053

Summary (SA)

Chapter 53- Mārkaṇḍeya-episode (cont.)- The Flood and the child in the fig-tree

{{Ref- SS 108}}

ब्रह्मोवाच-

ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः ।
समुत्तस्थुर् महामेघा नभस्य् अद्भुतदर्शनाः ॥ १ ॥

केचिन् नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।
केचित् किञ्जल्कसङ्काशाः केचित् पीताः पयोधराः ॥ २ ॥

केचिद् धरितसङ्काशाः काकाण्डसन्निभास् तथा ।
केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसन्निभाः ॥ ३ ॥

केचित् पुरवराकाराः केचिद् गिरिवरोपमाः ।
केचिद् अञ्जनसङ्काशाः केचिन् मरकतप्रभाः ॥ ४ ॥

विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर् महाघनाः ।
घोररूपा महाभागा घोरस्वननिनादिताः ॥ ५ ॥

ततो जलधराः सर्वे समावृण्वन् नभस्तलम् ।
तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा ॥ ६ ॥

आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः ।
ततस् ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ ७ ॥

सर्वतः प्लावयाम् आसुश् चोदिताः परमेष्ठिना ।
वर्षमाणा महातोयं पूरयन्तो वसुन्धराम् ॥ ८ ॥

सुघोरम् अशिवं रौद्रं नाशयन्ति स्म पावकम् ।
ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ ९ ॥

धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ।
ततः समुद्राः स्वां वेलाम् अतिक्रामन्ति भो द्विजाः ॥ १० ॥

पर्वताश् च व्यशीर्यन्त मही चाप्सु निमज्जति ।
सर्वतः सुमहाभ्रान्तास् ते पयोदा नभस्तलम् ॥ ११ ॥

संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः ।
ततस् तं मारुतं घोरं स विष्णुर् मुनिसत्तमाः ॥ १२ ॥

आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः ।
तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ १३ ॥

नष्टे देवासुरनरे यक्षराक्षसवर्जिते ।
ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ १४ ॥

ददर्श चक्षुर् उन्मील्य जलपूर्णां वसुन्धराम् ।
नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम् ॥ १५ ॥

न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् ।
तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये ॥ १६ ॥

निमज्जन् स तदा विप्राः सन्तर्तुम् उपचक्रमे ।
बभ्रामासौ मुनिश् चार्त इतश् चेतश् च सम्प्लवन् ॥ १७ ॥

निममज्ज तदा विप्रास् त्रातारं नाधिगच्छति ।
एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः ।
प्रोवाच मुनिशार्दूलास् तदा ध्यानेन तोषितः ॥ १८ ॥

श्रीभगवान् उवाच-

वत्स श्रान्तो ऽसि बालस् त्वं भक्तत्र मम सुव्रत ।
आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ १९ ॥

मा त्वयैव च भेतव्यं सम्प्राप्तो ऽसि ममाग्रतः ।
मार्कण्डेय मुने धीर बालस् त्वं श्रमपीडितः ॥ २० ॥

ब्रह्मोवाच-

तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः ।
उवाच स तदा विप्रा विस्मितश् चाभवन् मुहुः ॥ २१ ॥

मार्कण्डेय उवाच-

को ऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव ।
बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः ॥ २२ ॥

न ह्य् एष समुदाचारो देवेष्व् अपि समाहितः ।
मां ब्रह्मा स च देवेशो दीर्घायुर् इति भाषते ॥ २३ ॥

कस् तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति चोक्त्वा मन्मृत्युं गन्तुम् इहेच्छति ॥ २४ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तदा विप्राश् चिन्ताविष्टो ऽभवन् मुनिः ।
किं स्वप्नो ऽयं मया दृष्टः किं वा मोहो ऽयम् आगतः ॥ २५ ॥

इत्थं चिन्तयतस् तस्य उत्पन्ना दुःखहा मतिः ।
व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ २६ ॥

स गत्वा शरणं देवं मुनिस् तद्गतमानसः ।
ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ २७ ॥

शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् ।
रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ २८ ॥

वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् ।
पद्मरागादिभिर् जुष्टं रत्नैर् अन्यैर् अलङ्कृतम् ॥ २९ ॥

नानास्तरणसंवीतं नानारत्नोपशोभितम् ।
नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ ३० ॥

तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् ।
सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥ ३१ ॥

चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् ।
श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥ ३२ ॥

वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् ।
हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥ ३३ ॥

दृष्ट्वा तदा मुनिर् देवं विस्मयोत्फुल्ललोचनः ।
रोमाञ्चिततनुर् देवं प्रणिपत्येदम् अब्रवीत् ॥ ३४ ॥

मार्कण्डेय उवाच-

अहो चैकार्णवे घोरे विनष्टे सचराचरे ।
कथम् एको ह्य् अयं बालस् तिष्ठत्य् अत्र सुनिर्भयः ॥ ३५ ॥

ब्रह्मोवाच-

भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः ।
न बुबोध तदा देवं मायया तस्य मोहितः ।
यदा न बुबुधे चैनं तदा खेदाद् उवाच ह ॥ ३६ ॥

मार्कण्डेय उवाच-

वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया ।
वृथा मे जीवितं दीर्घं वृथा मानुष्यम् एव च ॥ ३७ ॥

यो ऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥ ३८ ॥

ब्रह्मोवाच-

एवं सञ्चिन्तयन् विप्रः प्लवमानो विचेतनः ।
त्राणार्थं विह्वलश् चासौ निर्वेदं गतवांस् तदा ॥ ३९ ॥

ततो बालार्कसङ्काशं स्वमहिम्ना व्यवस्थितम् ।
सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥ ४० ॥

दृष्ट्वा तं मुनिम् आयान्तं स बालः प्रहसन्न् इव ।
प्रोवाच मुनिशार्दूलास् तदा मेघौघनिस्वनः ॥ ४१ ॥

श्रीभगवान् उवाच-

वत्स जानामि श्रान्तं त्वां त्राणार्थं माम् उपस्थितम् ।
शरीरं विश मे क्षिप्रं विश्रामस् ते मयोदितः ॥ ४२ ॥

ब्रह्मोवाच-

श्रुत्वा स वचनं तस्य किञ्चिन् नोवाच मोहितः ।
विवेश वदनं तस्य विवृतं चावशो मुनिः ॥ ४३ ॥