050

Summary (SA)

Chapter 50- Story of Indradyumna (cont.)- Making of the images

{{Ref- SS 105-106}}

ब्रह्मोवाच-

स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् ।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ १ ॥

चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले ।
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ २ ॥

कथं प्रत्यक्षम् अभ्येति देवदेवो जनार्दनः ।
मम चार्तिहरो देवस् तदासाव् इति चिन्तयन् ॥ ३ ॥

सुप्तस्य तस्य नृपतेर् वासुदेवो जगद्गुरुः ।
आत्मानं दर्शयाम् आस शङ्खचक्रगदाभृतम् ॥ ४ ॥

स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् ।
शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५ ॥

शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् ।
युगान्तादित्यवर्णाभं नीलवैदूर्यसन्निभम् ॥ ६ ॥

सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम् ।
स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥ ७ ॥

क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ।
तुष्टो ऽस्मि ते महीपाल वृथा किम् अनुशोचसि ॥ ८ ॥

यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी ।
यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ९ ॥

गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते ।
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ १० ॥

जलं तथैव वेलायां दृश्यते तत्र वै महत् ।
लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम् ॥ ११ ॥

कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च ।
वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः ॥ १२ ॥

परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज ।
एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥ १३ ॥

ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः ।
छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम् ॥ १४ ॥

दृष्ट्वा तेनैव सञ्चिन्त्य ततो भूपाल दर्शनात् ।
कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ १५ ॥

ब्रह्मोवाच-

एवम् उक्त्वा महाभागो जगामादर्शनं हरिः ।
स चापि स्वप्नम् आलोक्य परं विस्मयम् आगतः ॥ १६ ॥

तां निशां स समुद्वीक्ष्य स्थितस् तद्गतमानसः ।
व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥ १७ ॥

प्रगतायां रजन्यां तु उत्थितो नान्यमानसः ।
स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥ १८ ॥

दत्त्वा दानं च विप्रेभ्यो ग्रामांश् च नगराणि च ।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ १९ ॥

न चाश्वो न पदातिश् च न गजो न च सारथिः ।
एकाकी स महावेलां प्रविवेश महीपतिः ॥ २० ॥

तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् ।
महातिगमहारोहं पुण्यं विपुलम् एव च ॥ २१ ॥

महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके ।
सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ २२ ॥

नरनाथस् तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः ।
परशुना शातयाम् आस निशितेन दृढेन च ॥ २३ ॥

द्वैधीकर्तुमनास् तत्र बभूवेन्द्रसखः स च ।
निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ २४ ॥

विश्वकर्मा च विष्णुश् च विप्ररूपधराव् उभौ ।
आजग्मतुर् महाभागौ तदा तुल्याग्रजन्मनौ ॥ २५ ॥

ज्वलमानौ स्वतेजोभिर् दिव्यस्रगनुलेपनौ ।
अथ तौ तं समागम्य नृपम् इन्द्रसखं तदा ॥ २६ ॥

ताव् ऊचतुर् महाराज किम् अत्र त्वं करिष्यसि ।
किमर्थं च महाबाहो शातितश् च वनस्पतिः ॥ २७ ॥

असहायो महादुर्गे निर्जने गहने वने ।
महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ २८ ॥

ब्रह्मोवाच-

तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः ।
बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ २९ ॥

दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याव् इवागतौ ।
नमस्कृत्य जगन्नाथाव् अवाङ्मुखम् अवस्थितः ॥ ३० ॥

राजोवाच-

देवदेवम् अनाद्यन्तम् अनन्तं जगतां पतिम् ।
आराधयितुं प्रतिमां करोमीति मतिर् मम ॥ ३१ ॥

अहं स देवदेवेन परमेण महात्मना ।
स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ ३२ ॥

ब्रह्मोवाच-

राज्ञस् तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ।
प्रहस्य तस्मै विश्वेशस् तुष्टो वचनम् अब्रवीत् ॥ ३३ ॥

विष्णुर् उवाच-

साधु साधु महीपाल यद् एतन् मतम् उत्तमम् ।
संसारसागरे घोरे कदलीदलसन्निभे ॥ ३४ ॥

निःसारे दुःखबहुले कामक्रोधसमाकुले ।
इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ ३५ ॥

नानाव्याधिशतावर्ते जलबुद्बुदसन्निभे ।
यतस् ते मतिर् उत्पन्ना विष्णोर् आराधनाय वै ॥ ३६ ॥

धन्यस् त्वं नृपशार्दूल गुणैः सर्वैर् अलङ्कृतः ।
सप्रजा पृथिवी धन्या सशैलवनकानना ॥ ३७ ॥

सपुरग्रामनगरा चतुर्वर्णैर् अलङ्कृता ।
यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ ३८ ॥

एह्य् एहि सुमहाभाग द्रुमे ऽस्मिन् सुखशीतले ।
आवाभ्यां सह तिष्ठ त्वं कथाभिर् धर्मसंश्रितः ॥ ३९ ॥

अयं मम सहायस् तु आगतः शिल्पिनां वरः ।
विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु ।
मयोद्दिष्टां तु प्रतिमां करोत्य् एष तटं त्यज ॥ ४० ॥

ब्रह्मोवाच-

श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ।
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ ४१ ॥

तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले ।
ततस् तस्मै स विश्वात्मा ददाव् आज्ञां द्विजाकृतिः ॥ ४२ ॥

शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति ।
कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ ४३ ॥

श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् ।
गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ ४४ ॥

लाङ्गलास्त्रधरं देवम् अनन्ताख्यं महाबलम् ।
देवदानवगन्धर्वयक्षविद्याधरोरगैः ॥ ४५ ॥

न विज्ञातो हि तस्यान्तस् तेनानन्त इति स्मृतः ।
भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ ४६ ॥

तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ४७ ॥

ब्रह्मोवाच-

श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् ।
तत्क्षणात् कारयाम् आस प्रतिमाः शुभलक्षणाः ॥ ४८ ॥

प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् ।
आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ ४९ ॥

नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् ।
कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ ५० ॥

द्वितीयं पुण्डरीकाक्षं नीलजीमूतसन्निभम् ।
अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् ॥ ५१ ॥

पीतवाससम् अत्युग्रं शुभं श्रीवत्सलक्षणम् ।
चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ ५२ ॥

तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् ।
विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम् ॥ ५३ ॥

विचित्राभरणोपेतां रत्नहारावलम्बिताम् ।
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५४ ॥

स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ।
दिव्यवस्त्रयुगच्छन्ना नानारत्नैर् अलङ्कृताः ॥ ५५ ॥

सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः ।
विस्मयं परमं गत्वा इदं वचनम् अब्रवीत् ॥ ५६ ॥

इन्द्रद्युम्न उवाच-

किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ ।
उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ ॥ ५७ ॥

देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् ।
किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ ॥ ५८ ॥

न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ ।
युवां गतो ऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम् ॥ ५९ ॥