056

Summary (SA)

Chapter 56- Mārkaṇḍeya-episode (cont.)- Viṣṇu’s teachings

{{Ref- SS 110-111}}

ब्रह्मोवाच-

इत्थं स्तुतस् तदा तेन मार्कण्डेयेन भो द्विजाः ।
प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा ॥ १ ॥

श्रीभगवान् उवाच-

ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते ।
ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि ॥ २ ॥

ब्रह्मोवाच-

श्रुत्वा स वचनं विप्राः शिशोस् तस्य महात्मनः ।
उवाच परमप्रीतो मुनिस् तद्गतमानसः ॥ ३ ॥

मार्कण्डेय उवाच-

ज्ञातुम् इच्छामि देव त्वां मायां वै तव चोत्तमाम् ।
त्वत्प्रसादाच् च देवेश स्मृतिर् न परिहीयते ॥ ४ ॥

द्रुतम् अन्तः शरीरेण सततं पर्यवर्तितम् ।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाम् अहम् अव्ययम् ॥ ५ ॥

इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते ।
पीत्वा जगद् इदं सर्वम् एतद् आख्यातुम् अर्हसि ॥ ६ ॥

किमर्थं च जगत् सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालम् इह स्थेयम् अरिन्दम ॥ ७ ॥

ज्ञातुम् इच्छामि देवेश ब्रूहि सर्वम् अशेषतः ।
त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् ।
महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो ॥ ८ ॥

ब्रह्मोवाच-

इत्य् उक्तः स तदा तेन देवदेवो महाद्युतिः ।
सान्त्वयन् स तदा वाक्यम् उवाच वदतां वरः ॥ ९ ॥

श्रीभगवान् उवाच-

कामं देवाश् च मां विप्र नहि जानन्ति तत्त्वतः ।
तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्य् अहम् ॥ १० ॥

पितृभक्तो ऽसि विप्रर्षे माम् एव शरणं गतः ।
ततो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् ॥ ११ ॥

आपो नारा इति पुरा सञ्ज्ञाकर्म कृतं मया ।
तेन नारायणो ऽस्म्य् उक्तो मम तास् त्व् अयनं सदा ॥ १२ ॥

अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः ।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ १३ ॥

अहं विष्णुर् अहं ब्रह्मा शक्रश् चापि सुराधिपः ।
अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा ॥ १४ ॥

अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः ।
अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम ॥ १५ ॥

अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने ।
द्यौर् मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ १६ ॥

सदिशं च नभः कायो वायुर् मनसि मे स्थितः ।
मया क्रतुशतैर् इष्टं बहुभिश् चाप्तदक्षिणैः ॥ १७ ॥

यजन्ते वेदविदुषो मां देवयजने स्थितम् ।
पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ १८ ॥

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ।
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ १९ ॥

शेषो भूत्वाहम् एको हि धारयामि वसुन्धराम् ।
वाराहं रूपम् आस्थाय ममेयं जगती पुरा ॥ २० ॥

मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता ।
अग्निश् च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ २१ ॥

पिबाम्य् अपः समाविष्टस् ताश् चैव विसृजाम्य् अहम् ।
ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः ॥ २२ ॥

पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ।
ऋग्वेदः सामवेदश् च यजुर्वेदस् त्व् अथर्वणः ॥ २३ ॥

मत्तः प्रादुर्भवन्त्य् एते माम् एव प्रविशन्ति च ।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ २४ ॥

कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ।
सत्त्वस्था निरहङ्कारा नित्यम् अध्यात्मकोविदाः ॥ २५ ॥

माम् एव सततं विप्राश् चिन्तयन्त उपासते ।
अहं संवर्तको ज्योतिर् अहं संवर्तको ऽनलः ॥ २६ ॥

अहं संवर्तकः सूर्यस् त्व् अहं संवर्तको ऽनिलः ।
तारारूपाणि दृश्यन्ते यान्य् एतानि नभस्तले ॥ २७ ॥

मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम ।
रत्नाकराः समुद्राश् च सर्व एव चतुर्दिशः ॥ २८ ॥

वसनं शयनं चैव निलयं चैव विद्धि मे ।
कामः क्रोधश् च हर्षश् च भयं मोहस् तथैव च ॥ २९ ॥

ममैव विद्धि रूपाणि सर्वाण्य् एतानि सत्तम ।
प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम् ॥ ३० ॥

सत्यं दानं तपश् चोग्रम् अहिंसां सर्वजन्तुषु ।
मद्विधानेन विहिता मम देहविचारिणः ॥ ३१ ॥

मयाभिभूतविज्ञानाश् चेष्टयन्ति न कामतः ।
सम्यग् वेदम् अधीयाना यजन्तो विविधैर् मखैः ॥ ३२ ॥

शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ।
प्राप्तुं शक्यो न चैवाहं नरैर् दुष्कृतकर्मभिः ॥ ३३ ॥

लोभाभिभूतैः कृपणैर् अनार्यैर् अकृतात्मभिः ।
तन् मां महाफलं विद्धि नराणां भावितात्मनाम् ॥ ३४ ॥

सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् ।
यदा यदा हि धर्मस्य ग्लानिर् भवति सत्तम ॥ ३५ ॥

अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ।
दैत्या हिंसानुरक्ताश् च अवध्याः सुरसत्तमैः ॥ ३६ ॥

राक्षसाश् चापि लोके ऽस्मिन् यदोत्पत्स्यन्ति दारुणाः ।
तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम् ॥ ३७ ॥

प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्य् अहम् ।
सृष्ट्वा देवमनुष्यांश् च गन्धर्वोरगराक्षसान् ॥ ३८ ॥

स्थावराणि च भूतानि संहराम्य् आत्ममायया ।
कर्मकाले पुनर् देहम् अनुचिन्त्य सृजाम्य् अहम् ॥ ३९ ॥

आविश्य मानुषं देहं मर्यादाबन्धकारणात् ।
श्वेतः कृतयुगे धर्मः श्यामस् त्रेतायुगे मम ॥ ४० ॥

रक्तो द्वापरम् आसाद्य कृष्णः कलियुगे तथा ।
त्रयो भागा ह्य् अधर्मस्य तस्मिन् काले भवन्ति च ॥ ४१ ॥

अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः ।
त्रैलोक्यं नाशयाम्य् एकः सर्वं स्थावरजङ्गमम् ॥ ४२ ॥

अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः ।
अभिन्नः सर्वगो ऽनन्तो हृषीकेश उरुक्रमः ॥ ४३ ॥

कालचक्रं नयाम्य् एको ब्रह्मरूपं ममैव तत् ।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥ ४४ ॥

एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम ।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ४५ ॥

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ।
यच् च किञ्चित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज ॥ ४६ ॥

सुखोदयाय तत् सर्वं श्रेयसे च तवानघ ।
यच् च किञ्चित् त्वया लोके दृष्टं स्थावरजङ्गमम् ॥ ४७ ॥

विहितः सर्व एवासौ मयात्मा भूतभावनः ।
अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ४८ ॥

यावद् युगानां विप्रर्षे सहस्रं परिवर्तते ।
तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन् ॥ ४९ ॥

एवं सर्वम् अहं कालम् इहासे मुनिसत्तम ।
अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते ॥ ५० ॥

मया च दत्तो विप्रेन्द्र वरस् ते ब्रह्मरूपिणा ।
असकृत् परितुष्टेन विप्रर्षिगणपूजित ॥ ५१ ॥

सर्वम् एकार्णवं कृत्वा नष्टे स्थावरजङ्गमे ।
निर्गतो ऽसि मयाज्ञातस् ततस् ते दर्शितं जगत् ॥ ५२ ॥

अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम ।
दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे ॥ ५३ ॥

ततो ऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया ।
आख्यातस् ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः ॥ ५४ ॥

यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः ।
तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम् ॥ ५५ ॥

ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे ।
एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम ॥ ५६ ॥

आकाशं पृथिवीं ज्योतिर् वायुः सलिलम् एव च ।
लोके यच् च भवेत् किञ्चिद् इह स्थावरजङ्गमम् ॥ ५७ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तदा विप्राः पुनस् तं प्राह माधवः ।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥ ५८ ॥

श्रीभगवान् उवाच-

मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः ।
वरं वृणीष्व यच् छ्रेष्ठं ददामि नचिराद् अहम् ॥ ५९ ॥

आयुष्मान् असि देवानां मद्भक्तो ऽसि दृढव्रतः ।
तेन त्वम् असि विप्रेन्द्र पुनर् दीर्घायुर् आप्नुहि ॥ ६० ॥

ब्रह्मोवाच-

श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः ।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनर् अब्रवीत् ॥ ६१ ॥

मार्कण्डेय उवाच-

दृष्टं परं हि देवेश तव रूपं द्विजोत्तम ।
मोहो ऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥ ६२ ॥

एवम् एवम् अहं नाथ इच्छेयं त्वत्प्रसादतः ।
लोकानां च हितार्थाय नानाभावप्रशान्तये ॥ ६३ ॥

शैवभागवतानां च वादार्थप्रतिषेधकम् ।
अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥ ६४ ॥

शिवस्यायतनं देव करोमि परमं महत् ।
प्रतिष्ठेय तथा तत्र तव स्थाने च शङ्करम् ॥ ६५ ॥

ततो ज्ञास्यन्ति लोके ऽस्मिन्न् एकमूर्ती हरीश्वरौ ।
प्रत्युवाच जगन्नाथः स पुनस् तं महामुनिम् ॥ ६६ ॥

श्रीभगवान् उवाच-

यद् एतत् परमं देवं कारणं भुवनेश्वरम् ।
लिङ्गम् आराधनार्थाय नानाभावप्रशान्तये ॥ ६७ ॥

ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् ।
तत्प्रभावाच् छिवलोके तिष्ठ त्वं च तथाक्षयम् ॥ ६८ ॥

शिवे संस्थापिते विप्र मम संस्थापनं भवेत् ।
नावयोर् अन्तरं किञ्चिद् एकभावौ द्विधा कृतौ ॥ ६९ ॥

यो रुद्रः स स्वयं विष्णुर् यो विष्णुः स महेश्वरः ।
उभयोर् अन्तरं नास्ति पवनाकाशयोर् इव ॥ ७० ॥

मोहितो नाभिजानाति य एव गरुडध्वजः ।
वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम् ॥ ७१ ॥

तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् ।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥ ७२ ॥

मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः ।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥ ७३ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत ।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥ ७४ ॥