्पणम् ।
रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत् ॥ ५८ ॥
भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः ।
वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥ ५९ ॥
स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः ।
पितॄणां नोपतिष्ठेत सलिलं तन् निरर्थकम् ॥ ६० ॥
उदके नोदकं कुर्यात् पितृभ्यश् च कदाचन ।
उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम् ॥ ६१ ॥
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥ ६२ ॥
पितॄणाम् अक्षयं स्थानं मही दत्ता मया द्विजाः ।
तस्मात् तत्रैव दातव्यं पितॄणां प्रीतिम् इच्छता ॥ ६३ ॥
भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः ।
भूम्यां चैव लयं याता भूमौ दद्यात् ततो जलम् ॥ ६४ ॥
आस्तीर्य च कुशान् साग्रांस् तान् आवाह्य स्वमन्त्रतः ।
प्राचीनाग्रेषु वै देवान् याम्याग्रेषु तथा पितॄन् ॥ ६५ ॥