Summary (SA)
Chapter 49- Story of Indradyumna (cont.)- Hymn to Viṣṇu
{{Ref- SS 104-105}}
वासुदेव नमस् ते ऽस्तु नमस् ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ १ ॥
निर्मलाम्बरसङ्काश नमस् ते पुरुषोत्तम ।
सङ्कर्षण नमस् ते ऽस्तु त्राहि मां धरणीधर ॥ २ ॥
नमस् ते हेमगर्भाभ नमस् ते मकरध्वज ।
रतिकान्त नमस् ते ऽस्तु त्राहि मां संवरान्तक ॥ ३ ॥
नमस् ते ऽञ्जनसङ्काश नमस् ते भक्तवत्सल ।
अनिरुद्ध नमस् ते ऽस्तु त्राहि मां वरदो भव ॥ ४ ॥
नमस् ते विबुधावास नमस् ते विबुधप्रिय ।
नारायण नमस् ते ऽस्तु त्राहि मां शरणागतम् ॥ ५ ॥
नमस् ते बलिनां श्रेष्ठ नमस् ते लाङ्गलायुध ।
चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ६ ॥
नमस् ते नीलमेघाभ नमस् ते त्रिदशार्चित ।
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ७ ॥
प्रलयानलसङ्काश नमस् ते दितिजान्तक ।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ८ ॥
यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा ।
तथा महावराहस् त्वं त्राहि मां दुःखसागरात् ॥ ९ ॥
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया ।
तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ १० ॥
अङ्गानि तव देवेश गरुत्माद्यास् तथा प्रभो ।
दिक्पालाः सायुधाश् चैव केशवाद्यास् तथाच्युत ॥ ११ ॥
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।
ते ऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ १२ ॥
मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ १३ ॥
भेदास् ते कीर्तिता ये तु हरे सङ्कर्षणादयः ।
तव पूजार्थसम्भूतास् ततस् त्वयि समाश्रिताः ॥ १४ ॥
न भेदस् तव देवेश विद्यते परमार्थतः ।
विविधं तव यद् रूपम् उक्तं तद् उपचारतः ॥ १५ ॥
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः ।
एकस् त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ १६ ॥
परमं तव यद् रूपं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थम् अचलं ध्रुवम् ॥ १७ ॥
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् ।
तद् देवाश् च न जानन्ति कथं जानाम्य् अहं प्रभो ॥ १८ ॥
अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणिमुकुटाङ्गदधारिणम् ॥ १९ ॥
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ।
तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ २० ॥
देवदेव सुरश्रेष्ठ भक्तानाम् अभयप्रद ।
त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ २१ ॥
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।
त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥ २२ ॥
जराव्याधिशतैर् युक्तो नानादुःखैर् निपीडितः ।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ २३ ॥
पतितो ऽहं महारौद्रे घोरे संसारसागरे ।
विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ २४ ॥
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले ।
निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले ॥ २५ ॥
मायया मोहितस् तत्र भ्रमामि सुचिरं प्रभो ।
नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ २६ ॥
मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च ।
विविधान्य् अनुभूतानि संसारे ऽस्मिञ् जनार्दन ॥ २७ ॥
वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च ।
इतिहासपुराणानि तथा शिल्पान्य् अनेकशः ॥ २८ ॥
असन्तोषाश् च सन्तोषाः सञ्चयापचया व्ययाः ।
मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ २९ ॥
भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास् तथा ।
पितरो विविधा दृष्टा मातरश् च तथा मया ॥ ३० ॥
दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः ।
प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा ॥ ३१ ॥
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले ।
गर्भवासे महादुःखम् अनुभूतं तथा प्रभो ॥ ३२ ॥
दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे ।
वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ३३ ॥
मरणे यानि दुःखानि यममार्गे यमालये ।
मया तान्य् अनुभूतानि नरके यातनास् तथा ॥ ३४ ॥
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ।
महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ३५ ॥
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ।
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ३६ ॥
नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् ।
गृहेषु तेषाम् उत्पन्नो देव चाहं पुनः पुनः ॥ ३७ ॥
गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ।
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ३८ ॥
हतो मया हताश् चान्ये घातितो घातितास् तथा ।
दत्तं ममान्यैर् अन्येभ्यो मया दत्तम् अनेकशः ॥ ३९ ॥
पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन च ।
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४० ॥
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन ।
देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४१ ॥
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो ।
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४२ ॥
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।
जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४३ ॥
याति चोर्ध्वम् अधश् चैव कदा मध्ये च तिष्ठति ।
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४४ ॥
अधश् चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः ।
एवं संसारचक्रे ऽस्मिन् भैरवे रोमहर्षणे ॥ ४५ ॥
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ।
न जाने किं करोम्य् अद्य हरे व्याकुलितेन्द्रियः ॥ ४६ ॥
शोकतृष्णाभिभूतो ऽहं कान्दिशीको विचेतनः ।
इदानीं त्वाम् अहं देव विह्वलः शरणं गतः ॥ ४७ ॥
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ।
कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४८ ॥
त्वदृते नास्ति मे बन्धुर् यो ऽसौ चिन्तां करिष्यति ।
देव त्वां नाथम् आसाद्य न भयं मे ऽस्ति कुत्रचित् ॥ ४९ ॥
जीविते मरणे चैव योगक्षेमे ऽथवा प्रभो ।
ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः ॥ ५० ॥
सुगतिस् तु कथं तेषां भवेत् संसारबन्धनात् ।
किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ५१ ॥
येषां न जायते भक्तिर् जगद्धातरि केशवे ।
प्रकृतिं त्व् आसुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ५२ ॥
पतन्ति नरके घोरे जायमानाः पुनः पुनः ।
न तेषां निष्कृतिस् तस्माद् विद्यते नरकार्णवात् ॥ ५३ ॥
ये दूषयन्ति दुर्वृत्तास् त्वां देव पुरुषाधमाः ।
यत्र यत्र भवेज् जन्म मम कर्मनिबन्धनात् ॥ ५४ ॥
तत्र तत्र हरे भक्तिस् त्वयि चास्तु दृढा सदा ।
आराध्य त्वां सुरा दैत्या नराश् चान्ये ऽपि संयताः ॥ ५५ ॥
अवापुः परमां सिद्धिं कस् त्वां देव न पूजयेत् ।
न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ ५६ ॥
कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् ।
तथा चाज्ञानभावेन संस्तुतो ऽसि मया प्रभो ॥ ५७ ॥
तत् क्षमस्वापराधं मे यदि ते ऽस्ति दया मयि ।
कृतापराधे ऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ५८ ॥
तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः ।
स्तुतो ऽसि यन् मया देव भक्तिभावेन चेतसा ।
साङ्गं भवतु तत् सर्वं वासुदेव नमो ऽस्तु ते ॥ ५९ ॥
ब्रह्मोवाच-
इत्थं स्तुतस् तदा तेन प्रसन्नो गरुडध्वजः ।
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ६० ॥
यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।
स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम् ॥ ६१ ॥
त्रिसन्ध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः ।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ६२ ॥
यः पठेच् छृणुयाद् वापि श्रावयेद् वा समाहितः ।
स लोकं शाश्वतं विष्णोर् याति निर्धूतकल्मषः ॥ ६३ ॥
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ६४ ॥
न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने ।
न दुष्टमतये दद्यान् नाभक्ताय कदाचन ॥ ६५ ॥
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ६६ ॥
इदं समस्ताघविनाशहेतुः ।
कारुण्यसञ्ज्ञं सुखमोक्षदं च ।
अशेषवाञ्छाफलदं वरिष्ठं ।
स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ६७ ॥
ये तं सुसूक्ष्मं विमला मुरारिं ।
ध्यायन्ति नित्यं पुरुषं पुराणम् ।
ते मुक्तिभाजः प्रविशन्ति विष्णुं ।
मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ ॥ ६८ ॥
एकः स देवो भवदुःखहन्ता ।
परः परेषां न ततो ऽस्ति चान्यत् ।
द्रष्टा स पाता स तु नाशकर्ता ।
विष्णुः समस्ताखिलसारभूतः ॥ ६९ ॥
किं विद्यया किं स्वगुणैश् च तेषां ।
यज्ञैश् च दानैश् च तपोभिर् उग्रैः ।
येषां न भक्तिर् भवतीह कृष्णे ।
जगद्गुरौ मोक्षसुखप्रदे च ॥ ७० ॥
लोके स धन्यः स शुचिः स विद्वान् ।
मखैस् तपोभिः स गुणैर् वरिष्ठः ।
ज्ञाता स दाता स तु सत्यवक्ता ।
यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ७१ ॥