Summary (SA)
Chapter 52- Mārkaṇḍeya-episode- The end of the cosmic cycle
{{Ref- SS 107-108}}
ब्रह्मोवाच-
आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये ।
नष्टे ऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ १ ॥
उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते ।
विद्युदुत्पातसङ्घातैः सम्भग्ने तरुपर्वते ॥ २ ॥
लोके च संहृते सर्वे महदुल्कानिबर्हणे ।
शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ ३ ॥
ततः संवर्तको वह्निर् वायुना सह भो द्विजाः ।
लोकं तु प्राविशत् सर्वम् आदित्यैर् उपशोभितम् ॥ ४ ॥
पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
देवदानवयक्षाणां भयं जनयते महत् ॥ ५ ॥
निर्दहन् नागलोकं च यच् च किञ्चित् क्षिताव् इह ।
अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ ६ ॥
ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्य् आशुगो वायुः स च संवर्तको ऽनलः ॥ ७ ॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति सन्दीप्तः सर्वम् एव जगत् प्रभुः ॥ ८ ॥
प्रदीप्तो ऽसौ महारौद्रः कल्पाग्निर् इति संश्रुतः ।
महाज्वालो महार्चिष्मान् सम्प्रदीप्तमहास्वनः ॥ ९ ॥
सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा ।
त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम् ॥ १० ॥
एवंविधे महाघोरे महाप्रलयदारुणे ।
ऋषिः परमधर्मात्मा ध्यानयोगपरो ऽभवत् ॥ ११ ॥
एकः सन्तिष्ठते विप्रा मार्कण्डेयेति विश्रुतः ।
मोहपाशैर् निबद्धो ऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ १२ ॥
स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः ।
तृष्णार्तः प्रस्खलन् विप्रास् तदासौ भयविह्वलः ॥ १३ ॥
बभ्राम पृथिवीं सर्वां कान्दिशीको विचेतनः ।
त्रातारं नाधिगच्छन् वै इतश् चेतश् च धावति ॥ १४ ॥
न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः ।
करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ १५ ॥
कथं पश्यामि तं देवं पुरुषेशं सनातनम् ।
इति सञ्चिन्तयन् देवम् एकाग्रेण सनातनम् ॥ १६ ॥
प्राप्तवांस् तत् पदं दिव्यं महाप्रलयकारणम् ।
पुरुषेशम् इति ख्यातं वटराजं सनातनम् ॥ १७ ॥
त्वरायुक्तो मुनिश् चासौ न्यग्रोधस्यान्तिकं ययौ ।
आसाद्य तं मुनिश्रेष्ठास् तस्य मूले समाविशत् ॥ १८ ॥
न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् ।
न संवर्तागमस् तत्र न च वज्राशनिस् तथा ॥ १९ ॥