054

Summary (SA)

Chapter 54- Mārkaṇḍeya-episode (cont.)- Mārkaṇḍeya’s vision

{{Ref- SS 109}}

ब्रह्मोवाच-

स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ।
ददर्श पृथिवीं कृत्स्नां नानाजनपदैर् वृताम् ॥ १ ॥

लवणेक्षुसुरासर्पिर्दधिदुग्धजलोदधीन् ।
ददर्श तान् समुद्रांश् च जम्बु प्लक्षं च शाल्मलम् ॥ २ ॥

कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः ।
भारतादीनि वर्षाणि तथा सर्वांश् च पर्वतान् ॥ ३ ॥

मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् ।
नानारत्नान्वितैः शृङ्गैर् भूषितं बहुकन्दरम् ॥ ४ ॥

नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् ।
नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ ५ ॥

व्याघ्रैः सिंहैर् वराहैश् च चामरैर् महिषैर् गजैः ।
मृगैः शाखामृगैश् चान्यैर् भूषितं सुमनोहरम् ॥ ६ ॥

शक्राद्यैर् विविधैर् देवैः सिद्धचारणपन्नगैः ।
मुनियक्षाप्सरोभिश् च वृतैश् चान्यैः सुरालयैः ॥ ७ ॥

ब्रह्मोवाच-

एवं सुमेरुं श्रीमन्तम् अपश्यन् मुनिसत्तमः ।
पर्यटन् स तदा विप्रस् तस्य बालस्य चोदरे ॥ ८ ॥

हिमवन्तं हेमकूटं निषधं गन्धमादनम् ।
श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ ९ ॥

महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् ।
सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ १० ॥

एताश् चान्याश् च बहवो यावन्तः पृथिवीधराः ।
ततस् तांस् तु मुनिश्रेष्ठाः सो ऽपश्यद् रत्नभूषितान् ॥ ११ ॥

कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् ।
बाह्लीकान् शूरसेनांश् च काश्मीरांस् तङ्गणान् खसान् ॥ १२ ॥

पार्वतीयान् किरातांश् च कर्णप्रावरणान् मरून् ।
अन्त्यजान् अन्त्यजातींश् च सो ऽपश्यत् तस्य चोदरे ॥ १३ ॥

मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् ।
गजांश् चान्यांस् तथा सत्त्वान् सो ऽपश्यत् तस्य चोदरे ॥ १४ ॥

पृथिव्यां यानि तीर्थानि ग्रामाश् च नगराणि च ।
कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ १५ ॥

शक्रादीन् विबुधाञ् श्रेष्ठांस् तथान्यांश् च दिवौकसः ।
गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव सनातनान् ॥ १६ ॥

दैत्यदानवसङ्घांश् च नागांश् च मुनिसत्तमाः ।
सिंहिकातनयांश् चैव ये चान्ये सुरशत्रवः ॥ १७ ॥

यत् किञ्चित् तेन लोके ऽस्मिन् दृष्टपूर्वं चराचरम् ।
अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ १८ ॥

अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः ।
ब्रह्मादिस्तम्बपर्यन्तं यत् किञ्चित् सचराचरम् ॥ १९ ॥

भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः ।
महर् जनस् तपः सत्यम् अतलं वितलं तथा ॥ २० ॥

पातालं सुतलं चैव वितलं च रसातलम् ।
महातलं च ब्रह्माण्डम् अपश्यत् तस्य चोदरे ॥ २१ ॥

अव्याहता गतिस् तस्य तदाभूद् द्विजसत्तमाः ।
प्रसादात् तस्य देवस्य स्मृतिलोपश् च नाभवत् ॥ २२ ॥

भ्रममाणस् तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः ।
नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ २३ ॥

यदासौ नागतश् चान्तं तस्य देहस्य भो द्विजाः ।
तदा तं वरदं देवं शरणं गतवान् मुनिः ॥ २४ ॥

ततो ऽसौ सहसा विप्रा वायुवेगेन निःसृतः ।
महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः ॥ २५ ॥