051

Summary (SA)

Chapter 51- Story of Indradyumna (cont.)- Boons granted by Viṣṇu

{{Ref- SS 106-107}}

श्रीभगवान् उवाच-

नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।
न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम् ॥ १ ॥

अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः ।
आराधनीयो भूतानाम् अन्तो यस्य न विद्यते ॥ २ ॥

पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते ।
यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः ॥ ३ ॥

अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्य् अहम् ।
इन्द्रो ऽहं देवराजश् च जगत्संयमनो यमः ॥ ४ ॥

पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप ।
वरुणो ऽपां पतिश् चाहं धरित्री च महीधरः ॥ ५ ॥

यत् किञ्चिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् ।
चराचरं च यद् विश्वं मदन्यन् नास्ति किञ्चन ॥ ६ ॥

प्रीतो ऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।
यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥ ७ ॥

मद्दर्शनम् अपुण्यानां स्वप्नान्ते ऽपि न जायते ।
त्वं पुनर् दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥ ८ ॥

ब्रह्मोवाच-

श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः ।
रोमाञ्चिततनुर् भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ९ ॥

राजोवाच-

श्रियः कान्त नमस् ते ऽस्तु श्रीपते पीतवाससे ।
श्रीद श्रीश श्रीनिवास नमस् ते श्रीनिकेतन ॥ १० ॥

आद्यं पुरुषम् ईशानं सर्वेशं सर्वतोमुखम् ।
निष्कलं परमं देवं प्रणतो ऽस्मि सनातनम् ॥ ११ ॥

शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ १२ ॥

प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् ।
सर्वेषाम् एव गोप्तारं व्यापिनं सर्वभाविनम् ॥ १३ ॥

शङ्खचक्रधरं देवं गदामुशलधारिणम् ।
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ १४ ॥

नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् ।
नमस्ये ऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ १५ ॥

पुनस् त्वां देवदेवेशं नमस्ये वरदं विभुम् ।
सर्वलोकेश्वरं विष्णुं मोक्षकारणम् अव्ययम् ॥ १६ ॥

ब्रह्मोवाच-

एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः ।
उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ १७ ॥

राजोवाच-

प्रीतो ऽसि यदि मे नाथ वृणोमि वरम् उत्तमम् ।
देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ १८ ॥

सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास् तथा ।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ १९ ॥

परिव्राड्योगयुक्ताश् च वेदतत्त्वार्थचिन्तकाः ।
मोक्षमार्गविदो ये ऽन्ये ध्यायन्ति परमं पदम् ॥ २० ॥

निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः ।
तत् पदं गन्तुम् इच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥ २१ ॥

श्रीभगवान् उवाच-

सर्वं भवतु भद्रं ते यथेष्टं सर्वम् आप्नुहि ।
भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥ २२ ॥

दश वर्षसहस्राणि तथा नव शतानि च ।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ २३ ॥

प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः ।
पूर्णमनोरथं शान्तं गुह्यम् अव्यक्तम् अव्ययम् ॥ २४ ॥

परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् ।
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ २५ ॥

तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् ।
यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ २६ ॥

कीर्तिश् च तव राजेन्द्र भवत्य् अत्र महीतले ।
यावद् घना नभो यावद् यावच् चन्द्रार्कतारकम् ॥ २७ ॥

यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः ।
तिष्ठन्ति दिवि देवाश् च तावत् सर्वत्र चाव्यया ॥ २८ ॥

इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् ।
यत्र स्नात्वा सकृल् लोकः शक्रलोकम् अवाप्नुयात् ॥ २९ ॥

दापयिष्यति यः पिण्डांस् तटे ऽस्मिन् सरसः शुभे ।
कुलैकविंशम् उद्धृत्य शक्रलोकं गमिष्यति ॥ ३० ॥

पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः ।
विमानेन वसेत् तत्र यावद् इन्द्राश् चतुर्दश ॥ ३१ ॥

सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते ।
न्यग्रोधस् तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ ३२ ॥

केतकीवनसञ्छन्नो नानापादपसङ्कुलः ।
नारिकेलैर् असङ्ख्येयैश् चम्पकैर् बकुलावृतैः ॥ ३३ ॥

अशोकैः कर्णिकारैश् च पुन्नागैर् नागकेसरैः ।
पाटलाम्रातसरलैश् चन्दनैर् देवदारुभिः ॥ ३४ ॥

न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः ।
हिन्तालैश् चैव तालैश् च शिंशपैर् बदरैस् तथा ॥ ३५ ॥

करञ्जैर् लकुचैः प्लक्षैः पनसैर् बिल्वधातुकैः ।
अन्यैर् बहुविधैर् वृक्षैः शोभितः समलङ्कृतः ॥ ३६ ॥

आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते ।
ऋक्षे नेष्यन्ति नस् तत्र नीत्वा सप्त दिनानि वै ॥ ३७ ॥

मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः ।
क्रीडाविशेषबहुलैर् नृत्यगीतमनोहरैः ॥ ३८ ॥

चामरैः स्वर्णदण्डैश् च व्यजनै रत्नभूषणैः ।
वीजयन्तस् तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ ३९ ॥

ब्रह्मचारी यतिश् चैव स्नातकाश् च द्विजोत्तमाः ।
वानप्रस्था गृहस्थाश् च सिद्धाश् चान्ये च ब्राह्मणाः ॥ ४० ॥

नानावर्णपदैः स्तोत्रैर् ऋग्यजुःसामनिस्वनैः ।
करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ॥ ४१ ॥

ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः ।
नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ ४२ ॥

पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः ।
हरेर् अनुचरस् तत्र क्रीडते केशवेन वै ॥ ४३ ॥

विमानेनार्कवर्णेन रत्नहारेण भ्राजता ।
सर्वकामैर् महाभोगैस् तिष्ठते भुवनोत्तमे ॥ ४४ ॥

तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् ।
कोटीधनपतिः श्रीमांश् चतुर्वेदी भवेद् ध्रुवम् ॥ ४५ ॥

ब्रह्मोवाच-

एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ।
जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ ४६ ॥

स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः ।
कृतकृत्यम् इवात्मानं मेने सन्दर्शनाद् धरेः ॥ ४७ ॥

ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् ।
रथैर् विमानसङ्काशैर् मणिकाञ्चनचित्रितैः ॥ ४८ ॥

संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः ।
आनयाम् आस मतिमान् सामात्यः सपुरोहितः ॥ ४९ ॥

नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः ।
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५० ॥

ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे ।
प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह ॥ ५१ ॥

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ।
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५२ ॥

आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः ।
ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ ॥ ५३ ॥

कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे ।
स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा ॥ ५४ ॥

ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः ।
सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः ॥ ५५ ॥

रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः ।
ददौ चान्यान् स विषयान् पुराणि नगराणि च ॥ ५६ ॥

एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् ।
इष्ट्वा च विविधैर् यज्ञैर् दत्त्वा दानान्य् अनेकशः ॥ ५७ ॥

कृतकृत्यस् ततो राजा त्यक्तसर्वपरिग्रहः ।
जगाम परमं स्थानं तद् विष्णोः परमं पदम् ॥ ५८ ॥

एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः ।
क्षेत्रस्य चैव माहात्म्यं किम् अन्यच् छ्रोतुम् इच्छथ ॥ ५९ ॥

विष्णुर् उवाच-

श्रुत्वैवं वचनं तस्य ब्रह्मणो ऽव्यक्तजन्मनः ।
आश्चर्यं मेनिरे विप्राः पप्रच्छुश् च पुनर् मुदा ॥ ६० ॥

मुनय ऊचुः-

कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् ।
विधिना केन कर्तव्यं पञ्चतीर्थम् इति प्रभो ॥ ६१ ॥

एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् ।
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥ ६२ ॥

ब्रह्मोवाच-

निराहारः कुरुक्षेत्रे पादेनैकेन यस् तपेत् ।
जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ६३ ॥

दृष्ट्वा सदा ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् ।
कृतोपवासः प्राप्नोति ततो ऽधिकतरं फलम् ॥ ६४ ॥

तस्माज् ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः ।
स्वर्गलोकेप्सुविप्राद्यैर् द्रष्टव्यः पुरुषोत्तमः ॥ ६५ ॥

पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः ।
शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम् ॥ ६६ ॥

ये पश्यन्त्य् अव्ययं देवं द्वादश्यां पुरुषोत्तमम् ।
ते विष्णुलोकम् आसाद्य न च्यवन्ते कदाचन ॥ ६७ ॥

तस्माज् ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः ।
कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥ ६८ ॥

सुदूरस्थो ऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् ।
अहन्य् अहनि शुद्धात्मा सो ऽपि विष्णुपुरं व्रजेत् ॥ ६९ ॥

यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ७० ॥

चक्रं दृष्ट्वा हरेर् दूरात् प्रासादोपरि संस्थितम् ।
सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत् ॥ ७१ ॥