055

Summary (SA)

Chapter 55- Mārkaṇḍeya-episode (cont.)- Mārkaṇḍeya’s hymn to Viṣṇu

{{Ref- SS 109}}

ब्रह्मोवाच-

स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः ।
पुनश् चैकार्णवाम् उर्वीम् अपश्यज् जनवर्जिताम् ॥ १ ॥

पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् ।
शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ २ ॥

श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् ।
जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ ३ ॥

सो ऽपि तं मुनिम् आयान्तं प्लवमानम् अचेतनम् ।
दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव ॥ ४ ॥

श्रीभगवान् उवाच-

कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे ।
भ्रममाणश् च किं तत्र आश्चर्यं दृष्टवान् असि ॥ ५ ॥

भक्तो ऽसि मे मुनिश्रेष्ठ श्रान्तो ऽसि च ममाश्रितः ।
तेन त्वाम् उपकाराय सम्भाषे पश्य माम् इह ॥ ६ ॥

ब्रह्मोवाच-

श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः ।
ददर्श तं सुदुष्प्रेक्षं रत्नैर् दिव्यैर् अलङ्कृतम् ॥ ७ ॥

प्रसन्ना निर्मला दृष्टिर् मुहूर्तात् तस्य भो द्विजाः ।
प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर् नवा ॥ ८ ॥

रक्ताङ्गुलितलौ पादौ ततस् तस्य सुरार्चितौ ।
प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ ९ ॥

कृताञ्जलिस् तदा हृष्टो विस्मितश् च पुनः पुनः ।
दृष्ट्वा तं परमात्मानं संस्तोतुम् उपचक्रमे ॥ १० ॥

मार्कण्डेय उवाच-

देवदेव जगन्नाथ मायाबालवपुर्धर ।
त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ११ ॥

सन्तप्तो ऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना ।
अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ १२ ॥

शोषितश् च प्रचण्डेन वायुना जगदायुना ।
विह्वलो ऽहं तथा श्रान्तस् त्राहि मां पुरुषोत्तम ॥ १३ ॥

तापितश् च तशामात्यैः प्रलयावर्तकादिभिः ।
न शान्तिम् अधिगच्छामि त्राहि मां पुरुषोत्तम ॥ १४ ॥

तृषितश् च क्षुधाविष्टो दुःखितश् च जगत्पते ।
त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ १५ ॥

अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे ।
न चान्तम् अधिगच्छामि त्राहि मां पुरुषोत्तम ॥ १६ ॥

तवोदरे च देवेश मया दृष्टं चराचरम् ।
विस्मितो ऽहं विषण्णश् च त्राहि मां पुरुषोत्तम ॥ १७ ॥

संसारे ऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम ।
प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ १८ ॥

प्रसीद विबुधां नाथ प्रसीद विबुधालय ।
प्रसीद सर्वलोकेश जगत्कारणकारण ॥ १९ ॥

प्रसीद सर्वकृद् देव प्रसीद मम भूधर ।
प्रसीद सलिलावास प्रसीद मधुसूदन ॥ २० ॥

प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर ।
प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ २१ ॥

प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक ।
प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ २२ ॥

प्रसीद शक्रावरज प्रसीद वरदाव्यय ।
त्वं मही त्वं जलं देव त्वम् अग्निस् त्वं समीरणः ॥ २३ ॥

त्वं नभस् त्वं मनश् चैव त्वम् अहङ्कार एव च ।
त्वं बुद्धिः प्रकृतिश् चैव सत्त्वाद्यास् त्वं जगत्पते ॥ २४ ॥

पुरुषस् त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः ।
त्वम् इन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ २५ ॥

त्वं दिक्पालाश् च धर्माश् च वेदा यज्ञाः सदक्षिणाः ।
त्वम् इन्द्रस् त्वं शिवो देवस् त्वं हविस् त्वं हुताशनः ॥ २६ ॥

त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् ।
वरुणस् त्वम् अपां नाथ त्वं वायुस् त्वं धनेश्वरः ॥ २७ ॥

त्वम् ईशानस् त्वम् अनन्तस् त्वं गणेशश् च षण्मुखः ।
वसवस् त्वं तथा रुद्रास् त्वम् आदित्याश् च खेचराः ॥ २८ ॥

दानवास् त्वं तथा यक्षास् त्वं दैत्याः समरुद्गणाः ।
सिद्धाश् चाप्सरसो नागा गन्धर्वास् त्वं सचारणाः ॥ २९ ॥

पितरो वालखिल्याश् च प्रजानां पतयो ऽच्युत ।
मुनयस् त्वम् ऋषिगणास् त्वम् अश्विनौ निशाचराः ॥ ३० ॥

अन्याश् च जातयस् त्वं हि यत् किञ्चिज् जीवसञ्ज्ञितम् ।
किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ ३१ ॥

भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् ।
यत् ते रूपं परं देव कूटस्थम् अचलं ध्रुवम् ॥ ३२ ॥

ब्रह्माद्यास् तन् न जानन्ति कथम् अन्ये ऽल्पमेधसः ।
देव शुद्धस्वभावो ऽसि नित्यस् त्वं प्रकृतेः परः ॥ ३३ ॥

अव्यक्तः शाश्वतो ऽनन्तः सर्वव्यापी महेश्वरः ।
त्वम् आकाशः परः शान्तो अजस् त्वं विभुर् अव्ययः ॥ ३४ ॥

एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् ।
स्तुतो ऽसि यन् मया देव विकलेनाल्पचेतसा ।
तत् सर्वं देवदेवेश क्षन्तुम् अर्हसि चाव्यय ॥ ३५ ॥