Summary (SA)
Chapter 57- Pañcatīrtha-Māhātmya
{{Ref- SS 112-113}}
ब्रह्मोवाच-
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः ।
यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥ १ ॥
मार्कण्डेयह्रदं गत्वा नरश् चोदङ्मुखः शुचिः ।
निमज्जेत् तत्र वारांस् त्रीन् इमं मन्त्रम् उदीरयेत् ॥ २ ॥
संसारसागरे मग्नं पापग्रस्तम् अचेतनम् ।
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमो ऽस्तु ते ॥ ३ ॥
नमः शिवाय शान्ताय सर्वपापहराय च ।
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ ४ ॥
नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् ।
तिलोदकेन मतिमान् पितॄंश् चान्यांश् च तर्पयेत् ॥ ५ ॥
स्नात्वा तथैव चाचम्य ततो गच्छेच् छिवालयम् ।
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ६ ॥
मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् ।
अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ ७ ॥
त्रिलोचन नमस् ते ऽस्तु नमस् ते शशिभूषण ।
त्राहि मां त्वं विरूपाक्ष महादेव नमो ऽस्तु ते ॥ ८ ॥
मार्कण्डेयह्रदे त्व् एवं स्नात्वा दृष्ट्वा च शङ्करम् ।
दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः ॥ ९ ॥
पापैः सर्वैर् विनिर्मुक्तः शिवलोकं स गच्छति ।
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ १० ॥
इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः ।
शाङ्करं योगम् आसाद्य ततो मोक्षम् अवाप्नुयात् ॥ ११ ॥
कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ।
पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम् ॥ १२ ॥
ॐ नमो व्यक्तरूपाय महाप्रलयकारिणे ।
महद्रसोपविष्टाय न्यग्रोधाय नमो ऽस्तु ते ॥ १३ ॥
अमरस् त्वं सदा कल्पे हरेश् चायतनं वट ।
न्यग्रोध हर मे पापं कल्पवृक्ष नमो ऽस्तु ते ॥ १४ ॥
भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः ।
सहसा मुच्यते पापाज् जीर्णत्वच इवोरगः ॥ १५ ॥
छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः ।
ब्रह्महत्यां नरो जह्यात् पापेष्व् अन्येषु का कथा ॥ १६ ॥
दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् ।
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ १७ ॥
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् ।
तथा स्ववंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥ १८ ॥
वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ।
सर्वपापविनिर्मुक्तस् ततो विष्णुपुरं व्रजेत् ॥ १९ ॥
दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् ।
सङ्कर्षणं सुभद्रां च स याति परमां गतिम् ॥ २० ॥
प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ।
सङ्कर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ २१ ॥
नमस् ते हलधृग् राम नमस् ते मुशलायुध ।
नमस् ते रेवतीकान्त नमस् ते भक्तवत्सल ॥ २२ ॥
नमस् ते बलिनां श्रेष्ठ नमस् ते धरणीधर ।
प्रलम्बारे नमस् ते ऽस्तु त्राहि मां कृष्णपूर्वज ॥ २३ ॥
एवं प्रसाद्य चानन्तम् अजेयं त्रिदशार्चितम् ।
कैलासशिखराकारं चन्द्रात् कान्ततराननम् ॥ २४ ॥
नीलवस्त्रधरं देवं फणाविकटमस्तकम् ।
महाबलं हलधरं कुण्डलैकविभूषितम् ॥ २५ ॥
रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् ।
सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २६ ॥
आभूतसम्प्लवं यावद् भुक्त्वा तत्र सुखं नरः ।
पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले ॥ २७ ॥
ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ।
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ २८ ॥
एवम् अभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ।
द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः ॥ २९ ॥
द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् ।
पूजयन्ति सदा धीरास् ते मोक्षं प्राप्नुवन्ति वै ॥ ३० ॥
न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः ।
यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥ ३१ ॥
तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् ।
सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ३२ ॥
जय कृष्ण जगन्नाथ जय सर्वाघनाशन ।
जय चाणूरकेशिघ्न जय कंसनिषूदन ॥ ३३ ॥
जय पद्मपलाशाक्ष जय चक्रगदाधर ।
जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ ३४ ॥
जय देव जगत्पूज्य जय संसारनाशन ।
जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ ३५ ॥
संसारसागरे घोरे निःसारे दुःखफेनिले ।
क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ ३६ ॥
नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे ।
निमग्नो ऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ३७ ॥
एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् ।
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ३८ ॥
पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् ।
महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ३९ ॥
शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् ।
सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ४० ॥
दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च ।
अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥ ४१ ॥
यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४२ ॥
यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४३ ॥
यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् ।
तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ४४ ॥
यत् फलं सर्वदानेन व्रतेन नियमेन च ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४५ ॥
तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम् ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४६ ॥
यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४७ ॥
यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४८ ॥
यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ४९ ॥
सन्न्यासेन यथोक्तेन यत् फलं समुदाहृतम् ।
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५० ॥
किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः ।
दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५१ ॥
पापैर् विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ।
श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५२ ॥
सर्वकामसमृद्धेन विमानेन सुवर्चसा ।
त्रिसप्तकुलम् उद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५३ ॥
तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् ।
गन्धर्वाप्सरसैः सार्धं यथा विष्णुश् चतुर्भुजः ॥ ५४ ॥
च्युतस् तस्माद् इहायातो विप्राणां प्रवरे कुले ।
सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५५ ॥
स्वधर्मनिरतः शान्तो दाता भूतहिते रतः ।
आसाद्य वैष्णवं ज्ञानं ततो मुक्तिम् अवाप्नुयात् ॥ ५६ ॥
ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् ।
प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥ ५७ ॥
नमस् ते सर्वगे देवि नमस् ते शुभसौख्यदे ।
त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो ऽस्तु ते ॥ ५८ ॥
एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् ।
बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५९ ॥
कामगेन विमानेन नरो विष्णुपुरं व्रजेत् ।
आभूतसम्प्लवं यावत् क्रीडित्वा तत्र देववत् ॥ ६० ॥
इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत् ।
प्राप्य योगं हरेस् तत्र मोक्षं च लभते ध्रुवम् ॥ ६१ ॥