Summary (SA)
Chapter 59- Śvetamādhava-Māhātmya
{{Ref- SS 115-117}}
ब्रह्मोवाच-
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ १ ॥
मया चाराधितश् चासौ शक्रेण तदनन्तरम् ।
विभीषणेन रामेण कस् तं नाराधयेत् पुमान् ॥ २ ॥
श्वेतगङ्गां नरः स्नात्वा यः पश्येच् छ्वेतमाधवम् ।
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ३ ॥
मुनय ऊचुः-
श्वेतमाधवमाहात्म्यं वक्तुम् अर्हस्य् अशेषतः ।
विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ ४ ॥
तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले ।
श्वेताख्यं माधवं देवं कस् तं स्थापितवान् पुरा ॥ ५ ॥
ब्रह्मोवाच-
अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली ।
मतिमान् धर्मविच् छूरः सत्यसन्धो दृढव्रतः ॥ ६ ॥
यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः ।
भवन्त्य् आयुष्मन्तो लोका बालस् तस्मिन् न सीदति ॥ ७ ॥
वर्तमाने तदा राज्ये किञ्चित् काले गते द्विजाः ।
कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ ८ ॥
सुतो ऽस्याजातदन्तश् च मृतः कालवशाद् द्विजाः ।
तम् आदाय ऋषिर् धीमान् नृपस्यान्तिकम् आनयत् ॥ ९ ॥
दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् ।
प्रतिज्ञाम् अकरोद् विप्रा जीवनार्थं शिशोस् तदा ॥ १० ॥
राजोवाच-
यावद् बालम् अहं त्व् एनं यमस्य सदने गतम् ।
नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ ११ ॥
ब्रह्मोवाच-
एवम् उक्त्वासितैः पद्मैः शतैर् दशशतादिकैः ।
सम्पूज्य च महादेवं राजा विद्यां पुनर् जपेत् ॥ १२ ॥
अतिभक्तिं तु सञ्चिन्त्य नृपस्य जगदीश्वरः ।
सान्निध्यम् अगमत् तुष्टो ऽस्मीत्य् उवाच सहोमया ॥ १३ ॥
श्रुत्वैवं गिरम् ईशस्य विलोक्य सहसा हरम् ।
भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ १४ ॥
शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् ।
महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ १५ ॥
श्वेत उवाच-
कारुण्यं यदि मे दृष्ट्वा प्रसन्नो ऽसि प्रभो यदि ।
कालस्य वशम् आपन्नो बालको द्विजपुत्रकः ॥ १६ ॥
जीवत्व् एष पुनर् बाल इत्य् एवं व्रतम् आहितम् ।
अकस्माच् च मृतं बालं नियम्य भगवन् स्वयम् ।
यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ १७ ॥
ब्रह्मोवाच-
श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस् तदा ।
कालम् आज्ञापयाम् आस सर्वभूतभयङ्करम् ॥ १८ ॥
नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः ।
बालं सञ्जीवयाम् आस मृत्योर् मुखगतं पुनः ॥ १९ ॥
कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः ।
देव्या सहोमया देवस् तत्रैवान्तरधीयत ॥ २० ॥
एवं सञ्जीवयाम् आस मुनेः पुत्रं नृपोत्तमः ॥ २१ ॥
मुनय ऊचुः-
देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ।
ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ २२ ॥
ब्रह्मोवाच-
शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् ।
प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः ॥ २३ ॥
माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् ।
यच् छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः ॥ २४ ॥
श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः ।
शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ २५ ॥
स कृत्वा राज्यम् एकाग्र्यं वर्षाणां च सहस्रशः ।
विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस् तथा ॥ २६ ॥
केशवाराधने विप्रा निश्चितं व्रतम् आस्थितः ।
स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ २७ ॥
तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके ।
श्वेतो ऽथ कारयाम् आस प्रासादं शुभलक्षणम् ॥ २८ ॥
धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ।
ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ २९ ॥
कृतः स भगवाञ् श्वेतो माधवश् चन्द्रसन्निभः ।
प्रतिष्ठां विधिवच् चक्रे यथोद्दिष्टां स्वयं तु सः ॥ ३० ॥
दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् ।
अथानन्तरतो राजा माधवस्य च सन्निधौ ॥ ३१ ॥
महीं निपत्य सहसा ओङ्कारं द्वादशाक्षरम् ।
जपन् स मौनम् आस्थाय मासम् एकं समाधिना ॥ ३२ ॥
निराहारो महाभागः सम्यग् विष्णुपदे स्थितः ।
जपान्ते स तु देवेशं संस्तोतुम् उपचक्रमे ॥ ३३ ॥
श्वेत उवाच-
ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ ३४ ॥
नमो ऽस्तु बहुरूपाय विश्वरूपाय वेधसे ।
निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ ३५ ॥
ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च ।
नमो ऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ ३६ ॥
ॐ नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे ।
नमः सहस्रपादाय सहस्रभुजमन्यवे ॥ ३७ ॥
ॐ नमो ऽस्तु वराहाय वरदाय सुमेधसे ।
वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ ३८ ॥
ॐ नमो बालरूपाय बालपद्मप्रभाय च ।
बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ ३९ ॥
केशवाय नमो नित्यं नमो नारायणाय च ।
माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ ४० ॥
ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे ।
मधुसूदनाय नमः शुद्धायांशुधराय च ॥ ४१ ॥
नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे ।
त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ ४२ ॥
सृष्टिकर्त्रे नमस् तुभ्यं गोप्त्रे धात्रे नमो नमः ।
नमो ऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥ ४३ ॥
नमो वामनरूपाय नमो वामनकर्मणे ।
नमो वामननेत्राय नमो वामनवाहिने ॥ ४४ ॥
नमो रम्याय पूज्याय नमो ऽस्त्व् अव्यक्तरूपिणे ।
अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ ४५ ॥
संसारार्णवपोताय प्रशान्ताय स्वरूपिणे ।
शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ ४६ ॥
भवभङ्गकृते चैव भवभोगप्रदाय च ।
भवसङ्घातरूपाय भवसृष्टिकृते नमः ॥ ४७ ॥
ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च ।
सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ ४८ ॥
ॐ नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे ।
ऋक्स्तुताय नमस् तुभ्यं नम ऋक्साधनाय च ॥ ४९ ॥
ॐ नमो यजुषां धात्रे यजूरूपधराय च ।
यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ ५० ॥
ॐ नमः श्रीपते देव श्रीधराय वराय च ।
श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ ५१ ॥
ॐ नमः सामरूपाय सामध्वनिवराय च ।
ॐ नमः सामसौम्याय सामयोगविदे नमः ॥ ५२ ॥
साम्ने च सामगीताय ॐ नमः सामधारिणे ।
सामयज्ञविदे चैव नमः सामकराय च ॥ ५३ ॥
नमस् त्व् अथर्वशिरसे नमो ऽथर्वस्वरूपिणे ।
नमो ऽस्त्व् अथर्वपादाय नमो ऽथर्वकराय च ॥ ५४ ॥
ॐ नमो वज्रशीर्षाय मधुकैटभघातिने ।
महोदधिजलस्थाय वेदाहरणकारिणे ॥ ५५ ॥
नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः ।
नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ ५६ ॥
नारायण नमस् तुभ्यं नमो लोकहिताय च ।
ॐ नमो मोहनाशाय भवभङ्गकराय च ॥ ५७ ॥
गतिप्रदाय च नमो नमो बन्धहराय च ।
त्रैलोक्यतेजसां कर्त्रे नमस् तेजःस्वरूपिणे ॥ ५८ ॥
योगीश्वराय शुद्धाय रामायोत्तरणाय च ।
सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ ५९ ॥
वासुदेवाय वन्द्याय वामदेवाय वै नमः ।
देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ ६० ॥
देवैर् वन्दितदेहाय नमस् ते दिव्यमौलिने ।
नमो वासनिवासाय वासव्यवहराय च ॥ ६१ ॥
ॐ नमो वसुकर्त्रे च वसुवासप्रदाय च ।
नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ ६२ ॥
यतियोगकरेशाय नमो यज्ञाङ्गधारिणे ।
सङ्कर्षणाय च नमः प्रलम्बमथनाय च ॥ ६३ ॥
मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे ।
नमो ऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ ६४ ॥
न मे ऽस्ति त्वाम् ऋते बन्धुर् नरकोत्तारणे प्रभो ।
अतस् त्वां सर्वभावेन प्रणतो नतवत्सल ॥ ६५ ॥
मलं यत् कायजं वापि मानसं चैव केशव ।
न तस्यान्यो ऽस्ति देवेश क्षालकस् त्वाम् ऋते ऽच्युत ॥ ६६ ॥
संसर्गाणि समस्तानि विहाय त्वाम् उपस्थितः ।
सङ्गो मे ऽस्तु त्वया सार्धम् आत्मलाभाय केशव ॥ ६७ ॥
कष्टम् आपत् सुदुष्पारं संसारं वेद्मि केशव ।
तापत्रयपरिक्लिष्टस् तेन त्वां शरणं गतः ॥ ६८ ॥
एषणाभिर् जगत् सर्वं मोहितं मायया तव ।
आकर्षितं च लोभाद्यैर् अतस् त्वाम् अहम् आश्रितः ॥ ६९ ॥
नास्ति किञ्चित् सुखं विष्णो संसारस्थस्य देहिनः ।
यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ ७० ॥
तथा फलविहीनं तु सुखम् आत्यन्तिकं लभेत् ।
नष्टो विवेकशून्यो ऽस्मि दृश्यते जगद् आतुरम् ॥ ७१ ॥
गोविन्द त्राहि संसारान् माम् उद्धर्तुं त्वम् अर्हसि ।
मग्नस्य मोहसलिले निरुत्तारे भवार्णवे ।
उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋते ऽन्यो न विद्यते ॥ ७२ ॥
ब्रह्मोवाच-
इत्थं स्तुतस् ततस् तेन राज्ञा श्वेतेन भो द्विजाः ।
तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥ ७३ ॥
भक्तिं तस्य तु सञ्चिन्त्य देवदेवो जगद्गुरुः ।
आजगाम नृपस्याग्रे सर्वैर् देवैर् वृतो हरिः ॥ ७४ ॥
नीलजीमूतसङ्काशः पद्मपत्त्रायतेक्षणः ।
दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम् ॥ ७५ ॥
क्षीरोदजलसङ्काशो विमलश् चन्द्रसन्निभः ।
रराज वामहस्ते ऽस्य पाञ्चजन्यो महाद्युतिः ॥ ७६ ॥
पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः ।
उवाच साधु भो राजन् यस्य ते मतिर् उत्तमा ।
यद् इष्टं वर भद्रं ते प्रसन्नो ऽस्मि तवानघ ॥ ७७ ॥
ब्रह्मोवाच-
श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम् ।
प्रणम्य शिरसोवाच श्वेतस् तद्गतमानसः ॥ ७८ ॥
श्वेत उवाच-
यद्य् अहं भगवन् भक्तः प्रयच्छ वरम् उत्तमम् ।
आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदम् अव्ययम् ॥ ७९ ॥
विमलं विरजं शुद्धं संसारासङ्गवर्जितम् ।
तत् पदं गन्तुम् इच्छामि त्वत्प्रसादाज् जगत्पते ॥ ८० ॥
श्रीभगवान् उवाच-
यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः ।
नाभिगच्छन्ति यद् रम्यं परं पदम् अनामयम् ॥ ८१ ॥
यास्यसि परमं स्थानं राज्यामृतम् उपास्य च ।
सर्वांल् लोकान् अतिक्रम्य मम लोकं गमिष्यसि ॥ ८२ ॥
कीर्तिस् तवात्र राजेन्द्र त्रींल् लोकांश् च गमिष्यति ।
सान्निध्यं मम चैवात्र सर्वदैव भविष्यति ॥ ८३ ॥
श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः ।
कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयम् अम्बु च ॥ ८४ ॥
स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः ।
यस् त्व् इमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम् ॥ ८५ ॥
शङ्खगोक्षीरसङ्काशाम् अशेषाघविनाशिनीम् ।
तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम् ॥ ८६ ॥
विहाय सर्वलोकान् वै मम लोके महीयते ।
मन्वन्तराणि तत्रैव देवकन्याभिर् आवृतः ॥ ८७ ॥
गीयमानश् च मधुरं सिद्धगन्धर्वसेवितः ।
भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह ॥ ८८ ॥
च्युतस् तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत् ।
वेदवेदाङ्गविच् छ्रीमान् भोगवांश् चिरजीवितः ॥ ८९ ॥
गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः ।
रूपवान् बहुभाग्यश् च पुत्रपौत्रसमन्वितः ॥ ९० ॥
पुरुषोत्तमं पुनः प्राप्य वटमूले ऽथ सागरे ।
त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥ ९१ ॥