Summary (SA)
Chapter 58- Narasiṃha-Māhātmya
{{Ref- SS 113-115}}
ब्रह्मोवाच-
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च ।
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ १ ॥
निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः ।
प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः ॥ २ ॥
इन्द्रनीलमयो विष्णुर् यत्रास्ते वालुकावृतः ।
अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ३ ॥
सर्वदेवमयो यो ऽसौ हतवान् असुरोत्तमम् ।
स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ ४ ॥
भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् ।
मुच्यते पातकैर् मर्त्यः समस्तैर् नात्र संशयः ॥ ५ ॥
नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः ।
न तेषां दुष्कृतं किञ्चित् फलं स्याद् यद् यद् ईप्सितम् ॥ ६ ॥
तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ।
धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति ॥ ७ ॥
मुनय ऊचुः-
माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् ।
यथा कथयसे देव तेन नो विस्मयो महान् ॥ ८ ॥
प्रभावं तस्य देवस्य विस्तरेण जगत्पते ।
श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ९ ॥
यथा प्रसीदेद् देवो ऽसौ नरसिंहो महाबलः ।
भक्तानाम् उपकाराय ब्रूहि देव नमो ऽस्तु ते ॥ १० ॥
प्रसादान् नरसिंहस्य या भवन्त्य् अत्र सिद्धयः ।
ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ ११ ॥
ब्रह्मोवाच-
शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम ।
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ १२ ॥
कः शक्नोति गुणान् वक्तुं समस्तांस् तस्य भो द्विजाः ।
सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ १३ ॥
याः काश्चित् सिद्धयश् चात्र श्रूयन्ते दैवमानुषाः ।
प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ १४ ॥
स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे ।
प्रसादात् तस्य देवस्य भवत्य् अव्याहता गतिः ॥ १५ ॥
असाध्यं तस्य देवस्य नास्त्य् अत्र सचराचरे ।
नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ १६ ॥
विधानं तस्य वक्ष्यामि भक्तानाम् उपकारकम् ।
येन प्रसीदेच् चैवासौ सिंहार्धकृतविग्रहः ॥ १७ ॥
शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् ।
नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः ॥ १८ ॥
शाकयावकमूलैस् तु फलपिण्याकसक्तुकैः ।
पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः ॥ १९ ॥
कोशकौपीनवासाश् च ध्यानयुक्तो जितेन्द्रियः ।
अरण्ये विजने देशे पर्वते सिन्धुसङ्गमे ॥ २० ॥
ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा ।
प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ २१ ॥
द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुङ्गवाः ।
जपेल् लक्षाणि वै विंशन् मनसा संयतेन्द्रियः ॥ २२ ॥
उपपातकयुक्तश् च महापातकसंयुतः ।
मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः ॥ २३ ॥
कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ।
पुण्यगन्धादिभिर् धूपैः प्रणम्य शिरसा प्रभुम् ॥ २४ ॥
कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके ।
प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते ॥ २५ ॥
भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते ।
तेजः सोढुं न शक्ताः स्युर् ब्रह्मरुद्रादयः सुराः ॥ २६ ॥
किं पुनर् दानवा लोके सिद्धगन्धर्वमानुषाः ।
विद्याधरा यक्षगणाः सकिन्नरमहोरगाः ॥ २७ ॥
मन्त्रं यान् आसुरान् हन्तुं जपन्त्य् एके ऽन्यसाधकाः ।
ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ २८ ॥
सकृज्जप्तं तु कवचं रक्षेत् सर्वम् उपद्रवम् ।
द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ २९ ॥
गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः ।
भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ ३० ॥
त्रिर्जप्तं कवचं दिव्यम् अभेद्यं च सुरासुरैः ।
द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥ ३१ ॥
रक्षते भगवान् देवो नरसिंहो महाबलः ।
ततो गत्वा बिलद्वारम् उपोष्य रजनीत्रयम् ॥ ३२ ॥
पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् ।
पलाशसमिधस् तत्र जुहुयात् त्रिमधुप्लुताः ॥ ३३ ॥
द्वे शते द्विजशार्दूला वषट्कारेण साधकः ।
ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥ ३४ ॥
ततो विशेत् तु निःशङ्कं कवची विवरं बुधः ।
गच्छतः सङ्कटं तस्य तमोमोहश् च नश्यति ॥ ३५ ॥
राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः ।
नरसिंहं स्मरंस् तत्र पातालं विशते द्विजाः ॥ ३६ ॥
गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यम् अव्ययम् ।
ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥ ३७ ॥
निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च ।
प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥ ३८ ॥
ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः ।
पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥ ३९ ॥
क्रीडते सह कन्याभिर् यावद् आभूतसम्प्लवम् ।
भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥ ४० ॥
यदा न रोचते वासस् तस्मान् निर्गच्छते पुनः ।
पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥ ४१ ॥
रसं रसायनं चैव पादुकाञ्जनम् एव च ।
कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥ ४२ ॥
कमण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा ।
सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥ ४३ ॥
ज्वलद्वह्निस्फुलिङ्गोर्मिवेष्टितं त्रिशिखं हृदि ।
सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम् ॥ ४४ ॥
विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् ।
स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥ ४५ ॥
महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् ।
हृदन्ते वै ततः शीघ्रं नश्येयुर् दारुणा ग्रहाः ॥ ४६ ॥
बालानां कण्ठके बद्धं रक्षा भवति नित्यशः ।
गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥ ४७ ॥
व्याधिजाते समिद्भिश् च घृतक्षीरेण होमयेत् ।
त्रिसन्ध्यं मासम् एकं तु सर्वरोगान् विनाशयेत् ॥ ४८ ॥
असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे ।
यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥ ४९ ॥
अष्टोत्तरशतं त्व् एके पूजयित्वा मृगाधिपम् ।
मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥ ५० ॥
रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् ।
सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥ ५१ ॥
लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत् ।
नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥ ५२ ॥
जपेत् सङ्ख्याविहीनं तु पूजयित्वा जलाशये ।
यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः ॥ ५३ ॥
जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी ।
अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥ ५४ ॥
जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् ।
तम् एवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः ॥ ५५ ॥
महावातो मुहूर्तेन आगच्छेन् नात्र संशयः ।
पुनश् च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा ॥ ५६ ॥
अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः ।
गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः ॥ ५७ ॥
तस्मात् तं मुनिशार्दूला भक्त्या सम्पूजयेत् सदा ।
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५८ ॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥ ५९ ॥
सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ।
मुच्यन्ते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः ॥ ६० ॥
सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्य् अभिवाञ्छितम् ।
देवत्वम् अमरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥ ६१ ॥
यक्षविद्याधरत्वं च तथान्यच् चाभिवाञ्छितम् ।
दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम् ॥ ६२ ॥
प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् ।
नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम् ॥ ६३ ॥
निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥ ६४ ॥
मुच्यते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः ।
सङ्ग्रामे सङ्कटे दुर्गे चोरव्याघ्रादिपीडिते ॥ ६५ ॥
कान्तारे प्राणसन्देहे विषवह्निजलेषु च ।
राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥ ६६ ॥
स्मृत्वा तं पुरुषः सर्वै राजग्रामैर् विमुच्यते ।
सूर्योदये यथा नाशं तमो ऽभ्येति महत्तरम् ॥ ६७ ॥
तथा सन्दर्शने तस्य विनाशं यान्त्य् उपद्रवाः ।
गुटिकाञ्जनपातालपादुके च रसायनम् ॥ ६८ ॥
नरसिंहे प्रसन्ने तु प्राप्नोत्य् अन्यांश् च वाञ्छितान् ।
यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम् ॥ ६९ ॥
तांस् तान् कामान् अवाप्नोति नरो नास्त्य् अत्र संशयः ।
दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥ ७० ॥
दशानाम् अश्वमेधानां फलं दशगुणं लभेत् ।
पापैः सर्वैर् विनिर्मुक्तो गुणैः सर्वैर् अलङ्कृतः ॥ ७१ ॥
सर्वकामसमृद्धात्मा जरामरणवर्जितः ।
सौवर्णेन विमानेन किङ्किणीजालमालिना ॥ ७२ ॥
सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥ ७३ ॥
दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना ।
कुलैकविंशम् उद्धृत्य देववन् मुदितः सुखी ॥ ७४ ॥
स्तूयमानो ऽप्सरोभिश् च विष्णुलोकं व्रजेन् नरः ।
भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः ॥ ७५ ॥
गन्धर्वैर् अप्सरैर् युक्तः कृत्वा रूपं चतुर्भुजम् ।
मनोह्लादकरं सौख्यं यावद् आभूतसम्प्लवम् ॥ ७६ ॥
पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले ।
चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः ।
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥ ७७ ॥